पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रवर्ग: ८ ] समाहारः । तस्मिन् । कर्मधारयो वा ॥॥ लिप्यते । 'लिप उपदेहे' ( जु० उ० अ० ) | ‘इक् कृष्यादिभ्यः' (वा० ३|३| १०८)। ‘इगुपधात् कित्’ (उ० ४|१२०) इतीन् वा ॥ (१) ॥*॥ ‘-किंलिपिलिबि–’ (३।२।२१) इति लिङ्गात् पस्य बो वा ॥ (२) ॥*॥—‘लिबिः’ सौत्रो धातुः - इति मुकुटः ॥ (२) ॥*॥ द्वे । चत्वार्येव नामानि - इति केचित् । - 'लिखिता- क्षरसंस्थाने' इत्येकमेकपदम् – इत्यन्ये । द्वे 'लेखनस्य' | स्यात्संदेशहरो दूतः व्याख्यासुधाख्यव्याख्यासमेतः । स्यादिति ॥ संदेशं वाचिकं हरति । 'हरतेरनुद्यमनेऽच्’ (३।२।९) ॥ (१) ॥*॥ दवति । 'दु गतौ' (भ्वा०प० से ० ) । ‘दुतनिभ्यां दीर्घश्च’ (उ० ३।९० ) इति तः । यद्वा दूयते स्म । ‘दूङ् परितापे’ ( दि॰ आ० से ० ) । 'गत्यर्था-' (३) ४॥७२) इति तः ॥ (२) ॥ * ॥ द्वे 'संदेशहरस्य' ॥ दूत्यं तद्भावकर्मणी ॥ १६ ॥ द्विति ॥ दूतस्य भावः कर्म वा । 'दूतवणिग्भ्यां च' इति यः ॥ ॥ ब्राह्मणादित्वात् (५/१/१२४) व्यत्रि 'दौत्यम्' अपि । केचित्तु – 'दूयं तद्भागकर्मणी' - इति पाठं मन्यते । तत्र ‘दूतस्य भागकर्मणी' (४|४|१२० ) इति यत् ॥ (१) ॥ * ॥ एकम् 'दूतकर्मणः' ॥ अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि । अध्वेति ॥ अध्वानमलं गच्छति 'अध्वनो यत्खौ' (५) २।१६) । ‘आत्माध्वानौ खे’ (६|४|१६९) ॥ (१) ॥ ॥ 'ये चाभावकर्मणोः’ (६।४।१६८) इति टिलोपो न ॥ (३) | || अध्वानं गच्छति । ‘अन्तात्यन्ताव -' (३|२|४८) इति डः ॥ (२) ॥ * ॥ न्थानं नित्यं गच्छति । 'पन्थो ण नित्यम्' (५।१९७६) स्त्रियां पान्था ॥ ( ४ ) ॥ * ॥ 'पथः ष्कन्' (५॥१॥७५) । षित्त्वात् ङीष् (४।१।४१) पथिकी ॥ (५) ॥ * ॥ | पञ्च 'पान्थस्य' || स्खाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च ॥ १७ ॥ राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च । स्वेति ॥ स्वामी राजा | - पुरोहितः - इति श्रीधरः । अमात्यो मन्त्री | सुहृद् मित्रम् | कोशो भण्डारः | राष्ट्रं देशः । पर्वतादि दुर्गाणि । बलं सैन्यम् ॥ * ॥ राज्यस्य राजकर्मणोऽ- ङ्गानि ॥ (१) ॥*॥ प्रकृटं कुर्वन्ति राज्यम् । क्तिच् (३|३| १७४) ॥ (२) ॥ ॥ पौराणां नागराणाम् । श्रयन्ति, श्रीय- न्ते, वा । 'बहिश्री - ' ( उ० ४/५१) इति निः । एके मुख्याः सजातीयसमूहाः ॥*॥ कामन्दकी ये – 'स्वाम्यमात्यश्च राष्ट्रं च दुर्गं कोशो बलं सुहृत् । परस्परोपकारीदं सप्ताङ्गं राज्यमु- १ - काशिकास्थमिदम् । भाष्ये तु नास्त्येव – इति सिद्धान्त कौमुदी ॥ २७१ च्यते' । 'पौर श्रेणिभिः सहाष्टाङ्गमपि राज्यम्' इति दर्शितम् । द्वे 'राज्याङ्गानाम्' || संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ॥ १८ ॥ षड् गुणाः समिति ॥ संधानम् । 