पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० वेशे प्रसाधनम्' इति विश्वमेदिन्यौ ॥ (१) ॥ ॥ कङ्कते । 'ककि गतौ ' (भ्वा० आ० से ० ) । बाहुलकादतच् । गौरादिः (४|१|४१) | स्वार्थ कन् (ज्ञापि ० ५१४१५) । 'केऽण : ' ( ७ | ४।१३) इति हवः । यद्वा कस्य शिरसोऽङ्काः । शकन्ध्वादिः (वा० ६।१।९४)। कङ्केष्वतति । कुन् ( उ० २१३२ ) |-क- इति । 'ककि लौल्ये' — इति मुकुटः । तन्न । तस्यानिदि- त्त्वात् । आत्मनेपदित्वाच। 'कङ्कती तु प्रसाधनी' इति स्त्रीकाण्डेऽमरमाला । 'कङ्कतं तु प्रसाधनम्' इति क्लीब- काण्डे च ॥ (२) ॥ ॥ द्वे 'केशमार्जन्या:' 'कडही' इति | ख्यातायाः ॥ अमरकोषः । पिष्टातः पटवासकः ॥ १३९ ॥ पीति ॥ पिष्टमतति । 'कर्मण्यण' (३|२|१) ॥ (१) ॥ * ॥ पटो वास्यतेऽनेन । ‘वास उपसेवायाम्' चुरादिः | घः (३|३| ११८) । स्वार्थे कन् (ज्ञापि० ५१४१५) । पटं वासयति । 'कर्म- ण्यण्' (३|२|१) वा | स्वार्थे कन् (ज्ञापि ० ५/४/५ ) ॥ ( २ ) ॥ * ॥ द्वे 'पिष्टातस्य' 'वुक्का' इति ख्यातस्य ॥ दर्पणे मकुरादर्शों . । देति ॥ दर्पयति । ‘दृप हर्षमोचनयोः' (दि०प० अ०) ण्यन्तः । नन्द्यादिः (३।१।१३४ ) । 'दृप संदीपने' चुरा - दिर्घा। ‘आदर्शो दर्पणः प्रोक्तः' इत्यमरमाला ॥ ( १ ) ॥ ॥ मङ्कते । ‘मकि मण्डने’ (भ्वा० आ० से ० ) 'मकुरदर्दुरौ' | ( उ० १४०) इति साधुः ॥ ॥ मुञ्चति ज्योतिः । 'मुच्ऌ मो- चने' । अत्र पक्षे मुकुरो व्युकारः । 'मकुरः सान्मुकुरव- द्दर्पणे बकुलद्रुमे । कुलालदण्डे ' ( इति मेदिनी ) ॥ ॥ – 'म - ङ्कुरः'-~-इत्यन्ये ॥ (२) ॥ * ॥ आदृश्यते रूपमन्त्र | 'हशिर् प्रेक्षणे’ (भ्वा० प० अ०)। ‘हलच' (३।३।१२१) इति घञ् । 'आदर्शो दर्पणे टीकाप्रतिपुस्तकयोरपि ' ( इति मेदिनी ) ॥ ॥ श्रीणि 'दर्पणस्य' || | [ द्वितीयं काण्डम् तिन् (३१३१९४) 'संततिः स्यापक गोत्रे पारम्पर्ये च पुत्रपौत्राणाम् ' ( इति मेदिनी) ॥ (१) ॥ ॥ गूयते । ‘गुड् शब्दे' (भ्वा० प० से ० ) । हून् ( उ०४१४५) । 'गोत्रा भूगव्ययोर्गोत्रः शैले गोत्रं कुलाख्ययोः | संभावनीयवोधे च काननक्षेत्रवर्त्मसु' ( इति मेदिनी ) ॥ ( २ ) ॥ * ॥ जन्यते । 'जनी प्रादुर्भावे' (दि० आ० से ० ) । 'जन जनने' वा (जु० प० से ० ) । ण्यन्तः । 'कर्मणि ल्युट्' (३|३|११३) । 'जननं वंशजन्मनोः ' ( इति मेदिनी) ॥ (३) ॥ * ॥ कूयते । ‘कुङ् शब्दे' ( भ्वा० आ० से ० ) । बाहुलकाहक् । कोलति । 'कुल संस्त्याने' ( भ्वा० प० से ० ) 'इगुपध-' (३|१|१३५) इति को वा । कुं भूमिं लाति । कः ( ३ | २ | ३) वा | कौ लीयते । 'लीङ् श्लेषणे' ( दि० आ० अ० ) । 