पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ । यद्वा शिक्षां ल- इत्यण् । शिक्षाया इमे । तत्र भवा वा भन्ते । 'शेषे' (४२१९२) इत्यण् ॥ (१) ॥ ॥ प्रथम- कल्पः आयारम्भः प्रयोजनं येषां ते । ‘प्रयोजनम्' (५११॥ १०९) इति ठक् । यद्वा प्रथमकल्पमधीयते । 'विद्यालक्षण- कल्पाताच' (वा० ४२६० ) इति ठक् | 'कल्पः शास्त्रे विधौ न्याये' (इति मेदिनी) ॥ (२) ॥ ॥ द्वे 'प्रथमार- ब्धवेदानाम्' ॥... एकब्रह्मवताचारा मिथः सब्रह्मचारिणः ॥ ११ ॥ अमरकोषः । एकेति ॥ ब्रह्म वेदस्तदध्ययनव्रतमप्युपचाराद्ब्रह्म । एक- स्मिन् ब्रह्मणि व्रताचरणं येषां ते । मिथः परस्परम् ॥ * ॥ समानं ब्रह्म चरन्ति । ‘त्रते' (३ | २१८० ) इति णिनिः 'चरणे ब्रह्मचारिणि' (६।३१८६) इति समानस्य सः ॥ ( १ ) ॥*॥ एकम् समानशाखाध्येतॄणाम् ॥ सतीर्थ्यास्त्वेक गुरवः यशः सवोऽध्वरो यागः सप्ततन्तुर्मखः ऋतुः ॥ १३ ॥ येति ॥ इज्यते । अनेन वा । अत्र वा । 'यज देवपू- पूजादौ ' ( भ्वा० उ० अ० ) । 'यजयाच -' (३।३।९०) इति नङ् । 'यज्ञः स्यादात्मनि मुखे नारायण हुताशयोः' इति हैमः ॥ (१) ॥*॥ सूयते सोमोऽत्र | ‘षुञ् अभिषवे' ( स्वा० उ० अ० ) । 'ऋदोरप्' (३|३|५७ ) | यद्वा सूयतेऽत्र | अनेन वा । ‘घू प्रेरणे' ( तु० प० से ० ) | अप् ( ३ |३।५७) । घः (३।३।११८) वा । ‘सवो यज्ञे च संधाने' इति मेदिनी ॥ (२) ॥ ॥ न ध्वरति । 'ध्वृ कौटिल्ये' (भ्वा० प० अ० ) । अच् (३|१|१३४) । अध्वानं राति वा । 'आतोऽनुप (३|२|३) इति कोचा । 'अध्वरः सावधाने स्याद्वसुभेदे ऋतौ पुमान्' (इति मेदिनी) ॥ (३) ॥ ॥ इज्यते । अनेन वा । अत्र वा । यजेर्घञ् (३१३१९ ) ॥ ( ४ ) ॥ सप्तभि श्छन्दोभिरग्निजिह्वाभिर्वा तन्यते । यद्वा तानि सप्त तन्यन्तेऽत्र 'सितनिगमि- ( उ० १९६९) इति तुन् ॥ (५) ॥ ॥ मखन्ति देवा अत्र । अनेन वा । 'मख गतौ' ( भ्वा०प० से० ) 'हलच' (३|३|१२१) इति घञ् | संज्ञापूर्वकत्वान वृद्धिः । यद्वा 'क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनि विशते' पेति ॥ परम्परया आगतः । 'तत आगतः' (४ | ३ |७४) ( ) इति घविषयेऽपि ' पुंसि -' (३|३|११८ ) इति इत्यण् । चतुर्वर्णादित्वात् (५।११२४) य । परम्पर्यश्चा- घः ॥ (६ ) ॥ ॥ करोति | क्रियते वा । ‘कृञः कतुः’ ( ) । 'ऋतुर्यज्ञे मुनौ पुंसि (इति मेदिनी) ॥ (७) ॥ * ॥ सप्तं 'यज्ञस्य' ॥ सावुपदेशश्च । तस्मिन् ॥ * ॥ 'अनन्तावसथेति ह' (५॥४॥ २३) इति व्यः ॥ (१) ॥ * ॥ इत्येवं ह किल ॥ (५) ॥*॥ यत्तु मुकुटेनोक्तम्- 'पूर्वे च पूर्वतराश्च' इति द्वन्द्वे 'परोवर- परम्परंपुत्रपौत्रमनुभवति' (५/२/१०) इति निर्देशात् पर- म्परादेशे टापि परम्परा । तदुक्तम् 'विनापि प्रत्ययं परम्परा- शब्दो दृश्यते' ( ) तञ्चिन्त्यम् । संनियोग शिष्टन्या- येन शब्दस्य त्वव्युत्पन्नत्वात् । तदुक्तम् – 'अस्ति हि परम्पराश- ब्दोऽव्युत्पन्नं 'प्रातिपदिकम्' इति । यद्वा परं पिपर्ति । पचा- द्यच् (३।१।१३४) । स्वपचाजारभरावत् | पृषोदरादिः (६|३|| १०९) ॥ * ॥ द्वे 'परंपरोपदेशस्य' - पेति ॥ पठनम् । पाठनम् वा | भावे घन् (३|३|१८) प्रत्यय संनियोग एव परम्परादेशविधानात् । परम्परा 'पाठच पठने ख्यातो विद्धपर्व्यां तु योषिति' (इति मेदिनी) ॥ (१) ॥ * ॥ हवनम् । 'हु दानादनयो: ' ( जु०प० अ० ) । 'अर्तिस्तुसुहुस-' ( उणा० ११४०) इति मन् ॥ (१) ॥ ॥ अतिथीनामदृष्टपूर्वाणां गृहमागतानाम् । सपर्यणम् । 'सपर पूजायाम्' । 'कण्ड्यादिभ्यो यक्' (३११२७) | 'अ प्रत्ययात्' (३॥ ३॥ १०३) | सपर्या पूजा ॥ (१) ॥ * ॥ तृप्यति । 'तृप प्रीणने' ( दि० प० अ० ) | भावे युट् (३।३।११५ ) ॥ (१) ॥ ॥ वलनम् | ‘वल दाने' (संवरणे ) ( भ्वा० आ० से ० ) । उपशा ज्ञानमाद्यं स्यात् १- 'तृप्यति' इति तु प्रमादलिखितम् ॥ सेति ॥ समाने तीर्थे वसन्ति । 'समानतीर्थे वासी' (४।४।१०७) इति यत् । ‘तीर्थे ये' (६१३१८७) इति समानस्य सः ॥ (१) ॥*॥ एको गुरुर्येषां ते ॥ ( २ ) ॥ * ॥ द्वे 'सहा- ध्यायिनाम् ॥ चितवानग्निमग्निचित् । चीति ॥ अग्निमचैषीत् । 'चिञ् चयने' ( खा० उ० अ० ) 'अग्नौ चेः' (३१ २ १९१ ) इति क्विप् | तुक् (६|१| ७१) ॥ (१) ॥*) एकम् ‘अयुपासकस्य' || परम्पर्योपदेशे स्यादै तिह्यमितिहाव्ययम् ॥ १२ ॥ उप्रेति ॥ उपज्ञानम् । 'आत चोपस' (३।३।१०६ ) इत्यङ् ॥ (१) ॥*॥ यथोपदेशं विना श्लोकनिर्माणे वाल्मी- केर्ज्ञानम् ॥ * ॥ एकम् 'आद्यज्ञानस्य' || . [ द्वितीयं काण्डम् ज्ञात्वारम्भ उपक्रमः । ज्ञेति ॥ उप प्रथमं क्रमणम् | ‘क्रमु पादविक्षेपे' ( भ्वा० प० से ० ) । भावे घञ् (३|३|१८ ) | 'नोदात्तोपदेश - ( ७७३|३४) इति न वृद्धिः । 'उपक्रमस्तूपधायां ज्ञात्वारम्भे च विक्रमे । चिकित्सायाम् ' ( इति मेदिनी ) ॥ (१) ॥ ॥ यथा माने नन्दस्य प्रथमारम्भ उपक्रमः सः । एकं 'ज्ञात्वा प्रथमारम्भस्य || पाठो होमञ्चातिथीनां सपर्या तर्पणं बलिः । एते पञ्च महायज्ञा ब्रह्मयज्ञादिनामकाः ॥ १४ ॥