पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ प्रेरणे' ( तु० उ० अ० ) । 'अन्येभ्योऽपि ' (वा० ३।२।१०१ ) इति डः । ‘पूर्वपदात्-’ (८१४१३) इति णश्वम् ॥ (९) ॥*॥ नव 'खङ्गस्य' ॥ अमरकोषः । त्सरुः खङ्गादिमुष्टौ स्यात् त्सेति ॥ त्सरति । ‘त्सर छद्मगतौ ' ( भ्वा०प० से ० ) ‘भृमृशी–’ (उ० १॥७) इत्युः ॥ (१) ॥ * ॥ आदिना कटित- लच्छुरिकादिग्रहः ॥*॥ एकम् ‘खड्गाद्यायुधमुष्टीनाम्' ॥ मेखला तन्निबन्धनम् | [ द्वितीयं काण्डम् स्यादीली करवालिका । स्येति ॥ ईर्ते | ईर्यते वा । 'ईर गतौ ' (अ० आ० से ० ) । 'इगुपधात् कित्' ( उ० ४१२९ ) इति इन् । 'कृदिकारात' (उ० ४।१९४५) इति ङीष् वा । कपिलिकादिः (वा० ८।२।१८) ईड्यते वा । ‘ईड स्तुतौ' (अ॰आ० से ० ) । डलयोरेकत्वम् ।- 'इगुपधात्किः' इति मुकटस्त्वपाणिनीयः । 'इगुपधात् कित्' इति सूत्रपाठात् । तत्रेनोऽनुवर्तनात् ॥ ॥ (‘इलि’ इति) हस्वादिपाठे तु 'इल गतौ क्षेपे च ' । (तु० प० चु० से ० ) इति धातुर्बोध्यः ॥ (१) ॥*॥ करं पालयति । 'पाल रक्षणे' (चु०प० से ० ) । अण् ( ३ | २|१) डी (४|१|१५) कन् (ज्ञापि० ५॥४॥५) ॥*॥ 'कारवालिका' इति पाठे तु करं वलते 'वल हिंसादानयोः' ( भ्वा० आ० से ० ) । अण् (३|२|१) करेण वाल्यते वा । णिजन्तात् 'अच इ : ' ( उ० ४११३९) | कन् (ज्ञापि ० ५|४| ५) ॥ (२) ॥॥ द्वे' 'तरवार' इति ख्यातस्य । - 'गुप्ती' मयिति ॥ मां लक्ष्मीमीखति । माईखति वा । माशब्दो निषेधे । ‘ईख गतौ’ ( भ्वा० प० से० ) । बाहुलकात्कलच् । त । 'खल संचलने संचये च' ( भ्वा० प० से ० ) | मूलविभुजादिकः (वा० ३।२।५) । अणि वृद्धिः स्यात् ।—मिखेः ‘कम्बलादयश्च' इति कलप्रत्ययो गुणश्च निपाल्यते—इति मुकुटश्चिन्त्यः | उज्वलदत्तादिषूक्त- | इति ख्यातस्य –इत्यन्ये ॥ सूत्रादर्शनात् । 'मेखला खड्गबन्धे स्यात्काञ्ची शैलनितम्बयोः' भिन्दिपालः सृगस्तुल्यौ (इति मेदिनी) ॥ (२) ॥*॥ द्वे 'खड्डादेश्चर्मादि निर्मितक- टिबन्धनस्य' । युद्धे हस्तात्पतनवारणाय मणिबन्धे प्रध्रि- यमाणस्य चर्मादेव ॥ फलकोऽस्त्री फलं चर्म फेति ॥ फलति । 'त्रिफला विशरणे' ‘फल निष्पत्तौ' (भ्वा० प० से०)। ‘कृलादिभ्यो बुन्- ' (उ०५१३५) ॥ (१) ॥*॥ अच् (३।१।१३४) । 'फलं हेतुकृते जातीफले फलक- सस्ययोः । त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयोः' (इति) ( मेदिनी ) ॥ ( २ ) ॥ ॥ चरति । चर्यते वा । अनेन वा । मनिन् ( उ० ४।१४५) । 'चर्म कृत्तौ च फलके' इति विश्वः (३) ॥