पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रवर्ग: ८ ] शतानि दशैव तु । संख्यातास्तुरगास्तज्ज्ञैर्विना रथतुरंगमैः । नृणां शतसहस्रं तु सहस्राणि नवैव तु । शतानि त्रीणि चा- न्यानि पञ्चाशञ्च पदातयः' ॥ ( १ ) ॥ * ॥ एकम् 'अक्षौ हिण्याः' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । अथ संपदि ॥ ८१ ॥ संपत्तिः श्रीश्च लक्ष्मीश्च अथेति ॥ संपदनम् अनया वा । ‘पद गतौ' ( दि० आ० अ० ) । संपदादित्वात् ( वा० ३।३।१०८) क्विप् ॥ (१) ॥*॥ ‘स्त्रियां क्तिन्’ ( ३।३१९४) – संपत्तिसाकल्यान्तव- चनेषु’ ( २।१।६ ) इति निर्देशात् रूधिकारेऽपि 'वासरूप-' (३।१।९४) न्यायः क्वचित्प्रवर्तते ॥ (२) ॥ ॥ श्रीयते सर्वैः । ‘श्रिञ् सेवायाम्’ ( भ्वा० उ० से० ) । 'क्विब्वचि - ' ( उ० २- ५७) इत्युणादिसूत्रेण क्विप् । श्रीर्वेषरचना शोभा भारतीस- रलद्रुमे । लक्ष्म्यां त्रिवर्गसंपत्तौ वेषोपकरणे मतौ' ( इति विश्व - मेदिन्यौ ) ॥ ( ३ ) ॥ * ॥ लक्ष्यते । 'लक्ष दर्शने' (चु० प० से० ) । ‘लक्षेर्मुट् च’ (उ० ३।१६० ) इती प्रत्ययः । 'लक्ष्मी' श्रीशोभासंपत्प्रियंगुषु' धनोत्कर्षस्य इति हेमचन्द्रः ॥ (४) ॥ * ॥ चत्वारि 'धनोत्कर्षस्य' || विपत्तौ विपदापदौ । वीति ॥ विपदनम् | अनया वा | संपदादि क्विप् ( वा० ३।३।१०८) ॥ (१) ॥*॥ तिन् (३॥३॥९४ ) ॥ (२) ॥ * ॥ एवमापत् | आपत्तिः ॥ (३) ॥ * ॥ त्रीणि 'आपदः' ॥ आयुधं तु प्रहरणं शस्त्रमस्त्रम् आरिवति ॥ आयुध्यन्तेऽनेन । 'युध संप्रहारे' ( दि० आ० अ० ) । 'घनर्थे कविधानम्, स्थास्त्रापाहनियुध्यर्थम्' (वा० ३।३।५८) ॥ (१) ॥ * ॥ प्रहियतेऽनेन । ' करणा-' ( ३।३।११७ ) इति ल्युट् ॥ (२) ॥ ॥ शस्यतेऽनेन । ‘शसु हिंसायाम्' ( भ्वा० प० से ० ) । 'दानीशस - ' ( ३ | २ | १८२ ) इति ट्रन् ॥ ( ३ ) ॥ * ॥ अस्यते । 'असु क्षेपणे' (दि० प० से ० ) असति वा । 'अस दीप्तौ' ( भ्वा० उ० से ० ) ट्रन् ( उ० ४४१४९ ) ॥ (४) ॥ * ॥ चत्वारि 'प्रहरणमात्रस्य' | अथास्त्रियौ ॥ ८२ ॥ धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् । इष्वासोऽपि २९१ काण्डशेषात् ॥ (१) ॥ * ॥ चपस्य वंशभेदस्य विकारः । 'अव - यवे च प्राण्यौषधि- ' ( ४ | ३ | १३५ ) इयण् ॥ (२) ॥ ॥ धन्वति । 'धवि गतौ' ( भ्वा०प० से ० ) 'कनिन् युऋषि - ' ( उ० १९१५६ ) इति कनिन् । 'धन्वा तु मरुदेशे ना क्लीनं चापे स्थलेऽपि च ' ( इति मेदिनी ) ॥ ( ३ ) ॥ * ॥ शरा अस्य- न्तेऽनेन । 'असु क्षेपणे' ( दि० प० अ० ) । 'करणा-' (३।३।११७) ॥ (४) ॥ * ॥ कोटति । 'कुट अनृतभाषणे’ १) । बाहुलकादण्डन् | पृषोदरादिः ( ६।