सामग्री पर जाएँ

पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ अमरकोषः । विक्रमस्त्वतिशक्तिता ॥ १०२ ॥ वीति ॥ विक्रमणम् । घव् (३।३।१८) | 'विक्रमस्तु पुमान्क्रान्तिमात्रे स्याच्छक्तिसंपदि (इति मेदिनी) ॥ (१) ॥*॥ अतिशयिता शक्तिर्यस्य । तस्य भावः । तल् ( ५॥१॥ ११९) ॥ (२) ॥*॥ द्वे ‘अतिपराक्रमस्य' ॥ वीरपाणं तु तत्पानं वृत्ते भाविनि वा रणे । वीति ॥ वीराणां पानम् | ‘वा भावकारणयोः' (८) ४।१०) इति णत्वम् ॥ (१) ॥*॥ एकम् 'युद्धारम्भेऽन्ते वा पानकर्मणः ॥ युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥ मृधमास्कन्दनं संख्यं समीकं संपरायकम् । अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४ ॥ संप्रहाराभिसंपातक लिसंस्फोटसंयुगाः । अभ्यामसमाघातसंग्रामाभ्यागमाहवाः ॥ १०५ ॥ समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः । युद्धेति ॥ योधनम् । ‘युध संप्रहारे' (दि० आ० अ०) (त: ३।३।११४) भावे ल्युटौ (३।३।११५) ॥ (१) ॥*॥ (२) ॥॥ जननम् | ‘जनेर्यक्' ( उ० ४|१११) । जायते वा । ‘भव्यगेय-’ (३।४।६८) इति साधुः । 'जन्यं हृट्टे परीवादे संग्रामे च नपुंसकम् | जन्या मातृवयस्यायां जन्यः स्याज्ज- नके पुमान् । त्रिषूत्पाद्यजनित्रोश्च नवोढाज्ञातिभृत्ययोः । वर- स्निग्धे’ इति विश्वमेदिन्यौ ॥ (३) ॥ * ॥ प्रेधानम् | 'डु धां' (जु० उ० अ०) । ‘कॄपृवृजिमन्दिनिधाञः क्युः' (उ०२८१) । ‘प्रधनं युधि दारणे' इति हैमः ॥ (४) ॥ * ॥ 'दू विदारणे' (क्या० प०से०)। ण्यन्ताद्भावे ल्युट् । 'प्रविदारणमाख्यातं संपरायेऽवदारणे' (इति मेदिनी) ॥ ( ५ ) ॥ ॥ मर्धनम् । ‘मृधु हिंसायाम्’ (भ्वा० उ० से ० ) । बाहुलकाद्भावे घनर्थे वा कः ॥ (६) ॥ ॥ 'स्कन्दिर गतिशोषणयोः' (भ्वा०प० अ०)। भावे ल्युट् (३।३।११५) । 'आस्कन्दनं तिरस्कारे रणे संशोषणेऽपि च’ इति विश्वः ॥ (७) ॥॥ संख्यानम् । चक्षिङः ख्यातेर्वा भावे कः । 'संख्यमाहवे । संख्यैकादौ बिचारे च’ इति हैमः ॥ (८) ॥*॥ समनम् | ‘षम वैक्लव्ये' ( भ्वा० प० से० ) । 'अली कादयश्च' ( उ० ४।२५ ) इति कीकन् । सम्यगयनम्, वा । 'ई गत्यादौ ' (अ० प० अ०) । बाहुलकात् कः ॥ (९) ॥ * ॥ संपरायनम् । ‘अय गतौ' ( भ्वा० आ० से ० ) । 'इ गतौ' (भ्वा०प०अ०) वा । घन (३।३।१८) । स्वार्थे कन् (ज्ञापि ० ५॥४॥५) ॥ ॥ विनया- दिलात् (५॥४॥३४) ठकि ‘सांपरायिकः' अपि ॥ (१०) [ द्वितीयं काण्डम् ॥॥ समरणम् । 'ऋ गतौ' (क्या प० से० ) घः (३|३| ११८) ॥ ‘ऋदोरप्’ (३१३१५७) वा | यत्तु—ऋच्छन्त्यत्र। 'ऋगतौ' (भ्वा०प०अ०) । 'ऋदोरप्’ (३।३।५७)— इति मुकुटेननॊक्तम् । तन्न । ऋषन्ताद विधानात् ॥ (११) ॥*॥ अननम् । ‘अन गतौ’ ( ) 'प्राणने' (अ० प० से ० ) वा । 'अनीकादकञ्च' इति साधुः । न नयनम् । ‘णीज् प्रापणे' ( भ्वा० उ० अ० ) । बाहुलकारकन् । नन्समासः (२२२२६ ) 'अनीकोऽत्री रणे सैन्ये' इति मेदिनी ॥ (१२) ॥*॥ रण- नम् । 'रण शब्दे' (भ्वा० प० से ०) । ‘वशिरण्योश्च’ (वा० ३।२।५८) इत्यप् । 'रणः कोणे क्वणे पुंसि समरे पुंनपुंसकम्' ( इति मेदिनी ) ॥ ( १३ ) ॥ * ॥ 'कलंतु मधुरध्वनौ' इति धरणिः । कलस्य हननम् । 'अन्येभ्योऽपि ' ( वा० ३१२ | १०१) इति डः ॥ (१४ ) ॥ * ॥ विग्रहणम् | ‘ग्रहवृह' (३।३।५८) इत्यप् । 'विग्रहो युधि विस्तारे प्रविभागशरीर- योः' इति हैमः ॥ (१५ ) ॥ * ॥ संप्रहरणम् | 'हृञ् हरणे' ( भ्वा० उ० अ० ) | धन् (३|३|१८ ) | 'संप्रहारो गतौ रणे' इति हैमः ॥ (१६) ॥ * ॥ अभिसंपतनम् | 'पत्ऌ गतौ' (भ्वा०प० से ० ) । घञ् (३ | ३ | १८) ॥ (१७) ॥*॥ कलनम् । 'कल शब्दादौ ' ( स्वा० आ० से ० ) । इन् ( उ० ४११८ )।- 'कलेरिः' - इति मुकुटः । तन्न । तादृशसूत्राभावात् । 'क- लिर्बिभीतके शूरे विवादेऽन्त्ययुगे युघि' इति हैमः ॥ (१८) ॥*॥ संस्फोटनम् 'स्फुटिर् विशरणे' (भ्वा०प० से ० ) । घञ् (३३१८) | 'संस्फेटः' इति तु खामी । तत्र 'स्पिट अ नादरे' (चु० प० से ० ) ॥ (१९) ॥*॥ संयोजनम् । ‘युजिर् योगे' (खा० उ० अ० ) | घञ् (३।३।१८) ।-~‘रथयुग–’ (४। ४९७६) इति निर्देशागुणाभावः । प्रतिजनादिषु (४४९९ गणे) 'संयुग' शब्दपाठाद्वा ॥ (२०) ॥ * ॥ अभ्यामर्दनम् । 'मृद क्षोदे' (क्या०प० से ० ) | घञ् (३॥ ३ ॥१८ ) | मर्दस्तु पुंसि स्यादवमदें संपराये च’ (इति मेदिनी) ॥ (२१) ॥*॥ समाहननम् । घञ् (३|३|११८) | 'समाघातो वधे युद्धे' ( इति मेदिनी) ॥ (२२) ॥ * ॥ संग्रामणम् | ‘संग्राम युद्धे’ (चु० उ० स० ) ण्यन्तः । ‘एरच्' (३१३१५६ ) ॥ (२३) ॥*॥ अभ्यागमनम् । 'ग्रवृह-' (३१३१५८) इत्यप् | 'अभ्यागमः समरेऽन्तिके | घाते रोधेऽभ्युपगमे' इति हैमः ॥ (२४) ॥*॥ आह्वानम् । 'हेञ् स्पर्धायां शब्दे च' (भ्वा० उ० अ०)। 'आङि युद्धे' (३|३|७२) इत्यप् संप्रसारणं च । 'आहवः संगरे यज्ञे' इति हैमः ॥ (२५) ॥ * ॥ समुदयनम् | ‘अय गतौ' (भ्वा० आ० से ० ) | घम् (३|३|१८ ) ॥ (२६) ॥ * ॥ संय- तनम् । 'यती प्रयत्ने' (भ्वा० अ० से०) संयमनम् । यम उपरमे' (भ्वा०प० अ०) वा संपदादिः (वा० ३।३।१०८) । 'गमादीनाम्' (वा० ६|४|४० ) इति मलोपः | तुक् (६ ॥१॥ 'अभि १ - स्वामिमुकुटाभ्यां तु प्रदन्धन्ति । धनिर्मारणार्थोऽत्र निधनवत् नृत्युक्तम् ॥ १ - सिद्धान्तकौमुद्यादौ तु 'अनीकादयश्च' इति सूत्रं नोपलभ्यते किंतु 'अनिहृषिभ्यां किच्च' (उ० ४।१७) इति सूत्रमुपलभ्यते ॥