'उपसर्गे घो: कि : ' (३|३|९२) ॥ (१) ॥ ॥ विरुद्धं विविधं वा ग्रहणम् | ‘ग्रहवृह' (३|३| ५८) इत्यप् ॥ (१) ॥*॥ यात्यत्र | युट् (३|३|११७) ॥ (१) ॥ ॥ आसनम् ‘आस उपवेशने ' ( अ ० आ० से ० ) । ल्युट् (३१३१११५) ॥ (१) ॥*॥ द्विपकारम् | ‘संख्याया वि- वाघा (५|३|४२) | 'द्वियोश्च धमुञ्' (५॥३/४५ ) ॥ (१) ॥ ॥ आश्रयणम् | ‘श्रिञ् सेवायाम्’ (भ्वा० उ० से॰) । ‘एरच्' (३१३१५६) ॥ (१) ॥*॥ एतानि षट् ‘गुणशब्द' वाच्यानि' || १ ~ स्वर्णादिदानेन (पर) बन्धुभिः प्रीत्युत्पादना मित्रीकरणं संधिः । अयं च बहुविधो ग्रन्थविस्तरभिया न लिखितः ॥ ॥ परम- ण्डले दाइलुण्ठनच्छेदादि विग्रहः ॥ तं च प्रकाशकूटतूष्णींमेदेन त्रिविधमाह || || उपचितशक्तः कृतमूलराष्ट्ररक्षकस्य शत्रोरवस्कन्द- नाय यात्रा यानम् ॥ तच्च विगृह्ययानम्, संधाययानम्, संभूयया- नम्, प्रसङ्गयानम्, उपेक्ष्ययानम् च इति पञ्चविधम् । पञ्चास्थायिनः शत्रोर्बलद्रव्यजनपदवासादिकं हृत्वा पुरोवर्तिनि शत्रौ या यात्रा तद्विगृह्ययानम् | शून्यराज्यग्रहणसमर्थेन शत्रुणा संधि विधायारे; संमुखगमनं संधाययानम् | बलवदरिणा संधाय संमील्य तैः सह कात रेडरौ यद्यानं तत् संभूययानम् । एकप्रकृतयानस्यान्तरोपस्थितेऽनुद्दे श्येऽपि ययानं तत्प्रसङ्गयानम् | शत्रोर्बलाधानाय पथि प्राप्तेषु शत्रु मित्रेषु अवरेषु वा बलिपु शत्रुमुपेक्ष्य यद्यानं तदुपेक्ष्ययानम् ॥*॥ 'नाहमिदानीं योद्धुं समर्थः' इति कालादिप्रतीक्षया विजिगीषोर्दुर्गा दीन् वर्धयतः स्थितिरासनम् । तदपि विगृह्यासनम्, संधायासनमित्यादि पूर्ववत् पञ्चविधम् । विग्रहेण शत्रोरवस्कन्देऽशक्तस्य तद्देशाविकं विनाश्य दुर्गं प्रविश्यावस्थानं विगृह्यासनम् | तुल्यबलत्वायुद्धे क्षीय माणयोः संधि कृत्वावस्थानं संधायासनम् | बलिनः शत्रोर्जयेऽशक्तस्य दुर्गाश्रयेणापि स्थातुमशक्यत्वाइलिना मित्रेण शत्रुणा वा मिलित्वाव: स्थानं संभूयासनम् । शत्रुमभिगच्छतो मित्रागमनादेरुत्सवस्य च प्रसङ्गेनान्तरा स्थितिः प्रसङ्गासनम् | बलिनमपि शत्रु दुर्नयादिना नित्यमपचीयमानमुपेक्ष्य तदपचयापेक्षया स्थितिरुपेक्ष्यासनम् ॥ ॥ बलिनोर्वैरिणोर्मध्ये काकाक्षिबदलक्षितस्योभयत्र वाचा समर्पणम् ( इत्येकम् ) द्वैषम् ॥ बलिना सह संधि : अबलेन सह विग्रहः इत्यपः रम् । शत्रोर्वा मूलप्रकृतिभिः सह संधाय शत्रुणा सह विग्रह: इति तृतीयम् । शत्रुणैव वा संघिविग्रहसमुदाय हे तोर्दुर्गाश्रयस्य व्यापारः, इति चतुर्थम् इति चतुर्विधं द्वैधम् ॥ ॥ बलवतारिणोच्छियमानस्य हीन- शक्तेर्यद्बलवद्धर्मविजमिसमाश्रयणं तदाश्रयः ॥ तस्यैव वा बलिनः शत्रोः सेवया कोषादिदानेन वाश्रयणमाश्रयः इति द्विविध आश्रयः । उक्त च - 'उच्छिद्यमानो रिपुणा निरुपायप्रतिक्रियः । शक्तिहीनः संश्रयते बलिनं धार्मिकं नृपम्' इति ॥ - इति मुकुटे विशेषः ॥