३। १०९ ) । कौति । विच् ( ३ | २|७५ ) कौर्दण्डो वंशोऽस्य वा । 'कोदण्डं कार्मुके देशभेदभूतलयोरपि' इति हेमचन्द्रः ॥ (५) ॥ ॥ कर्मणे प्रभवति । 'कर्मण उकञ्' ( ५1१।१०३)। 'अथ कार्मुकः । वंशे कार्मुकमिष्वासे कर्मठे' इति हैमः ॥ (६) ॥ ॥ इषवो बाणा अस्यन्तेऽनेन । 'हलच' ( ३ | ३ | २२१ ) इति घञ् । 'इष्वासो धन्वधन्विनोः' इति हैमः ॥ ( ७ ) ॥ * ॥ सप्त 'धनुषः' ॥ अथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ ॥ अथेति ॥ कालो यम इव पृष्ठमस्य । कालवर्ण वा पृष्ठमस्य । 'कालपृष्ठं कर्णचापे पुंसि कङ्कविहंगमे' ( इति मेदिनी ) ॥ * ॥ 'कालपृष्ठं तु कोदण्डमात्रके कर्णधन्वनि । कालपृष्ठो मृगभेदे कके' इति हैमः ॥ (१) ॥*॥ एकं 'कर्णधनुषः' ॥ कपिध्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकौ । केति ॥ कपिर्हनुमान् ध्वजो ध्वजे वा यस्य ॥ * ॥ गाण्डिर्ग्र न्थिरस्यास्ति | 'कृदिकारात्' ( ० ४ १९४५ ) इति वा ङीष् । 'गाण्डड्यजगातू-' (५/२/११० ) इति वः । अत्र संहितया हस्वदीर्घयोर्ग्रहः । 'जिष्णोर्धनुषि कोदण्डे गाण्डीवं गा- ण्डिवं तथा' इति शाश्वतः । कोदण्डे धनुर्मात्रेऽपि ॥ (१) ॥ * ॥ (२) ॥ ॥ द्वे 'अर्जुनधनुषः' ॥ कोटिरस्याटनी कविति ॥ कोटयते । अनया वा । 'कुट प्रतापने' चुरादिः । 'अच' इ : ' ( उ० ४ | १३९ ) । 'कोटि: स्त्रीधनुषो- ऽग्रेऽश्रौ संख्याभेदप्रकर्षयोः' ( इति मेदिनी) ॥ (१) ॥*॥ अटति गुणोऽत्र । 'अट गतौ ' ( भ्वा० प० से ० ) । बाहुलका- दनिः । वा ङीष् (ग० ४१४५ ) ॥ (२) ॥ ॥ द्वे 'धनु- षोऽन्त्यस्य' ॥ अथेति ॥ धनति । 'धन शब्दे' ( भ्वा० ) । 'अर्ति पूवपि - ( उ० ४।११७) इत्युसू । 'धनुः पियाले ना न स्त्री राशिमेदे शरासने । धनुर्धरे त्रिषु' ( इति सान्तेषु मेदि- नी ) ॥*॥ ‘भृमृशी -’ ( उ० ११७ ) इत्युप्रत्यये उदन्तोऽपि । ( 'धनुः पुमान् पियालद्रौ राशिमेदे शरासने' इति नान्तेषु मेदिनी ) ॥*॥ (‘कृषिचमित निधनि- ' ( उ० १९८० ) इत्यूप्र- व्ययान्तः ) स्त्रियामपि । ( स्थावरं तु धनुर्गुणी ) । 'शरा- गोधे तले ज्याघातवारणे ॥ ८४ ॥ गविति ॥ गुध्येते बाहुभ्याम् । 'गुध परिवेटने' ( दि० प० से ० ) । 'हलच' ( ३|३|१२१ ) इति घञ् । 'गोधा तल- निहाकयोः' ( इति मेदिनी ) ॥ ( १ ) ॥ * ॥ तलति । 'तल प्रतिष्ठायाम् ( भ्वा०प० से० ) | अच् ( ३।१।१३४ ) । 'तलचपेटे तालद्रौ तलं ज्याघातवारणे । त्सरौ स्वभावा- वापो धनूः स्त्री स्यात् ( तृणता त्रिणतापि च )' इति त्रि- | धरयोस्तान्त्रीघाते च सन्यतः । तलं खरूपेऽनूवेंऽस्त्री क्लीं