पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रवर्ग: ८ ] ‘कुञ्जरे' इति विश्वमेदिन्यौ ॥ ( २ ) ॥ ॥ माद्यति | 'मदी हर्षे (दि० प० से ० ) । प्राग्वत् क्तः (३।४।७२) । 'न घ्याख्या-' (८|२|५७) इति निष्ठानत्वाभावः ॥ (३) ॥ ॥ त्रीणि 'जा- तमदस्य' ॥ समाबुद्धान्तनिर्मदौ । सेति ॥ उद्वतं वान्तं मदवमनमस्मात् । 'उद्वान्त उ द्गीर्णे निर्मदद्विपे’ इति हैमः ॥ (१) ॥ * ॥ मदान्निर्गतः । नि- र्गतो मदोऽस्माद्वा ॥ (२) ॥ * ॥ द्वे 'गतमदस्य' ॥ हास्तिकं गजता वृन्दे व्याख्यासुधाख्यव्याख्यासमेतः । हेति ॥ हस्तिनां समूहः। ‘अचित्तहस्तिोष्ठ' (४२) ४७) ॥ (१) ॥*॥ गजानां समूहः । 'गजसहायाभ्यां च' ( वा ०४२४३) इतित ॥ ( २ ) ॥ ॥ द्वे 'हस्तिनां वृन्दे' || गण्ड: कटः गेति ॥ गण्डति । 'गडि वदनैकदेशे' ( भ्वा० पं० से ० ) अच् (३।१।१३४) 'गण्ड: स्यात्पुंसि खड्भिनि । ग्रहयोग- प्रभेदे च वीथ्यङ्गे पिटकेऽपि च । चिह्नवीरकपोलेषु हयभूष- णबुद्बुदे’ (इति मेदिनी) ॥ (१) ॥ ॥ कटति | 'कटे वर्षा- वरणयोः' (भ्वा० प० से०) | अच् (३|१|१३४ ) | 'कट' श्रोणौ द्वयोः पुंसि कलिञ्जेऽतिशये शवे । समये गजगण्डेऽपि पिप्पली तुकटी मता' (इति मेदिनी) ॥ (२) ॥ ॥ द्वे 'गजगण्डयोः' ॥ 1 करिणी धेनुका वशा ॥ ३६ ॥ | कुम्भस्य ॥ केति ॥ करोऽस्त्यस्याः । इनिः (५/२/११५) | 'ऋनेभ्यो ङीप् (४।१।५) ॥ (१) ॥ * ॥ धेनुरिव । 'इवे प्रति -' (५॥ ३।९६) इति कन् । 'स्याद्धेनुका करिण्यां च घेनावपि पुंसि दानवविशेषे’ (इति मेदिनी) ॥ (२) ॥ ॥ उश्यते । ‘वश- कान्तौ' (अ० प० से ० ) । 'वशिरण्योध' ( वा० ३।३।५८ ) इल्यप् । वष्टि वा । अच् (३११११३४) 'वशा नाय बन्ध- गव्यां हस्तिन्यां दुहितर्यपि ( इति हैमः ) । तालव्यशा । 'वशा वन्ध्यासुतायोषास्त्रीगवीकरिणीषु च ' इति तालव्या- न्तेषु विश्वात् ॥ (३) ॥*|| त्रीणि 'हस्तिन्याः' || मदो दानम् मेति ॥ माद्यत्यनेन । 'मदी हर्षे' ( दि० प० से ० ) । ‘मदोऽनुपसर्गे' ( ३१३१६७ ) इत्यप् । मदयति वा । अच् (३।१।१३४) । 'मदो रेतसि कस्तूर्या गर्ने हर्षेभदानयोः' ( इति मेदिनी ) ॥ ( १ ) ॥ ॥ यत्यनेन । 'दो अवखण्डने' (दि० प० अ०) ल्युट् (३।३।११७) । 'दानं गजमदे त्यागे पालनच्छेदशुद्धिषु' ( इति विश्वमेदिन्यौ ) ॥ ( २ ) ॥ * ॥ द्वे 'मदपतनस्य' ॥ 'द्वितोऽथुच्' (३१३१८९) 'वमथुर्वमने घासे मातङ्गकरशीकरे' (इति हैमः) ॥ (१) ॥ ॥ करस्य शीकरः ॥ (२) ॥*॥ द्वे 'शुण्डान्निर्गतजलस्य' || कुम्भौ तु पिण्डौ शिरसः २७७ विति ॥ कुं भुवमुम्भति 'उम्भ पूरणे' ( तु०प० से० ) । 'कर्मण्य' (३|२|१) | शकन्ध्वादिः (वा० ६।१।९४)। 'कुम्भो राश्यन्तरे हस्तिमूर्धाशे राक्षसान्तरे । कार्मुके वार नाय च घंटे क्लीवं तु गुग्गुलौ' ( इति मेदिनी ) ॥ ( १ ) ॥ ॥ पिण्डते । ‘पिडि संघाते' ( भ्वा० आ० से ० ) । अच् (३|१|१३४) | 'पिण्डो बाले बले सान्द्रे देहागारैकदे शयोः । देहमात्रे निवापे च गोलसिल्हकयोरपि । ओडूपुष्पे च पुंसि स्यात् क्लीबमाजीवनायसोः । पिण्डी तु पिण्डत- गरेऽलाघूखर्जूरभेदयोः' ( इति मेदिनी) ॥ * ॥ एकम् 'गज- तयोर्मध्ये विदुः पुमाम् ॥ ३७ ॥ तेति ॥ तयोः कुम्भयोः । वेत्ति संज्ञामत्र घातेन । 'वि द ज्ञाने' ( अ०प० से ० ) । बाहुलकात्कुः ॥ (१) ॥*॥ एकम् 'गजकुम्भमध्यभागस्य' || अवग्रहो ललाटं स्यात् अवेति ॥ अवगृह्यतेऽङ्कुशेन । 'प्रह' (३१३१५८ ) इत्यप् । 'अवग्रहो दृष्टिरोधे प्रतिबन्धे गजालिंके' ( इति मेदिनी ) । रुद्रोऽपि - 'गजालिके वृष्टिरोधे प्रतिबन्धेऽप्य वग्रहः' इति ॥ (१) ॥* ॥ एकम् 'गजललाटस्य' | इषीका त्वक्षिकूटकम् । इषीति ॥ ईष्यते । 'ईष उच्छे' (भ्वा० प० से०) 'ईष गतिहिंसादानेषु' (भ्वा० आ० से ० ) वा० । 'ईषेः किद्रस्खश्च' (उ० ४।२१) इतीकम् धातोर्हखश्च । (हस्खादिदीर्घमध्या) ॥* ईषा लाङ्गलकीलिका । सेव । 'इवे प्रति ' ( ५१३।९६) इति कनि (हस्खमध्या - ईषिका), दीर्घादिरपि ॥ (१) ॥*॥ अ- क्षिकूटकं चक्षुर्गोलकम् ॥॥ एकम् 'नेत्रगोलकस्य' || र्याणम् अपेति ॥ अपाङ्गस्य । अपाङ्गो वा देशः ॥ ॥ निर्याय- नेन । करणे ल्युट् (३|३|१७) | 'निर्याणं वारणापाङ्गदेशे मोक्षेऽध्वनिर्गमे' (इति मेदिनी ) ॥ ( १ ) ॥ * ॥ एकम् 'गजा- पाङ्गदेशस्य' ॥ कर्णमूलं तु चूलिका ॥ ३८ ॥ केति ॥ कर्णस्य मूलम् ॥ * ॥ चूल्यतेऽनया | 'चूलसम्मु १-'ऐषीकमस्त्रमधिकृत्य तदा तमक्ष्णा' इति मुरारिः । 'त स्मिन्नस्यदिषीकास्त्रम् ~३ति रघुः - इति मुकुटः । २ - चुरादौ तु वमथुः करशीकरः । वेति ॥ वम्यते । 'म उहिरणे ( भ्वा० प० से० ) । हस्वादिश्यते ॥