पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मवर्गः ७ ] मन्त्रव्याख्याकृदाचार्यः मेति ॥ मन्त्रस्य वेदस्य व्याख्यानं करोति क्विप् (३।२। ७६) तुक् । (६।१।७१) ॥ (१) ॥ ॥ आचर्यते । ‘चर गतौ ' ( भ्वा० प० से ० ) | ण्यत् ( ३|१|१२४ ) | मनुः – 'उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः । स च सरहस्यं च तमाचार्य प्रचक्षते' (२|१४० ) ॥ ( २ ) ॥ ॥ द्वे 'मन्त्र- व्याख्याकर्तुः ॥ व्याख्यासुधाख्यव्याख्यासमेतः । आदेष्टा त्वध्वरे व्रती ॥ ७ ॥ यष्टा च यजमानश्च येति ॥ आदिशत्यृत्विजो यागे स्वेष्टसंपादनाय प्रेरयति । 'दिश अतिसर्जने' ( तु० प० अ० ) | तृच् (३।१।१३३) ॥ * ॥ 'आदिष्टी' इति पाठे आदिष्टमनेन । 'इष्टादिभ्यश्च' (५॥२१८८) इतीनिः । ‘क्तस्येन्विषयस्य कर्मणि' (वा ० २ ॥३॥ ३६) इति सप्तमी ॥ * ॥ व्रतं भोजनादिनियमोऽस्यास्ति । 'अतः - ' (५/२/११५) इतीनिः । यद्वा व्रतयति । 'व्रता - द्भोजनतन्निवृत्त्योः' ( ) इति णिच् । 'व्रते' (३१२१८०) इति णिनिः ॥ (१) ॥ ॥ यजते तृच् (३॥ १॥ १३३) ॥ (२) ॥ ॥ ‘पूङयजोः शानन्' ( ३ | २ | १२८) । शानच् (३।२।१२४) वा ॥ (३) ॥ * ॥ त्रीणि 'यजमानस्य' | स सोमवति दीक्षितः । स इति ॥ स व्रती सोमपानवति यागे आदेष्टा सन् ॥ ॥ दीक्षते स्म । 'दीक्ष मौण्ड्येज्योपनयनादौ ' ( भ्वा० आ० से० ) । 'गत्यर्थ - ' ( ३१४१७२ ) इति तः । यद्वा दीक्षा जातास्य | तारकादीतच् (५॥२॥३६) ॥ ( १ ) ॥ ॥ एकम् 'सोमयाजिनः' ॥ इज्याशीलो यायजूकः ईति ॥ इज्या शीलमस्य । इज्यां शीलति । 'शील स- माधौ ' ( भ्वा० प० से ० ) । 'शीलिकामि - ' ( वा० ३।२।१ ) इति णः ॥ (१) ॥*॥ पुनः पुनः भृशं वा यजते । ‘-क्रिया- समभिहारे -' (३|१|२२) इति यङ् । 'यजजपदशां यः' (३।२।१६६) इत्यूकः ॥ (२) ॥ * ॥ द्वे 'यजनशीलस्य' ॥ यज्वा तु विधिनेष्टवान् ॥ ८ ॥ २५३ स इति ॥ स यज्वा बृहस्पतिसवनामकयागेनेष्टवान् सन् | स्थानम् स्थः । ‘सुपि स्थः' (३१२१४) इत्यत्र 'स्थः' इति योगविभागात् कः । घञर्थे (वा० ३१ ३२५८) वा । स्थः पतिः 'स्थपतिः कचुकिन्यपि । जीवेष्टियाज के शिल्पिभेदे ना सत्तमे त्रिषु' (इति मेदिनी) ॥ (१) ॥ ॥ एकम् 'बृहस्पति- यागकर्तुः ॥ सोमपीती तु सोमपः । सविति ॥ सोमस्य पीतम् । सोमपीतमस्यास्ति । इनिः (५॥२॥