पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ अमरकोषः । (५।२।११५) । यद्वा अश्विन्यां जातौ । 'संघिवेला -' (४| ३।१६) इत्यणः 'नक्षत्रेभ्यो बहुलम्' (४|३|३७) इति लुकि ‘लुक् तद्धितळुकि’ (१।२।४९) इति ङीपो लुक् । अश्वोऽस्ति जनकत्वेन ययोर्चा | इन् (५|२|११५) ॥ (४) ||| दस्यतः क्षिपतो रोगान् । ‘दसु उपक्षये' ( दि० प० से ० ) | 'स्फायि- तञ्चि-' (उ० २।१३) इति रक् । ('दस्रः खरेऽश्विनीसुते ) | | ( ५ ) ||| अश्विन्या अपस्ये | 'स्त्रीभ्यो ढक्' (४|११२०) ॥ ( ६ ) ॥ ॥ ' तावुभाविति द्वित्वादिष्टत्वादेकवचनाभावः - ' इति स्वामी । अयं च प्रायोवादः । “देव्यां तस्यामजायेतां नासत्यो | एकम् ॥ द एव च इति मार्कण्डेयात् । 'नासत्यौ' इति 'दस्खौ' न्चैकवाचकस्योभयोः प्रयोगो गौणः ॥ षट् ‘अश्विनोः' ॥ स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः ४ स्त्रियामिति ॥ अन्यः सरन्ति । 'संरतेरसुन्' ( उ० २३७) ॥ (१) ॥॥ ‘बहुषु’ इति प्रायोवादः । 'अनचि च' (८८४१४७) इति सूत्रे ‘अप्सराः' इति भाष्यप्रयोगात् । 'स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा अपि' इति शब्दार्ण- वाच - अस्य शुभंयाशब्दवद्रूपम् इति मुकुटोक्तं चिन्त्यम् । अप्सरःशब्दस्य सान्तत्वात् ॥ ॥ स्वः स्वर्गस्य वेश्याः ॥ (२) ॥ ॥ उरून्महतोऽनुते व्याप्नोति वशीकरोतीति यावत् । 'कर्मण्यण्' (३|२|१) संज्ञापूर्वकस्य विधेरनित्यत्वान्न वृद्धिः । मूलविभुजादित्वात् (वा० ३१२१५) को वा | उरु अश्नातीति वा (३) ॥*॥ मुखशब्देनाद्यर्थेन रम्भा- मेनका-घृताची-तिलोत्त- मादीनां ग्रहणम् ॥ ऎकम् 'उर्वश्यादेः' ॥ (६|४| हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रि दिवौकसाम् ॥ ५२ ॥ (हाहेति ॥) अव्युत्पत्तिपक्षे 'आतो धातोः' १४०) इत्यस्याप्राप्तेः शसि हाहान्, 'ओ: सुपि' (६|४|८३) इत्यस्याप्राप्तेहून्, इत्यादि । यत्तु – 'आतो धातोः' (६४) | १४०) इति योगविभागादाकारलोपः - इति मुकुटेनोक्तम् । तञ्चिन्त्यम् । निर्णीतरूपस्य योगविभागेन निर्वाहत्यौचित्यात् । अप्रयुक्तस्य तेन साधनस्यानुचितत्वात् । हा इति शोकव्यञ्ज- कशब्दं जहाति । ‘ओहाक् त्यागे' (जु० प० अ० ) | विच् (३।२।७२) शसि हाहः | हू इति हृयति । हेबः (भ्वा० उ० अ०) क्विप् (३।२।१७८) । 'वचिस्वपि - (६।१।१५) इति संप्रसारणम् । ‘हलः’ (६।४ २) इति दीर्घः । बाहुलका- डाप्रत्यये तु (हाहाः) व्युत्पन्नोऽधातुश्च । एवं इप्रत्यये हूहू- रपि बोध्यः । हाहाः सन्ततॊऽपि । 'गन्धर्वो वीतिहाहसोः' इति संसारावर्तात् । 'गन्धर्वो हाहसि प्रोक्तः' इति रत्नको- षाच्च । भोजस्तु हहाहुहुशब्दयोरव्ययत्वमाह । 'हहाः' इत्या दिहखः । 'हुहुः' इत्युभयहस्खश्च । 'हंसो हहाहुहू च द्वौ | वृषणश्वश्च तुम्बुरुः' इति शब्दार्णवात् । 'गीतमाधुर्यसंप - १-उज्वलदत्तादौ तु 'अप्सराः' इत्येव सूत्रं दृश्यते ॥ २- उर्वश्यादेरिति मुकुटः ॥ [ प्रथमं काण्डम् नौ विख्यातो च हहाहुहु' इति व्यासोक्तेश्च ॥ ॥ गन्धं सौरभमर्वति : 'अर्व गतौ' (भ्वा० प० से० पवर्गीयान्तः ) 'कर्मण्यण्' (३।२।१ ) | शकन्ध्वादिः (वा० ६।१९९४) ('गन्धर्वस्तु नभश्चरे | पुंस्कोकिले गायने च मृगभेदे तुरं- गमे । अन्तराभवदेहे च ) ॥ ॥ प्रज्ञायणि (५१४१३८) ( गान्धर्व:) दीर्घादिरप्ययम् । 'अपि गन्धर्वगान्धर्वदि- व्यगायनगातवः' इति शब्दार्णवात् ॥ ( १ ) ॥ ॥ आवेन तुम्बुरु-विश्वावसु - चित्ररथादीनां संग्रहः ॥ 'देवगायकानाम्' अग्निर्वैश्वानरो वह्निवतिहोत्रो धनंजयः । कृपीटयो निर्वलनो जातवेदास्तनूनपात् ॥ ५३॥ बहि: शुष्मा कृष्णवर्मा शोचिषकेश उपर्बुधः | आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥५४॥ लोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः । हिरण्यरेता हुतभुग दहनो हव्यवाहनः ॥ ५५ ॥ सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः । शुचिरपित्तम् अग्निरित्यादि ॥ अङ्गति । 'अगि गतौ' ( भ्वा०प० से०) । 'अङ्गेर्नलोपश्च' ( उ० ४८५०) इति निर्मलोपश्च । ('अग्निर्वैश्वानरेऽपि स्याच्चित्रकाख्यौषधौ पुमान् ) ॥ ( १ ) ॥ * ॥ विश्वे नरा अस्य | 'नरे संज्ञायाम्' (६|३११२९ ) इति विश्वशब्दस्य दीर्घः । विश्वानरस्यापत्यम् । ऋष्यण् (४॥ १॥ ११४) । यत्तु – बिदादित्वात् (४११०४) अभ् । ब- हुत्वे च 'यजनोश्च' (२२४६४) इति लुक् । विश्वा- नराः - इति मुकुटः | तन्न । 'विश्वे वैश्वानरा उत' इत्यत्र लुकोऽदर्शनात् । 'वैश्वानराय मीढुषे' इत्यादावन्तोदात्तदर्श- नाच्च । ऋषिभ्यो गोत्रापत्येऽजो विहितत्वेनानन्तैरापत्ये प्रस- त्यभावाच्च । एतेन बिदादित्वात् (४|१|१०४) अञ्-इति वदन् खाम्यपि प्रत्युक्तः ॥ (२) ॥ ॥ वहति हव्यम् । 'वहि- त्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित्' ( उ० ४१६१) इति निः । निश्च । ('वह्निर्वैश्वानरेऽपि स्याञ्चित्रकाख्यौषधे पुमान्') ॥ (३) ॥ ॥ 'वी गतिप्रजनकान्त्यसनखानेषु' (अ० प० अ० ) । कर्मणि तिन् (३१३९४) वीतिर्भक्ष्यं पुरोडाशादिर्ह्रयतेऽस्मिन् । 'हु दानादनयो: ' ( जु०प० से ० ) | 'हुयामा - ' ( उ० ४११६८) इति न् । वीतिरश्वो होत्रं हवनमस्येति वा । ('वीतिहोत्रोऽनले च' ) ॥ (४) ॥ ॥ धनं जयति । १ - 'यमञोश्च' (२|४|६४) इत्यनेन गोत्रविहितय ञञोर्लुग्वि धायकेन लुको दर्शितत्वेनात्रानन्तरापत्येऽचिकीर्षितत्वेन, गोत्रा- पत्ये एव चिकीर्पितत्वेन, लौकिके लगभावस्य 'छन्दोबस्कवयः कु- वन्ति न ह्येषा इष्टिरस्ति' (१९४३) इति भाष्येणासाधुताध्वननात् वैदिके 'सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति परिभाषया, अन्तोदा- तत्वस्य 'सुप्तिडपग्रह' (३१११८५ ) इति-भाष्योत्तया, स्वरव्यत्य येन सिद्धौ बिदादिगणे तत्पाठवैयर्थ्यापत्ते श्चिन्त्यमेतत् ॥