पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मवर्गः ७ ] राजवीजी राजवंश्य: रेति ॥ राज्ञो वीजयितुं शीलमस्य | 'वीज व्यजने' अद- न्र्तः । ‘सुपि-’ (३।२।७८) इति णिनिः । यद्वा राज्ञो वीजम् । राजवीजमस्यास्ति । इनिः (५/२॥११५) ॥ ( १ ) ॥ ॥ वंशे भवः । दिगादियत् (४|३|५३ ) | राज्ञो वंश्यः | राजवंशे साधुः । 'तत्र साधुः' (४१४ १९८) इति यत् ॥ (२) ॥ ॥ द्वे 'राजवंशोत्पन्नस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । वीज्यस्तु कुलसंभवः ॥ २ ॥ बीति ॥ वीज्यते । 'अचो यत्' (३|१|९७) यद्वा वीज- मस्यास्ति । 'अन्यन्नापि दृश्यते' ( वा० ५/२/१२० ) इति यप् । 'वीजे भवः' । साधुः, वा ॥ (१) ॥ ॥ कुले संभवति । अच् (३।१।१३४) । कुले संभवोऽस्य वा । यद्वा संभवत्य- स्मात् । ‘ऋदोरप्’ (३।३।५७) कुलस्य संभवः ॥ ( ३ ) ॥ * ॥ द्वे 'कुलमात्रोत्पन्नस्य' ॥ महाकुलकुलीनार्यसभ्यसज्जनसाधवः । मेति ॥ महच तत् कुलं च | महाकुलस्यापत्यम् । 'महा- कुलादञ्खलौ’ (४।१।१४१) ॥ ॥ महत् कुलमस्य, इति वि- ग्रहे तु (महाकुलः) हस्खादिरपि ॥ (१) ॥ ॥ कुलस्याप- त्यम् । ‘कुलात्खः’ (४।१।१३९) ॥ ॥ 'अपूर्वपदादन्यतरस्यां यड्ढकजौ' (४११॥१४०) ॥ 'कौलेयक: सारमेये कुलीने' ( इति मेदिनी ) ॥ ॥ 'कुल्यं स्यात्कीक सेऽप्यष्टद्रोणी सूर्यामि- षेषु च । कुल्या पयःप्रणाल्यां च नद्यां जीवन्तिकौषधौ । कुलो- द्भवे कुलहिते त्रिषु मान्ये पुनः पुमान्' ( इति मेदिनी ) ॥ (२) ॥*॥ अर्थते । ‘ऋ गतौ’ ( भ्वा० प० अ० ) । 'ऋहलोर्ण्यत्' (३।१।१२४)॥ (३) ॥* ॥ सभायां साधुः | 'सभाया यः' (४|४|१०५) ॥ (४) ॥*॥ संश्चासौ जनश्च । 'सजनं तु भवेक्ली बसुपरक्षणघयोः । वाच्यलिङ्गं कुलीने स्यात् कल्प- नायां च योषिति’ ( इति मेदिनी ) ॥ ( ५ ) ॥ ॥ साप्नोति ध- र्मम् । ‘साध संसिद्धौ’ (खा०प० अ० ) । 'कृवापा- ' ( उ० | १।१ ) इत्युण् । ‘साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत्' ( इति मेदिनी ) ॥ (६) ॥ ॥ षट् 'कुलीनस्य' ॥ ब्रह्मचारी गृही वानप्रस्थो भिक्षुञ्चतुष्टये ॥ ३ ॥ आश्रमोऽस्त्री ·· · ब्रेति ॥ ब्रह्म वेदः । तदध्ययनार्थं व्रतमप्युपचाराद्रह्म । 'ब्रह्म चरितुं शीलमस्य । 'व्रते' (३१२१८० ) इति 'सुपि-’ (३ (२।७८) इति वा णिनिः । यद्वा ब्रह्म तपो ज्ञानं वा चरत्यर्जय- ·त्यवश्यम् । ‘आवश्यका–’ ( ३ | ३ | १७० ) इति णिनिः ॥ (१) “॥ ॥ गृहा दाराः सन्त्यस्य । इनिः (५/२/११५ ) ॥ (१) ॥ ॥ ‘वनमेव प्रस्थो, बनस्य वा प्रस्थः प्रदेशः । वनप्रस्थे भवः । 'तत्र भवः' (४|३|५२) इल्यण् ॥ ( १ ) ॥ ॥ भिक्षणशीलः । 'भिक्ष याच्यायाम्' ( भ्वा० आ० से ० ) । 'सनाशंसभिक्ष उः' (३।२।१६८) ॥ (१) ॥ * ॥ चत्वारोऽवयवा यस्य । 