१७५) । – 'इष्टादिभ्यश्च' (५१२१८८) इतीनिः— इति मुकुटः ॥॥ स्वामी तु पानं पीथम् । 'पातृतुदिवचि - ' ( उ० २१७) इति थक् । 'धुमास्था - ' (६|४|६६) इतीलम् । 'सोमपीथः' - इलाह ॥ (१) ॥ * ॥ सोमं पिबति । 'आतो- अनुप - ' ( ३|२|३) इति कः ॥ * ॥ ( ' सोमपाः' इति) दीर्घ- पाठे तु किप् (३ | २|७६ ) || ( २ ) ॥ * ॥ सर्वदायम् । दीक्षि- तस्तु तत्कालम् ॥ ॥ द्वे 'सोमयाजिनः' ॥ सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः ॥ ९ ॥ सेति ॥ सर्वस्वं दक्षिणा यत्र विश्वजिदादौ स येनेष्टः कृतः । सर्वं वेदयति । विदु लाभे' ( तु० उ० अ० ) । ण्यन्तः । सर्वं विन्दति वा । असुन् ( उ० ४११८९) । (१) ॥*॥ एकम् ‘विश्वजिदादियज्ञस्य' || अनूचानः प्रवचने साङ्गेऽधीती अन्विति || अन्ववोचत् । 'उपेयिवान् -' (३।२।१०९) इति साधुः । 'अनूचानो विनीते स्यात्साङ्गवेदविचक्षणे' इति विश्वः ॥ (१) ॥*॥ शिक्षायङ्गषट्कोपेते | प्रोच्यते । ल्युट् (३|३|११३) । प्रवचनो वेदस्तत्र । अधीतमनेन । ‘इष्टादिभ्यश्च' (५१२१८८) इतीनिः । 'तस्येन्विषयस्य ' (वा० २१३१३६) इति सप्तमी ॥ * ॥ एकम् 'साङ्गवेदाध्येतुः ॥ गुरोस्तु यः | लब्धानुशः समावृत्तः ग्विति ॥ गुरोः सकाश हिन्धा प्राप्तानुज्ञा आज्ञा येन । समावर्तते स्म । 'गार्था-' (३॥४॥७४) इति तः ॥ (१) ॥*॥ 'गुरुकुलवासान्निवृत्तस्य' एकम् ॥ सुत्वा त्वभिषवे कृते ॥१०॥ स्विति || सुतवान् ' अभिषवे ( स्वा० उ० अ० ) । 'सुयजोङ्कनिप्’ (३॥२॥१०३) । तुक् (६।१।७१) ॥ (१) ॥*॥ अभिषवेऽवभृथलाने ॥ * ॥ एकम् 'स्नातकस्य' || छात्रान्तेवासिनौ शिष्ये ॥ छेति ॥ गुरुदोषाच्छादनं छत्रम् | तच्छीलमस्य । 'छत्रा- येति ॥ यजते स्म । ‘सुयजोनिप्' (३।२।१०३) ॥ (१) | दिभ्योः (४४६२) ॥ (१) ॥ ॥ अन्ते समीपे वस्तुं ॥ * ॥ एकम् 'विधिवद्धोतुः' ॥ स गीपतीष्ट्या स्थपतिः शीलमस्य | 'सुपि-' (३१२१७८ ) इति णिनिः | 'शयवासवा- सि–’ (६।३।१८) इत्यलुक् । 'अन्तेवासी भवेच्छिष्ये चण्डाले प्रान्तगेऽपि च' इति विश्वः ॥ (२) ॥ * ॥ शिष्यते | ‘शासु अनुशिष्टौ अ० प० से ० ) । 'एतिस्तुशास्-' (३|१| १०९) इति क्यप् । 'शास इदब्हलो: ' (६|४|३४ ) 'शासिव सि - (८|३|६० ) इतिषः ॥ (३) ॥ * ॥ त्रीणि 'शिष्यस्य' ॥ शैक्षाः प्राथमकल्पिकाः । शायिति ॥ शिक्षामधीयते । तदधीते - ' ( ४|१२|५९ )