पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वर्गवर्गः १ ] ( भ्वा० प० से ० ) | ल्युः (३|१|१३४ ) | (२९) ॥ * ॥ दुःखेन दुष्टं दुष्टेषु वा व्यवनमस्य | दुःसहक्ष्यवनो मुनिरस्येति पा ॥ (३०) ॥॥ लुतोर्ति-तुरः | 'तुर त्वरणे' (जु०प० से ० ) | 'इगुपध- ' ( ३|१|१३५ ) इति कः | तुरं वेगवन्तं साहयत्यभिभवति । 'अधेः प्रसहने' (१|३|३३) इति सूत्रे ‘प्रसहनमभिभवः' इति वृत्तेः | ण्यन्तात् ( ३|१|२६ ) सहे: ( भ्वा० आ.० से ० ) विप् (३१२११७६ ) | 'सहे: साउः सः' (८|३|५६) इति षत्वम् । 'अन्येषामपि --' (६|३|१३७) इति पूर्वपदस्य दीर्घः । आप्रश्लेषो वा । 'नहिवृतिवृषि - ' (६|३| ११६) इति वा दीर्घः । एकदेशविकृतस्यानन्यत्वात् । 'दीर्घ- विधौ’ (१।१।५८) इति, 'क्विल्लुग्-' (वा० ११५८) इति वा ( णिलोपस्य ) स्थानिवत्त्व निषेधात्किप्परत्वानपायात् । यत्तु - तुरं सहते इति विगृह्य 'छन्दसि सहः' (३१२१६३) इति विः- इति स्वामी | तन्न | छान्दसस्य लोके प्रयोगा भावात् । यदपि-~~-‘नहिवृतिवृषि - (६ | ३|११६) इति 'पूर्व- पदस्य दीर्घ:-' इत्युक्तम् । तदपि न । क्विबन्तेषु नह्यादिष्वस्य प्रवृत्तेर्ण्यन्तेऽस्योपन्यासस्या न्याय्यत्वात् । एतेन - 'तुरं' वेगवन्तं सहते इति वा तुरस्त्ववरितः सन् परबलानि सहते इति वा’ इति विगृह्य ‘छन्दसि सहः’ (३ | २ | ६३) इति ण्विः -- इत्यु- पन्यस्यन् मुकुटोऽपि प्रत्युक्तः ॥ (३१) ॥ ॥ मेघा वाहन - मस्य । मेघान् वाहयतीति वा | ल्युः (३|१|१३४ ) ॥ (३२) ॥*॥ आखण्डयति । ‘खडि भेदने' ( चु०प० से ० ) । 'वृषा- दिभ्यः कलच्' (उ० १|१०६ ) ॥ (३३) ॥ ॥ सहस्रमक्षी ण्यस्य । 'बहुव्रीही सक्थ्यक्ष्णोः' (५१४/७३) इति षच् ॥ (३४) ॥ ॥ ऋभवः क्षियन्त्यत्र | 'क्षि निवासगत्योः' ( तु० प० अ० ) । डः (वा० ३।२।१०१) 'ऋभुक्षः स्वर्गवज्रयोः' इति विश्वः । सोऽस्यास्तीति ऋभुक्षाः । इनिः (५/२/११५) । पथिवत् । यद्वा ऋच्छति इयर्तीति वा । अतंर्भुक्षिक् प्रत्ययः ॥ (३५) ॥॥ पञ्चत्रिंशत् 'इन्द्रस्य' || व्याख्यासुधाख्यव्याख्यासमेतः । तस्य तु प्रिया ॥ ४४ ॥ पुलोमजा शचीन्द्राणी (तस्येन्द्रस्य प्रियातु ॥) पुलोमजेत्यादि । पुलोन्नो मुने- जीता । ‘पञ्चम्यामजातौ’ (३१२१९८) इति डः ॥ ॥ अत एव 'पौलोमि' अपि । 'तस्यापत्यम्' (४२१९९२) इत्यण् । गोत्रत्वेन जातित्वान्ङीष (४|१|६३) ॥ (१) ॥ ॥ शचते । ‘शच व्यक्तायां वाचि' (भ्वा० आ० से ० ) | इन् ( उ० ४। ११८) । 'कृदिकाराद्-' (ग० सू० ४१९४५) इति ङीष् । ('शचीन्द्राण्यां शतावर्या तथा स्त्रीकरणान्तरे') । 