पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् २६४ (१) ॥ * ॥ तस्य विकारः | 'पलाशादिभ्यो वा ' ( ४ | ३ | से० ) | 'गुरोच' (३|३|१०२) इत्यः । भिक्षाणां समूहः । १४१) इत्यञ् ॥॥ व्रते ब्रह्मचर्ये ॥ * ॥ एकम् 'पालाश- |'भिक्षादिभ्योऽण् ' (४२१३८ ) || ( १ ) ॥ ॥ एकम् 'भिक्षा- दण्डस्य' ॥ द्रव्यस्य' | स्वाध्यायः स्याजेपः राम्भस्तु वैणवः ॥ ४५ ॥ रेति ॥ 'रम्भा कदल्यप्सरसोर्ना वेणौ वानरान्तरे' इति मेदिनी । रम्भस्य बेणोर्विकारः । प्राग्वदज् (४४३२१४१ ) ॥ ( १ ) ॥ * ॥ व्रत इत्येव । अन्यत्र वैणव एव ॥॥ एकम् 'वैणवद्ण्डस्य' ॥ अस्त्री कमण्डलुः कुण्डी अस्त्रीति ॥ कस्य प्रजापतेर्जलस्य वा मण्डः सारः । तं लाति लभते वा । मितवादिः (वा० ३१२११८०) मण्डनम् । 'मडि भूषायाम्' (भ्वा०प० से ० ) ॥ ( १ ) ॥ * ॥ घञ् | कुणति । ‘कुण शब्दोपकरणयोः’ ( तु॰ प० से ० ) । 'अमन्ताड : ' ( उ० १।११४) । ‘जानपद-’ (४।१४२) इति ङीष् । 'कुण्डम- झ्यालये मानभेदे देवजलाशये । कुण्डीकमण्डलौ, जारात्प- तिवत्नीसुते पुमान् । पिठरे तु न ना' (इति मेदिनी) ॥ (२) ॥ * ॥ सुतीयां तु जातिलक्षणो ङीष् ॥ ॥ द्वे 'व्रतिनां जलपात्रस्य' || व्रतिनामासनं वृषी । त्रेति ॥ ब्रुवन्तः सीदन्त्यस्याम् । 'अन्येभ्योऽपि -' (वा० ३।२।१०१) इति डः | पृषोदरादिः (६|३|१०९) । वर्षति सुखं वा । 'वृषु सेचने' (भ्वा० प० से० ) । 'इगुपध- ' (२|१|१३५) इति दन्त्यान्ते कः । गौरादिः (४|११४१) | मूर्धन्यान्तः || || 'अतसी वृसी मांसी' इयन्ते चन्द्रगोमि- दर्शनाद्दन्त्यान्तापि ॥ (१) ॥॥ एकं 'ब्रह्मचर्याद्या सनस्य' ॥ अजिनं चर्म कृत्तिः स्त्री अजीति ॥ अजति । अज्यते, वा । 'अज गतौ' ( भ्वा० प० से० ) । 'अजेरजच' ( उ० २१४८) इतीनच् ॥ (१) ॥*॥ चरति । चर्यते, वा । 'चर गतौ' ( भ्वा०प० से ० ) । मनिन् ( उ० ४११४) । 'चर्म कृत्तौ च फलके' (इति मेदि- नी) ॥ (२) ॥*॥ कृत्यते । 'कृती छेदने' ( तु० प० से ० ) । तिन् (३|३|९४) । 'कत्तिश्चमैत्वचोर्भूजें कृत्तिकायां द्वयं स्त्रियाम् (इति मेदिनी ) ॥ (३) ॥ ॥ त्रीणि 'मृगादे- चर्मणि ॥ भैक्षं भिक्षाकदम्बकम् ॥ ४६ ॥ भायिति ॥ भिक्ष्यते । 'भिक्ष याच्वायाम्' ( भ्वा० आ० १ - इदं च प्रागपि 'अमृते जारजः कुण्डः' इत्येतद्व्याख्या- यामभिहितम् ॥ २ – 'गण्डूषा मञ्जषा वृषी' इति मूर्धन्यान्तेषु लिङ्गकारिका-इति मुकुटः ॥ स्वेति ॥ सु अतीव आवृत्त्या अध्ययनम् | 'इडश्व' (३। ३॥२१) इति घञ् | स्वार्थमध्ययनं वा ॥ (१) ॥*॥ जपनम् | ‘जप मानसे च' ( भ्वा०प० से ० ) | ‘व्यधजपोः' (३।३।६१) इत्यप् ॥ (२) ॥ ॥ द्वे 'वेदाध्ययनस्य' || सुत्याभिषवः सवनं च सा । स्विति ॥ सवनम् | ‘घुञ् अभिषवे' ( खा० उ० से ० ) ' संज्ञायां समज - ' ( ३ | ३१९९) इति क्यप् ॥ (१) ॥ ॥ ‘ऋदोरप्’ (३।३।४७) । 'उपसर्गात् - ' (८|३|६५) इति षत्वम् । 'भवेदभिषवः स्नाने मद्यसंधानयज्ञयोः’ (इति मे- दिनी) ॥ (२) ॥ ॥ ‘ल्युट् च' (३।३।११५) । 'सवनं ख- ध्वरे स्नाने सोमनिर्दलनेऽपि च ' ( इति मेदिनी ) ॥ (३) ॥॥ 'सा' इति सुत्या ॥ * ॥ त्रीणि 'सोमलताकण्डनस्य' ॥ सर्वेनसामप्रध्वंसि जप्यं त्रिष्वघमर्षणम् ॥ ४७ ॥ सेति ॥ सर्वाणि एनांसि मानसादिपापानि अपध्वंसयितुं शीलमस्य । 'सुपि - ' (३|२|७८) इति णिनिः । जप्यते । ‘जप मानसे च' ( भ्वा० प० से ० ) । 'पोरदुपधात्' (३।१।९८) इति यत् ॥ * ॥ अर्ध मर्षति । 'भृषु सहने' (भ्वा०प० से० ) सहनमभिभवः । यद्वा मृष्यति । ल्युट् ( ३ | ३ | ११३)। स्त्रियां टिवात् (४|१|१५) ङीष् ॥ ( १ ) ॥ * ॥ एकम् 'अघमर्ष- णस्य' ॥ दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक् । देति ॥ दर्श अमावास्यायां क्रियमाणत्वादु पचारादर्शशब्देन याग उच्यते । ‘पक्षान्तेष्टौ दर्शने च दर्शः सूर्येन्दुसंगमे’ । ('दर्शस्तु स्यादमावास्या यागमेदावलोकने' इति मेदिनी) ॥ (१) ॥ ॥ पौर्णमास्यां भवः । 'संधिवेलाद्यूतु - ' (४१३।१६) इत्यण् । 'पौर्णमासः पुमान्यज्ञभेदे स्त्री पूर्णिमातिथौ’ ‘इति मेदिनी) ॥ (१) ॥ * ॥ पक्षान्तयोरमावास्यापौर्णमास्योः । पु थग् भिन्नौ । न तु पर्यायः 'दर्शपौर्णमासयोः' क्रमेणैकै- कम् ॥ शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥ ४८ ॥ शेति ॥ यच्छति । अनेन वा । यमनं वा । पचाद्यच् (३। १ - बाहुलकाद् घञ् । 'जापः' इति रक्षितः ॥ तेन 'शूद्रस्य मंत्रजापं प्रत्यनधिकारात्' (. ) इत्यादिसिद्धि :- इति मुकुटः ॥ 'प्रजापो ब्राह्मण इव क्षत्रियोऽपि न इति दमयन्तीलेषाच्च ॥ तद्व्याख्यायां चण्डपालश्च 'जपनं जाप:'" इत्यभिहितवान् ॥