'सं- ख्याया अवयवे तयपू' (५१२४२) ॥ चतुरवयवसमुदाये ॥ * ॥ आश्राम्यन्त्यत्र । अनेन वा । 'श्रमु तपसि' ( दि० प० से० ) | घञ् ( ३ |३|१९ ) | 'नोदात्तोपदेशस्य - ' ( ७७३१३४ ) इति वृद्धिर्न । यद्वा आसमन्ताच्छ्रमोऽत्र | स्वधर्मसाधनक्ले- शात् । 'आश्रमो ब्रह्मचर्यादौ वानप्रस्थे वने मठे | अस्त्रियाम्' ( इति मेदिनी ) ॥ ( १ ) ॥ * ॥ एकैकम् 'ब्रह्मचार्यादीनाम् ॥ द्विजात्यग्रजन्मभूदेववाडवाः । विश्व ब्राह्मणः द्वीति ॥ द्वे जाती जन्मनी यस्य | 'मातुरग्रेऽधि (वि)ज- ननं द्वितीयं मौजिवन्धनात्' ( मनुः २२१६९ ) । 'द्विजाति- विप्राण्डजयोश्च पुंलिङ्ग : ' ( इति मेदिनी ) ॥ (१) ॥ ॥ अग्र आदौ जन्मास्य । अग्रान्मुखाद्वा जन्मास्य | 'अग्रजन्मा द्विजश्रेष्ठे भ्रातरि ब्रह्मणि स्मृतः' इति विश्वः ॥ (२) ॥॥ भुवो भुवि वा देव इव ॥ (३) ॥ ॥ 'वडवा कुम्भदास्यश्वा स्त्रीविशेषो द्विजन्मनाम्' इति रभसः ॥ ( वडवाऽश्वाकुम्भ- दास्योः स्त्रीविशेषे द्विजस्त्रियाम्' इति विश्वः ) वडवायां जा- तः । 'तत्र जातः' ( ४ | ३ | २५) इत्यण् | वाडव इव वा । वाड- नम् | 'वाढ आलाव्ये' ( भ्वा० आ० से ० ) घन् (३॥३॥ १८ ) | बालनम् । 'वल निरूपणे' चुरादिर्वा । घञ् (३॥३॥ १८) डलयोरेकत्वम् । वाडोऽस्यास्ति । 'अन्यत्रापि (न्येभ्यो- ऽपि ) दृश्यते' ( वा० ५ २ १०९ ) इति वः । वार्ड वाति । कः (३१२१३) वा । 'वाडवं करणे स्त्रीणां घोटिकौघे नपुंसकम् | पाताले न स्त्रियां पुंसि ब्राह्मणे वडवानले' इति मेदिनी ॥ ( ४ ) ॥ * ॥ विप्राति | 'प्रा पूतौँ' ( अ० प० अ० ) । 'आत- (३|१|१३६ ) इति कः | उप्यतेऽत्र वा । 'ऋत्रे- न्द्र - ' ( उ० २।१८ ) इति साधुः । विपाति । विपति । ‘विप क्षेपे' ( ) वा ॥ ( ५ ) ॥ ॥ ब्रह्मणोऽपत्यम् | 'तस्यापत्यम्' (४|११९२ ) इत्यण् 'अन्' (६|४|१६७) इति टिलोपो न । ब्रह्माधीते । 'तदधीते तद्वेद' (४१२१५९) इत्यण् वा । ब्रह्म जानाति । ‘शेषे' (४|२|९२) इत्यण् वा ॥ (६) ॥॥ 'वक्र- जस्त्वनमो विप्रो वर्णज्येष्टः कचो (ठो)द्विजः | मैत्रः पुनरुक्तजन्मा स्यात्' इति त्रिकाण्डशेषः । 'सूत्रकण्ठः पुमान् विप्रे खजरीटकपोतयोः' ( इति मेदिनी ) ॥*॥ षट् 'ब्राह्मणस्य' || चोपसर्गे' असौ षट्कर्मा यागादिभिर्युतः ॥ ४ ॥ असाविति ॥ असौ विप्रः । षट् कर्माण्यस्य । 'इज्याध्य- यनदानानि याजनाध्यापने तथा । प्रतिग्रहश्च तैर्युक्तः षट्कर्मा विप्र उच्यते' ( ) ॥ (१) ॥ ॥ एकं 'षट्कर्मणो विप्रस्य' ॥ विद्वान्विपश्चिद्दोषशः सन्सुधीः कोविदो बुधः । धीरो मनीषी ज्ञः प्रज्ञः संख्यावान्पण्डितः कविः ५ धीमान्सूरिः कृती कृष्टिलब्धवर्णो विचक्षणः । दूरदर्शी दीर्घदर्शी वीति ॥ वेत्ति | 'विद ज्ञाने' (अ० प० से० ) । 'लटः