पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ अमरकोषः । पाठे विप्रुषो ब्रह्मबिन्दवः । पेति ॥ वेदपाठे मुखान्निर्गतबिन्दवः । ब्रह्मणो बिन्दवः || (१) ॥ * ॥ एकम् 'मुख निर्गतबिन्दूनाम् ॥ ध्यानयोगासने ब्रह्मासनम् ध्येति ॥ ध्यानं प्रत्ययैकसानता न्य, योगश्चित्तवृत्तिनिरो- | धश्च, तयोरासनम् । यद्वा ध्यानस्य योग उपायः | ध्यानमेव योगो वा । तस्यासनं स्वस्तिकसिद्धपद्मादि । ब्रह्मणः संबन्धि आसनम् ॥ (१) ॥ * ॥ एकम् 'ब्रह्मासनस्य' ॥ कल्पे विधिक्रमौ ॥ ३९ ॥ केति ॥ कल्पते । अनेन वा । 'कृपू सामर्थ्य' (भ्वा० आ० से०)। अच् (३।१।१३३) | घन् (३|३|१८) वा । ‘कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने' ( इति मेदि- नी) ॥ (१) ॥ ॥ वेधनम् । 'विध विधाने' ( तु ० प ० से० ) । 'इगुपधात्त्'ि ( उ० ४।१२० ) इतीन् । यद्वा विधानम् । अनेन वा । धाञः ( जु० प० अ० ) । 'उपसर्गे घोः कि:' (३) ३।९२ ) | 'विधिर्ना नियतौ काले विधाने परमेष्ठिनि' ( इति | मेदिनी) ॥ (२) ॥*॥ क्रमणम् । अनेन वा | घन् (३३३३१८, १९) । ‘नोदात्तोप-’ (७|३|३४) इति न वृद्धिः । 'क्रमश्चानु- क्रमे शक्तौ कल्पे चाक्रमणेऽपि च ' ( इति मेदिनी ) ॥ (३) ॥ * ॥ त्रीणि 'विधानस्य' ॥ [ द्वितीयं काण्डम से ० ) । 'समाशंसभिक्ष उः (३२११६८) ॥ (१) ॥*॥ परि- व्यज्य सर्वं व्रजति । 'व्रज गतौ' ( भ्वा०प० से ० ) । ‘परौ व्रजेः षः पदाम्ते' ( उ० २।५९) इति क्किप् दीर्घश्च पदान्तवि- ये षत्वं च | विण्— इति तु स्वामिनः प्रमादः । उणादौ विणोऽप्रकृत्वात् ॥ (२) ॥ ॥ कर्मन्देन प्रोक्तं भिक्षुसूत्रमधीते । ‘कर्मन्दकृशाश्वादिनिः' (४|३|१११) ॥ (३) ॥ ॥ पराशरस्य गोत्रापत्यम् । 'गर्गादिभ्यो यञ् (४॥१॥१०५) । पाराशर्येण प्रोक्तं भिक्षुसूत्रमधीते । 'पाराशर्यशिलालिभ्याम् (४॥३॥११०) इति णिनिः ॥ (४) ॥ ॥ मस्कनम् | 'मस्क गतौ' (भ्वा० आ० से ० ) । बाहुलकादरः । मस्करो ज्ञानं गतिर्वास्यास्ति । 'मस्करमंस्करिणौ' (६।१।१५४) इति इनिः । यद्वा मस्करो वेणुरस्यास्ति | इनिः (५१२११५ ) । यद्वा मौ कर्तुं कर्म निषेद्धुं शीलमस्य । 'मस्करमस्करिणौ - (६|१|१५४) इति साधुः । यद्वा मुकुर इव शुद्धमन्तःकरणमस्यास्ति । प्राग्वन्निपातः । यद्वा मङ्क | 'मकि मण्डने' (भ्वा० आ० से ० ) । बाहुलकादरः । आगमशास्त्रस्यानित्यत्वान्न नुम् | मकरो निधिमेदोऽस्यास्ति । प्राग्वन्निपातः ॥ ( ५ ) ॥ ॥ पञ्च 'संन्यासिनाम् ॥ तपस्वी तापसः पारिकाङ्क्षी मुख्यः स्यात्प्रथमः कल्पो तेति ॥ तपोऽस्यास्ति । 'तपः सहस्राभ्याम् -' (५|२|१०२ ) इति विनिः । 'तपस्वी तापसे चानुकंम्प्ये त्रिष्वथ योषिति । मांसिकाकटुरोहिण्योः' (इति मेदिनी ) ॥ ( १ ) ॥ * ॥ 'अण् च' म्विति ॥ मुखमिव । ‘शाखादिभ्यो यः' (५|३|१०३) | | परिवर्जने' (भ्वा०प० से ० ) | ‘सुपि-’ (३।२।७८) इति (५॥२॥१०३) ॥ (२) ॥ ॥ परिकाङ्क्षितुं शीलमस्य | 'काक्षि ‘ब्रीहिभिर्यजेत’ इति यथा ॥ (१) ॥ ॥ एकम् ' आद्य- णिनिः | पृषोदरादिः । यद्वा पारमत्रास्ति इनिः (५॥२॥ ११५)। विधेः' ॥ पारि ब्रह्मज्ञानं काङ्क्षति ॥ (३) ॥ * ॥ त्रीणि 'तपस्विनः ॥ वाचंयमो मुनिः । अनुकल्पस्ततोऽधमः । अन्विति ॥ अनु हीनः कल्पः । प्रादिसमासः ( वा० २। २॥१८) ॥ (१) ॥*॥ त्रीह्यभावे 'नीवारैः' इति यथा ॥ ॥ एकं 'गौणविधेः' ॥ संस्कारपूर्व ग्रहणं स्यादुपाकरणं श्रुतेः ॥ ४० ॥ समिति ॥ संस्कार उपनयनं पूर्वं यत्र तत् | श्रुतेह- णम् । उपाक्रियतेऽनेन । ल्युट् ॥ (१) ॥ ॥ एकं 'वेदपा " ठारम्भविधिविशेषस्य' ॥ वेति ॥ वाचं यच्छति । 'यम उपरमे' (भ्वा०प० अ० ) | ‘वाचि यमो व्रते’ (३।२।४० ) इति खच् । 'वाचंयमपुरंदरौ च (६।३।६९) ॥ (१) ॥*॥ मन्यते । 'मन ज्ञाने' (दि० आ० अ०) । ‘मनेरुच्च' ( उ० ४ | १२३) इतीन् । ‘मुनिः पुंसि बसि- छादौ वनसेनतरौ जिने' ( इति मेदिनी) ॥ (२) ॥*॥ द्वे 'मौनव्रतिनः' ॥ समे तु पाद्ग्रहणमभिवादनमित्युभे । सेति ॥ पादयोग्रहणं स्पर्शः ॥ (१) ॥ ॥ अभिमुखीक रणार्थं वादनम् | 'वद संदेशवचने' चुरादिः । ल्युट् (३ | ३ | ११५)। आभिमुख्येन वाद्यते आशीः कार्यतेऽनेन इति वा । ण्यन्ताद्वदेः करणे ल्युट् (३।३।११७) ॥ (२) ॥ * ॥ द्वे 'नामो- चारणपूर्वक संस्कृत प्रयोगेण नमस्कारस्य' ॥ भिक्षुः परित्राट् कर्मन्दी पाराशर्यपि मस्करी ॥४१॥ भीति ॥ भिक्षणशीलः । 'भिक्ष याज्ञायाम्' (भ्वा० आ० । इत्याह । अतो मस्करी परिव्राजकः' इति भाष्यसंमतम् ॥ . तपःक्लेशसहो दान्तः तेति ॥ तपसः क्लेशः । तं सहते। 'बह मर्षणे' (भ्वा० १ - इदं तु 'मस्करिग्रहणं शक्यमकर्तुम् । कथं 'मस्करी परिव्राजकः' इति इनिनैतन्मत्वर्थीयेन सिद्धम्, मस्करोऽस्यास्तीति मस्करी । न वै मस्करो यस्यास्तीति मस्करी परिव्राजकः' इति भाष्यविरोधादुपे- क्ष्यम् ॥ २ – इदमेव 'किं तर्हि | मा कृतः कर्माणि शान्तिर्वः श्रेयसी, P