'अन्येभ्योऽपि ' ( वा० ३।२।१०१ ) इति डः । 'कुलं जनपदे गोत्रे सजातीयगणेऽपि च । भवने च तनौ क्लीवं कण्टकार्योषधौ कुली' (इति मेदिनी) ॥ (४) ॥ ॥ अभिजन्यते । कर्मणि घञ् (३|३|१९ ) | णिलोपस्य स्थानिवत्त्वात् 'जनिवध्योश्च' (७१३१३५) इति निषेधाद्वा वृ- द्धिर्न । यद्वा अभितोऽभिमुखो वा जनो जन्मात्र । 'भवेद- भिजनः ख्यातौ जन्मभूम्यां कुलध्वजे । कुलेऽपि च पुमान्' (इति मेदिनी) ॥ (५) ॥ ॥ अन्वीयते | ‘इ गतौ' (भ्वा० प० अ०) । 'इण् गतौ' (अ० प० अ०) वा । 'एरच्’ (३॥ ३|५६) ॥ (६) ॥ ॥ उश्यते । 'वश कान्तौ ' (अ० प० से० ) । घञ् (३।३।१९) । 'आच्छीनयोः' (७/१८०) इत्यत्र 'नुम्' इति योगविभागानुम् । यद्वा वन्यते । 'वन संभक्तो' ( भ्वा०प० से ० ) । बाहुलकाच्छ:मति | ‘भुवमिकुभ्यः’ इति शक् - इति मुकुटः | तन्न । उक्तसूत्रस्योज्ज्वलदत्तादि- ध्वदर्शनात् । 'वंशो वेणौ कुले वर्गे पृष्ठाद्यवयवेऽपि च ' इति विश्वमेदिन्यौ ॥ (७) ||| अन्ववाय्यते | 'अय गतौ' ( भ्वा० आ० से ० ) । घञ् (३॥३॥१९) ॥ (८) ॥ * ॥ संत- न्यते । घन् (३।३।१९)। 'संतान: संततौ गोत्रे स्यादपये सुरद्रुमे' (इति मेदिनी) । कर्तृकरणाधिकरणेष्वपि 'विग्रहः संभ- वति । आद्ये 'तनोतेः' (वा० ३ | १ | १४०) इति णः | अ- न्यत्र 'हलच' ( ३|३|१२१) इति घन् ॥ (९) ॥*॥ नव 'वंशस्य' ॥ व्यजनं तालवृन्तकम् । व्येति ॥ ध्यजन्त्यनेन । ‘अज गतिक्षेपणयोः' (भ्वा० प० से०)। करणे ल्युट् (३।३।११७) | ‘वा यौ' (२१४१५७) इति पक्षे वी न । 'बहुलं तणि' (वा० २१४१५४) इति वा वीभावो न ॥ ( १ ) ॥ * ॥ तालस्यैव वृन्तमस्य | ताले करतले वृन्तमिव बन्धनमस्य । 'वृन्तं प्रसवबन्धे स्याद्धटधाराकुचाग्रयोः' इति विश्वः ॥ (२) ॥ * ॥ द्वे 'व्यजनस्य' ॥ इति नृवर्गविवरणम् ॥ संततिर्गोत्रजननकुलान्यभिजनान्वयौ । वंशोऽन्ववायः संतानः समिति ॥ संतन्यते । ‘तनु विस्तारे' (तु० उ० से ० ) । १ – 'किं तदर्पणमस्ति यत्र सकलम्' इति धर्मसेनः । अतः कीब- मपि - इति मुकुटः ॥ वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥ वेति ॥ वर्ण्यते । 'वर्णं प्रेरणे' ( चु०प० से ० ) घञ् (३॥ ३।१९)। वर्णयति । अच् (३ | १ | १३४) वा । 'वर्णो द्विजा- दिशुक्लादियज्ञे गुणकथासु च । स्तुतौ ना न स्त्रियां मेदरूपाक्ष- रविलेपने’ (इति मेदिनी) ॥ (१) ॥ * ॥ एकम् 'ब्राह्मणा वर्णं चतुष्टयवाचकस्य वर्णा इत्येकम् ॥ विप्रक्षत्रिय विशूद्वाश्चातुर्वर्ण्य मिति स्मृतम् । वीति || विप्रश्च क्षत्रियश्च विट् च शूद्रश्च । चत्वार एवं वर्णाः 'चतुर्वर्णादीनाम्' (वा० ५११११२४) इति खार्थे घ्यन् ॥