पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । २७४ वदनम् । घञ् (३।३।१८) ॥ (१) ॥ ॥ निर्देशः कार्यादेशः । घञ् (३॥३॥१८) ॥ (२) | || एवं निदेशः । ('निदेश: शासनोपान्तकथनेषु प्रयुज्यते’ इति विश्वः) ॥ (३) ॥ ॥ शा- सेर्ब्युट् (३।३।११५)। (‘शासनं राजदत्तो लेखाशा स्त्रशान्तिषु' इति मेदिनी ) ॥ ( ४ ) ॥ ॥ ‘क्तिन्नाबादिभ्यः' (३।३।९४) इति क्तिन् ॥*॥ बाहुलकात्तिः । 'शास्तिः' ॥ (५) ॥*॥ आज्ञापनम्। ‘ज्ञा अवबोधने' (त्रया०प० से ० ) । ‘आतश्चोपसर्गे’ ( ३।३।१०६ ) इत्यङ् ॥ ( ६ ) | | षट् 'आज्ञायाः' ॥ संस्था तु मर्यादा धारणा स्थितिः | समिति ॥ संतिष्ठतेऽनया । सम्यगवस्थानं वा । प्राग्व- दङ् । (‘संस्थश्चरेऽवस्थिते, स्त्री स्थितौ सादृश्यनाशयोः' (इति मेदिनी) ॥ (१) ॥ ॥ 'मर्या इति सीमार्थेऽव्ययम्' तत्र दीयते । प्राग्धदङ् ॥ ( २ ) ॥ * ॥ धारयति धर्मम् । नन्यादि ल्युः (३।१।१३४) । युच् ( उ० २१७८ ) वा । “धारणाऽङ्गे च योगेऽस्य न पुंसि स्याद्विधारणे' इति मेदिनी) ॥ (३) ॥*॥ तिष्ठन्त्यत्र । बाहुलकादधिकरणे क्तिन् । स्थानं वा । 'स्थागा- पा-' (३।३।९५) इति क्तिन् ॥ ( ४ ) ॥ ॥ चत्वारि 'न्या- य्यपथस्थितेः' || आगोऽपराधो मन्तुश्च । आग इति ॥ एति । ‘इण् गतौ' (अ० प० अ०) । 'इण- आगअपराधे च' (उ० ४।२१२) इत्यसुन् आगादेशश्च - अग- ति । 'अग गतौ' (भ्वा० प० से ० ) । 'वस्यजिभ्यां णित्' इ- त्यसुन्— इति सुभूतिः । तन्न | उज्वलदत्तादिषूक्तसूत्रस्यादर्श- नातू । 'आगोऽपराधे पापे स्यात्' (इति मेदिनी) । सान्तं क्लीब- म् ॥(१)॥*॥ अपराधनम् । ‘राध संसिद्धौ' (खा०प०अ०) । घन् (३।३।१८) ॥(२)॥*॥ मन्यते । 'मन ज्ञाने' (दि० आ० अ०) । ‘कमिमनिजनि-’ ( उ० १।७१ ) इति तुः । 'मन्तुः पुंस्यप- राधेऽपि मनुष्येऽपि प्रजापतौ' ( इति मेदिनी ) ॥ (३) ॥*॥ त्रीणि 'अपराधस्य' ॥ समे तूहानबन्धने ॥ २६ ॥ सेति ॥ उत्पूर्वाद् यतेर्भावे ल्युट् (३।३।११५) ॥ (१) ॥*॥ ‘बन्ध बन्धने’ ( क्र्या॰ प० अ०) । भावे ल्युट् (३) ३।११५) ॥ (२) ॥॥ द्वे 'बन्धनस्य' || द्विपाद्यो द्विगुणो दण्डः द्वीति ॥ द्वौ पादौ परिमाणमस्य | 'पणपाद -' (५॥१॥ ३४) इति यत् । ‘पञ्चत्यतदर्थे’ ( ६|३|५३ ) इति (न) प. द्भावः । प्राण्यङ्गस्यैव पादस्य तत्र ग्रहणात् ॥ ( १ ) ॥ ॥ एकम् 'अपराधे शास्त्रेण बोधितदण्डाद्विगुणद- ण्ड ॥ १ - 'सोढाहे शतमागांसि' इति माधात् - इति मुकुटः ॥ [ द्वितीयं काण्डम् भागधेयः करो बलिः । )। भेति ॥ भाग एव । 'नामरूप ' ( बा० ५/४/३५ ) इति धेयः ॥ (१) ॥*॥ कीर्यते । 'कॄ विक्षेपे' ( तु० प० से ० ) । ‘ऋदोरप्’ ( ३।३।५७ ) । 'करो वर्षोपले पाणौ रश्मौ प्रत्ययशुण्डयोः' (इति मेदिनी) । प्रज्ञाद्यणि ( ५१४१३८ ) 'कारो वधे निश्चये च बलौ रत्ने यतावपि’ (इति विश्व- मेदिन्यौ) ॥ (२) ॥ ॥ बल्यते । ‘बल वधे, दाने’ ( इन् ( उ० ४|११८ ) | 'बलिदैत्यप्रभेदे च करचामरदण्डयोः । उपहारे पुमानस्त्री जरया श्लथचर्मणि | गृहदारुप्रभेदे च ज रावयवेऽपि च' (इति मेदिनी) ॥ (३) ॥*॥ ( 'अर्थागमो भवेदायो भागधेयो बलिः करः' इति हलायुधः ) ॥ ॥ त्रीणि 'कर्षकादिभ्यो राजग्राह्यभागस्य || घट्टादिदेयं शुल्कोऽस्त्री । घेति ॥ घट्टादौ देयम् ॥ ॥ शुल्क्यते | 'शुल्क अति- सर्जने' (चु०प० से ० ) | घञ् (३|३|१९ ) | शुल्कं घट्टा- दिदेये स्याद्वरादर्वप्रहेस्त्रियाम् ( इति मेदिनी) । मुकुटस्तु— शलति प्रतिबन्धोऽनेन 'शुल्कवल्कोल्काः' इति निपातः --- इत्याह । तन्न । उज्वलदत्तादिषु 'शुकवल्कोल्काः' ( उ० ३ | ४२) इति पाठस्य दर्शनात् । धातुपाठे 'शुल्क' धातोर्दर्श- नाच ॥ (१) | | आदिना गुल्मप्रतोल्यादिग्रहः ॥ ॥ एकम् 'शुल्कस्य' || प्राभृतं तु प्रदेशनम् ॥ २७ ॥ प्रेति ॥ प्राभ्रियते स्म । भृञ् भरणे' (भ्वा० उ० अ०) । ‘डभृञ् धारणपोषणयोः' (जु० उ० अ० ) वा । तः (३॥ २॥ १०२ ) ॥ ( १ ) ॥ * ॥ प्रदिश्यते । 'दिश अतिसर्जने' (तु० उ० अ० ) | ‘कृत्यल्युट : ' (३|३|११३) इति कर्मणि ल्युट् ॥ (२) ॥ * ॥ द्वे 'देवताभ्यो मित्रादिभ्यश्च दीयमानस्य'॥ उपायनमुपग्राह्यमुपहारस्तथोपदा । उपेति ॥ उपेयते । 'इण् गतौ' ( अ० प० अ० ) । उपाय्यते । 'अय गतौ ' ( भ्वा० आ० से० ) वा । कर्मणि ल्युट् (३|३|१३३) ॥ (१) ॥*॥ उपगृह्यते । ‘ग्रह उपादाने’ ( क्या० उ० से ० ) | ण्यत् ( ३ | ३ | १२४) ॥ (२) ॥ ॥ उप- हिंयते । घञ् (३।३।१९) ॥ ( ३ ) ॥ * ॥ उपदीयते । 'डुदाञ् दाने ' ( जु० उ० से ० ) । 'आश्वोपसर्गे' ( ३।३।१०६ ) इत्यङ् ॥ ( ४ ) ॥ ॥ चत्वारि 'उपढौकनस्य' । - षडप्यु- पढौकनस्य- इत्यन्ये । ‘उपायनमुपग्राह्यं प्राभृतं चोपदा स्त्रिया- म्' इत्यमरमाला ॥ यौतकादि तु यद्देयं सुदायो हरणं च तत् ॥ २८ ॥ याविति ॥ युतकं योनिसंबन्धः । तत्र भवम् । तत्र + भवः' (४।३।५३) इत्यण् । युतयोर्वरवध्वोरिदम् । 'तस्येदम्'