'अथ शची स्यादिन्द्राणी शतावरी । चारधारा महेन्द्राणी शक्राणी जयवादिनी' इति रभसः । शक्रमणति आनयति जीवयतीति वा शक्राणी ॥ * ॥ सर्वेन्द्रियेषु सचते । 'षच समवाये' (भ्वा० आ० से ० ) | इन् ( उ० ४|११८ ) | सची दन्त्यादिरपि ॥ (२) ॥*॥ इन्द्रस्य स्त्री | 'इन्द्रवरुण-' (४११ १९ ४९ ) इति ङीषानुकौ । (इन्द्राणी शच्यां निर्गुण्ड्यां स्त्रीक रणेऽपि ) ॥ (३) ॥ * ॥ यत्तु – अनुकि कर्तव्ये दीर्घाकारमा- नुकं शास्ति, तज्ज्ञापयति 'यतो विहितस्ततोऽन्यत्रापि भवति' । तेन किर्याणी गिर्याणी इत्यादि सिद्धं भवति - इति धातुपारा- यणम् । अतएव 'शक्राणी' इति मुकुटश्च । तन्न । अनुकि कृते 'अतो गुणे' (६।११९७) इति पररूपप्रसङ्गात् । नन्वकारोच्चा- रणसामर्थ्यादीर्घो भविष्यति । अन्यथा हि नुकमेव कुर्यात् इति चेत् । न । ‘अल्लोपोऽनः' (६|४|१३४ ) इत्यस्य बाधेन चरि- तार्थत्वात् 'पत्युर्नः' (४|१|३३) इति वदादेशे कर्तव्ये आग - मलिङ्गककारोच्चारणसामर्थ्यादेव अल्लोपो न भविष्यति - इति चेत् । न । शर्वशब्दे ककारस्य चारितार्थ्यात् । न हि तत्र लोपोऽस्ति । 'न संयोगात्' (६|४|१३७) इति निषेधात् । तस्मात् ककाराकारयोः सामर्थ्यविरहे पररूपबाधनार्थं दीर्घो- ' च्चारणमावश्यकम् । प्रयोगनिर्वाहस्तूक्त एव ॥ त्रीणि 'इन्द्रपत्या:' || नगरी त्वमरावती । (नगरी त्विति ॥) अमराः सन्त्यस्याम् । मतुप् (५॥२॥ ९४) । ‘मतौ बह्नचोऽनजिरादीनाम्’ (६।३।११९) इति दीर्घः ॥ (१) ॥ ॥ एकम् 'इन्द्रपुरस्य' | हय उच्चैःश्रवाः ( हय इति ॥ ) उच्चैः श्रवसी यस्य । उच्चैः शृणोतीति वा । असुन् ( उ० ४११८९ ) उच्चैर्महच् श्रवो यशो यस्येति वा ॥ (१) ॥ ॥ एकम् 'इन्द्राश्वस्य' || सूतो मातलिः ( सूत इति ॥ ) मतं लाति | 'आतोऽनुप - ' ( ३१२१३) इति कः | मतलस्यापत्यम् | ‘अत इन्’ (४।१।९५) ॥ (१) ॥ ॥ एकम् 'इन्द्रसारथेः' ॥ नन्दनं वनम् ॥ ४५ ॥ ( नन्दन मिति ॥ ) नन्दयति | 'टुनदि समृद्धौ' ( भ्वा० प० से० ) | युः (३ | १|१३४ ) | ‘अथ नन्दनम् । इद्रो- द्याने, नन्दनस्तु तनये हर्षकारिणि’ इति हैमः ॥ (१) ॥*॥ एकम् 'इन्द्रवनस्य' || स्यात्प्रासादो वैजयन्तः स्यादिति ॥ वैजयन्त्यः पताकाः सन्त्यस्य । अर्शआयच् ध्वजप्रासादयोः (५१२११२७) । 'वैजयन्तो महेन्द्रस्य पुमान् । वैजयन्ती पताकायां जयन्तीपादपे स्त्रियाम्’ ॥ (१) ॥ ॥ एकम् 'इन्द्रगृहस्य || जयन्तः पाकशासनिः । ( जयन्त इति ॥ ) जयति । 'तृभूवहि-' ( उ० ३१ १२८) इत्यादिना झच् । 'झोऽन्तः' ( ७॥ १॥ २ ) । ( 'जय-