पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्ग: ६ ] मजति । 'मजि ध्वनौ' सौत्रः । बाहुलकादीरन् ।- 'गम्भी- रादयश्च' इतीरन् - इति मुकुटोऽपाणिनीयो गम्भीरादिगणा- भावात् ॥ (३) ॥*॥ ‘नुबनम्’ नूयते, वा । ‘णू स्तुतौ' ( तु० प० से ० ) | संपदादिः (वा० ३|३|१०८ ) | नुवि पुर - ति । ‘पुर अग्रगमने’ ( तु०प० से ० ) | 'इगुपथ - ' ( ३३१॥ १३५) इति कः । ‘मञ्जीरोऽत्री स नूपुरः' इति रभसः ॥ (४) ॥॥ चत्वारि 'नूपुरस्य' || हंसकः पादकटकः व्याख्यासुधाख्यव्याख्यासमेतः । हंसेति ॥ हंस इव कायति । 'अन्येभ्योऽपि - ' ( वा० ३ | २।१०१ ) इति डः | हंस इव | 'इवे - ' ( ५|३|९६ ) इति कन् वा ॥ (१) ॥*॥ पादस्य कटको वलयः ॥ ( २ ) ॥*॥ हे 'नूपुरस्य' ॥ - षडपि पर्यायाः- इत्येके ॥ किंकिणी क्षुद्रघण्टिका । किमिति ॥ किंचित् किणं करोति । किणशब्दात् 'त- करोति' (वा० ३।१।२६) इति ण्यन्तादच् ( ३ | ११३४) । गौरादिः (४॥१॥४१) ॥*॥– कङ्कणी - इति स्वामी ॥ कङ्क- नम्। 'ककि गतौ' (भ्वा० प० से ० । घञ् (३।३।१८) । को गतावणति । 'अण शब्दे' ( भ्वा०प० से ० ) | अच् ३।१।१३४) । गौरादिः (४१४१) शकवादिः (वा० ६ | १९९४) । यद्वा कं सुखं कणति । 'कण शब्दे' ( भ्वा०प० से० ) । अच् (३।१।१३४) । 'कङ्कण: स्यात्प्रतिसरः कङ्क- णी क्षुद्रघण्टिका' इति भागुरिः ॥ (१) ॥ ॥ घण्टेव | 'इवे-' (५|३|९६) इति कंन् । यद्वा घण्टति, घण्टयति, वा 'घटि दीप्तौ ' ( चु० उ० से ० ) । ण्वुल ( ३ | १|१३३ ) | क्षुद्रा चासौ घण्टिका च ॥ (२) ॥*॥ द्वे ‘क्षुद्रघण्टिकायाः' । 'घुघुरा ख्यस्य' || त्वक्फलकृमिरोमाणि वस्त्रयोनिः त्वेति ॥ लगादि | बस्त्रस्य योनिः कारणम् ॥ (१) ॥॥ एकम् 'वस्त्रयोनेः' || दश त्रिषु ॥ ११० ॥ देति ॥ वक्ष्यमाणानि तन्त्रकान्तानि दश || areकं क्षौमादि वेति ॥ वल्कस्य विकारः । ‘तस्य विकार : ' (४|३|१३४) इत्यण् ॥ (१) ॥*॥ क्षुमाया विकारः । प्राग्वत् ॥ क्षौमादि वाल्कम् । 'क्षौमं वल्कलजांशुके । शणजेऽतसीजे' (इति मे- दिनी) । 'क्षौमवस्त्रस्य' एकम् ॥ १ - वाल्कक्षौमफालका र्पासबादर कौशेयराङ्कवानाहत निष्प्रवाणितन्त्र काणि – इति स्वामी ॥– वक्ष्यमाणानि क्षौमादिवर्जवाल्कफालादीनि निष्प्रवाण्यन्तानि दश त्रिषु त्रिलिङ्गानि । चकारादेकादशं तत्रकम्, इति सुभूतिः - इति मुकुटः ॥ अमर० ३१ २४१ फालं तु कार्पासं बादरं च तत् । फेति ॥ फलस्य विकारः | 'तस्य विकार:' (४ | ३ | १३४) इत्यण् । 'फालं तु बसने फाल उत्प्लुतौ’ (इति हैमः) ‘क्लीवं सीरोपकरणे' (इति मेदिनी) ‘पुंसि शंकरसीरिणोः’ ॥ (१) ॥८॥ कर्पास्या बदरायाश्च विकारः फलम् । 'अवयवे च–' (४ | ३ | १३५) इत्यण् । तस्य 'फले लुक्' ( ४ | ३ | १६३) । कार्पासस्य वदरस्य च विकारः । प्राग्वदण् ( ४ | ३ | १३४) ॥ (२) ॥ ॥ (३) ॥॥ त्रीणि 'कार्पासवस्त्रस्य' ॥ कौशेयं कृमिकोशोत्थम् काविति ॥ कोशे संभूतः । 'कोशाञ्' (४|३|४२) ॥ (१) ॥ ॥ एकम् ‘पीताम्बरादेः' ॥ रावं मृगरोमजम् ॥ १११ ॥ रेति ॥ रौ भवम् । ‘रङ्कोरमनुष्येऽण् च' (४|२|१००) इत्यण् । 'मृगरोमजम्' मृगशब्देन पशुमात्रं ग्राह्यम् । तेन कम्बलाद्यपि रावम् ॥ (१) ॥॥ एकम् 'ऊर्णादेः' ॥ अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे | अनेति ॥ न आहृतम् ॥ (१) ॥ ॥ प्रोयतेऽनया | ‘वेञ् तन्तुसंताने' ( भ्वा० उ० अ० ) । 'करणा-' (३|३|११७) इति ल्युट् । निर्गता प्रवाणी तन्तुवायशलाकास्मात् । ‘निष्प्र- वाणिश्च (५१४११६०) इति साधु ॥ ( २ ) ॥ ॥ तन्त्रादचि- रापहृतम् | 'तन्त्रादचिरापहृते' (५|२|७०) इति साधु ॥ (३) ॥ॐ॥ नवं च तदम्बरं च ॥ ( ४ ) ॥ ॥ चत्वारि 'छेदभोग- क्षालनरहितवस्त्रस्य ॥ तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् ॥ ११२ ॥ तदिति || धौतयोः प्रक्षालितयोर्वस्त्रयोर्युगम् | उद्गम्य- तेऽभिलष्यते । 'गम्ऌ गतौ' ( भ्वा०प० अ० ) । अनीयर् (३३१९९६) ॥ (१) ॥॥ ‘युगम्' इत्यविवक्षितम् ॥’॥ एकम् 'धौतवस्त्रयुगस्य' ॥ पोर्ण धौतकौशेयम् पेति ॥ पत्रेषु कृतोर्णा पत्रोर्णास्त्यत्र | अर्शआद्यच् ( ५ ॥ २।१२७) । 'पोर्ण धौतकौशेये पत्रोर्णः शोणकद्रुमे' इति हैमः ॥ (१) ॥ ॥ धाव्यते स्म । 'धावु गतिशुद्ध्योः' (भ्वा० उ० से ० ) । क्तः (३।२।१०२) धौतं च तत्कौशेयं च ॥ (२) ॥ * ॥ द्वे 'धौत कौशेयस्य' । – प्रक्षालित कौशेयमेव पत्रोर्णा- ख्यम् – इत्यन्ये ॥ बहुमूल्यं महाधनम् । बेति ॥ बहु मूल्यमस्य ॥ (१) ॥ ॥ महद् धनं मूल्य- मस्य ॥ (२) ॥ * ॥ द्वे 'बहुमूल्यवस्तुनः' ॥ क्षौमं दुकूलं स्यात् क्षाविति ॥ क्षौति, क्षयते, वा । 'टु क्षु शब्दे' (अ०