पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ अमरकोषः । याष्टीकपारश्वधिको यष्टिपर्ध्वधहेतिकौ । येति ॥ यष्टिः प्रहरणमस्य (ईकन् '४९४/५९) ॥ (१) ॥*॥ परश्वधः परशुः प्रहरणमस्य | 'परश्वधादृञ्च' (४९४/५८) ॥ (१) ॥*॥ यष्टिश्च पर्श्वधश्च हेती ययोः ॥ * ॥ एकैकम् 'यष्टि - परशुधृतोः' ॥ नैत्रिशिकोऽसिहेतिः स्यात् नायिति ॥ निस्त्रिंशः प्रहरणमस्य । 'प्रहरणम्' (४|४| ५७) इति ठक् ॥ (१) ॥*॥ असिर्हेतिर्यस्य ॥ (२) ॥*॥ द्वे 'खड्गायुधस्य' ॥ समौ प्रासिककौन्तिकौ ॥ ७० ॥ सेति ॥ प्रासः कुन्तश्च प्रहरणमस्य | प्राग्वत् (४१४ ५७) ॥ (१) ॥*॥ एकैकम् 'प्रासकुन्तायुधिनोः' || चर्मी फलकपाणिः स्यात् [ द्वितीयं काण्डम् मन्दगामी तु मन्थरः ॥ ७२ ॥ मेति ॥ मन्दं गच्छति तच्छीलः । प्राग्वत् ( ३ | २|७८) ॥ (१) ॥ ॥ मन्थति पादौ । 'माथि हिंसासंक्लेशनयोः' (भ्वा० प० से ० ) । बाहुलकादरन् । मन्थं राति । 'आतोऽनुप- ' (३|२|३) इति कः । 'मन्थर: कोशफलयोर्बाधमन्थानयोः पुमान् । कुसुम्भ्यां न द्वयोर्मन्दे पृथौ वकेऽभिधेयवत्' (इति मेदिनी) ॥ (२) ॥*॥ द्वे 'शनैर्गमलशीलस्य' || जङ्घालोऽतिजवस्तुल्यौ चेति ॥ चर्मास्यास्ति | बीयादित्वात् (५/२/११६) इनिः ॥ (१) ॥*॥ फलकं पाणावस्य ॥ (२) ॥॥ द्वे 'फल- कधारकस्य' ॥ जेति ॥ अतिशयिता जङ्घास्य | सिध्मादित्वात् (५१२१/९७) लच् ॥॥ पिच्छादिलात् (५/२/१००) इलचि जङ्घिलोऽपि । 'प्रज्ञालप्रज्ञिलौ तुल्यौ जङ्घालजङ्गिलादयः' इति वाचस्पतिः ॥ (१) ॥ * ॥ अतिशयितो जवो वेगो यस्य ॥ (२) ॥ ॥ द्वे 'अतिवेगवतः' ॥ जङ्घाकरिकजाङ्घिकौ । जेति ॥ जङ्घासांध्यत्वादुपचाराद्वतिया । सैव करो राज-. देयो भागः, आकरः श्रेष्ठो वा । जङ्घाकरोऽस्यास्ति । ठन् (५॥ २।११५) जव करी हस्ती यस्य, इति वा ॥ (१) ॥*॥ जङ्घाभ्यां जीवति । 'वेतनादिभ्यो जीवति' (४|४|१२) इति ठक् ॥ (२) ॥ ॥ द्वे 'जङ्घाजीविनः ॥ तरस्वी त्वरितो वेगी प्रजवी जवनो जवः ॥ ७३ ॥ तेति ॥ तरो वेगोऽस्यास्ति । 'अस्मायामेधा-' (५/२/१२१) इति विनिः । 'तरस्वी शूरवेगिनोः' ( इति मेदिनी) ॥ (१) ॥॥ त्वरते | 'जिवरा संभ्रमे' (भ्वा० आ० सै० ) । 'जीतः क्तः' (३|२|१९७ ) | त्वरा संजातास्य इति वा । इतच् (५॥ २१३६) । 