*॥ त्रीणि 'चर्मणः' 'फरि' इति ख्यातस्य ॥ संग्राहो मुष्टिरस्य यः ॥ ९० ॥ समिति ॥ संगृह्यते । 'ग्रह उपादाने' (ऋया० उ० से ० ) । ‘समि मुष्टौ’ (३।३।३६) इति कर्मणि घञ् ॥ (१) ॥ ॥ अस्य फलस्य ॥*॥ एकम् ‘मुष्टेः’ ॥ दुघणे मुद्गरनौ द्विति ॥ द्रुर्वृक्षो हन्यतेऽनेन । 'करणेऽयोविद्रुषु' (३|३| ८२) इत्यप्, घनादेशश्च । 'पूर्वपदात् - ' (८|४|३) इति लम् । 'दुघणो मुद्गरेऽपि स्याद्रुहिणे च परश्वधे' इति विश्वमेदिन्यौ ॥ * ॥ केचित्तु – क्षुम्नादित्वात् (८८४१३९) न (णत्वम्) 'दुध नः' - इत्याहुः ॥ (१) ॥ * ॥ गिरति | 'गृ निगरणे' (तु०प० से० ) अच् (३।१।१३४) । मुंदो गरः ॥ ( २ ) ॥ * ॥ हन्यते - ऽनेन । 'मूर्तौ घनः' (३।३।८१) इत्यब्धनादेशौ । 'घनः सान्द्रे हढे दा विस्तारे मुद्गरेऽम्बुदे । संधे मुस्ते घनं मध्य- नृत्यवाद्यप्रकारयोः' इति हैमः ॥ (३) ॥ * ॥ त्रीणि 'मुद्गरस्य' 'गुर्जा' इति ख्यातस्य ॥ भीति ॥ भिन्दति । 'भिदि अवयवे' (भ्वा०प० से० ) इन् (उ० ४।११८) । ‘भिन्दिर्द्वादशतालं तु दशकुन्तोऽभि धीयते' इति भरतः । तदवच्छिन्नः कालोऽपि भिन्दिः । गतौ ' ( भ्वा०प० अ० ) । बाहुलकाद्गक् ॥ (२) ॥*॥ द्वे भिन्दि पालयति । अण् (३|२|१ ) ॥ (१) ॥ ॥ सरति । 'सृ 'अश्मप्रक्षेपसाधनस्य' 'गोफण' इति ख्यातस्य । —ना- लिकास्त्रस्य – इत्यन्ये ॥ परिधः परिघातनः ॥ ९१ ॥ पेति ॥ परितो हन्यतेऽनेन | 'परौ घः' (३ | ३ | ४ ) इति साधुः । 'परिघोऽत्रे योगभेदे परिघातेऽर्गलेsपि च' इति हैमः ॥ (१) ॥ ॥ परितो घातयत्यनेन । ल्युट् (३।३।११७) ॥ ( २ ) ॥ * ॥ द्वे 'लोहबद्धस्य लगुडभेदस्य' ॥ 'लोहा- ङ्गी' इति ख्यातस्य ॥ द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः । द्वेति ॥ कुठे गतिप्रतिघाते आरो गतिरस्य । जाति- त्वात् (४|१|६३) ङीष् । कुटं वृक्षमृच्छति वा । 'ऋ गतौ' ( भ्वा०प० अ० ) अण् (३|२|१) ॥ (१) ॥ ॥ स्वं घियति । 'धि धारणे' ( तु०प० अ० ) । क्तिच् (३।३।१७४) ॥ (२) ॥ ॥ परं शृणाति । 'ृ हिंसायाम्' ( क्या० व० से० ) । 'आङ्परयों: खनिगृभ्यां डिच' ( उ० ११३३) इति कुः ॥ (३) ॥ * ॥ परस्य श्वयनम् | 'टु ओ श्वि गतिवृद्ध्योः ' ( भ्वा०प० से ) । 'अन्येभ्योऽपि' (वा० ३।२।१०२) इति डः | परवं धयति । 'अतोऽनुप- ' ( ३ |२|३) इति कः ॥ ॥ ('पर्श्वधः) अपि । यदाह - 'यष्टिपर्श्वघहेतिकौ' इति - इति खामी ॥ ॥ 'परस्वधः' इति पाठे तु परस्य स्वं दधाति । काष्ठदण्डधारकत्वात् । कुठारः स्त्री च स्वधितिः परशुश्च