'त्वरितं वेगतद्वतो: ' (इति हैमः ) ॥ (२) ॥*॥ अतिशयितो वेगोस । इनिः (५॥२॥११५) ॥ (३) ॥*॥ प्रजवति ‘जुः' सौत्रो वेगे गतौ च । 'प्रजोरिनिः' (३२ १५६) ॥ (४) ॥ ॥ ‘जुचङ्क्रम्य - ' (३|२|१५०) इति युच् । 'जवनं तु स्यदे वेगिहये ना वेगिनि त्रिषु' ( इति मेदिनी ) ॥ ( ५ ) ॥ * ॥ अच् ( ३ | १ | १३४) ' (जवो वेगवति त्रिषु) । पुं. लिङ्गस्तु भवेद्वेगे चौण्ड्रपुष्पे जवा मता' (इति मेदिनी) ॥ (६) ॥ * ॥ षड् 'वेगवन्मात्रस्य' || जथ्यो यः शक्यते जेतुम् जेति ॥ जेतुं शक्यः । 'जि जये, अभिभवे वा' (भ्वा० प० अ०) । ‘शकि लिङ् च’ (३।३।१७२) इति शक्तौ ‘अयो (३।३।९७) । ‘क्षय्यजध्यौ शक्यार्थे' (६।१९८१) ॥ (१) ॥ * ॥ एकम् 'जेतुं शक्यस्य' ॥ जेयो जेतव्यमात्रके । जयति ॥ शक्यार्थादन्यत्र 'अर्हे कृत्यतृचत्र' (३॥३॥ १६९ ) इति योग्यतायाम् 'अचो यत्' (३|१|९७ ) ॥ (१) ॥ * ॥ एकं 'जेतुं योग्यस्य' ॥ पताकी वैजयन्तिकः । पति ॥ तस्यास्ति । श्रीह्यादीनिः (५/२/११५) ॥ (१) ॥*॥ वैजयन्त्यस्यास्ति । त्रीयादिलात् (५|२|११६) ठन् । यद्वा वैजयन्त्या चरति । 'चरति' (४४१८) इति ठक् ॥ (२) ॥ * ॥ द्वे 'ध्वजधारकस्य' ॥ अनुष्ठवः सहायश्चानुचरोऽभिसरः समाः ॥ ७१ ॥ अन्विति ॥ अनुपश्चात् प्हवते । 'लुङ् गतौ ' ( भ्वा० आ० अ०) । अच् (३।१।१३५ ) ॥ ( १ ) ॥ ॥ सह अयते । 'अय गतौ' (भ्वा० आ० से ० ) । एति वा । ' इण् गतौ' (अ० प० अ०)। अच् (३।१।१३४ ) ॥ ( २ ) ॥ ॥ अनु चरति । ‘चरेष्टः’ (३।२।१६) ॥ (३ ) ॥ ॥ अभितः सरति | अच् (३।१।१३४) । (४) ॥*॥ चत्वारि 'सहायस्य' || पुरोगानेसरप्रष्टाग्रतः सरपुरःसराः । पुरोगमः पुरोगामी प्विति ॥ पुरो गच्छति । ‘अन्येष्वपि -' (वा० ३१२९४८) इति डः ॥ (१) ॥*॥ अग्रे सरति । 'पुरोऽग्रतोऽयेषु - ' (३॥ २।१८) इतिटः ॥ (२) ॥ * ॥ प्रतिष्ठते गच्छति | 'आतचो- पसर्गे–’ (३।१।१३६) इति कः । ‘प्रष्ठोऽग्रगामिनि' (८|३| ९२) इति षः । ‘प्रष्ठस्त्रिष्वग्रगे श्रेष्ठे पुंसि चाण्डालिकैौषधौ' यत्' (इति मेदिनी) ॥ (३) ॥*॥ अग्रतः सरति ॥ पुरः सरति । ‘पुरोऽग्रतः -' (३।२।१८) इति टः ॥ (४) ॥*॥ (५) ॥*॥ पुरो गच्छति । अच् (३।१।१३४) | 'म' (३२४७) इति खच् वा ॥ (६) ॥*॥ ‘सुप्यजातौ -' (३|२|७८) इति णिनिः ॥ (७) ॥*॥ सप्त ‘अग्रेसराणाम् ॥