पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ अमरकोषः । स्मरणमूलकः ॥ (१) ॥ * ॥ द्वादश अड्डलयः प्रमाणमस्य | 'तद्धितार्थोत्तर- ' (२1१1५१ ) इति द्विगुः । 'द्विगोर्नित्यम्' (वा० ५१२१३७) इति मात्रचो लुक् । 'तत्पुरुषस्याङ्गुलेः' (५४१८६) इत्यच् ॥ (२) ॥ * ॥ द्वे 'वितस्ते : ' ॥ पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ ॥ ८४ ॥ पेति ॥ चपति । 'चप सान्त्वने' ( भ्वा० प० से ० ) । अच् (३।१।१३४)। एटति | 'इट गतौ' (भ्वा०प० से ० ) । ‘इगुपध-' (३।१।१३५) इति कः । चपश्चासाविटश्च ॥ * ॥ 'चर्पट:' अप्यत्र | 'चर्पट: स्फारविपुले चपेटे पर्पटेऽपि च (इति विश्वमेदिन्यौ) ॥ ( १ ) ॥ * ॥ प्रतलति 'तल प्रतिष्ठायाम्' ( चु० प० से ० ) | अच् (३|१|१३४) । 'प्रतलं पातालभेदे तताङ्गुलिकरे पुमान्’ (इति मेदिनी) ॥ ॥ ‘तलम्' अप्यत्र । 'तलं स्वरूपाधरयोः खङ्गमुष्टिचपेटयोः' इति विश्वः । ('तल- चपेटे तालद्रौ' इति हैमतः । - पुंसि तालमहीरुहे । चपेटे च' इति मेदिनीतश्च पुंस्ययम् ) ॥ (२) ॥ * ॥ प्रसृतो हस्तः । ‘प्रादयो गता-’ (बा० २।२।१८) इति समासः ॥ ( ३ ) ॥ ॥ त्रीणि 'विस्तृताङ्गुलौ पाणौ ॥ द्वौ संहतौ सिंहतलमंतलौ वामदक्षिणौ । द्वाविति || सिंहस्येव तलमत्र ॥ * ॥ 'संहतलः' इति पाठान्तरम् । संहृतं संघ लाति । 'आतोऽनुप -' (३|२|३) इति कः ॥ (१) ॥*॥ प्रतते प्रश्लिष्टे वा तले अत्र ॥ (२) ॥ * ॥ द्वे 'वामदक्षिणयोः पाण्योर्मिलितयोर्विस्तृता- 'ङ्गुल्योः' ॥ पाणिनिकुन: प्रसृतिः पेति ॥ नितरां कुब्जा प्रकृतिरस्य । प्रसरत्यनेन । क्तिन् (३।३।९४) ॥*॥ ‘प्रसृतः’ इति वा पाठः । तत्र प्रकृष्टं सृत- मस्य। ‘प्रसृतः सप्रसारे स्याद्विनीते गिते त्रिषु । अर्धाञ्जलौ तु पुंलिङ्गो जवायां प्रसृता मता' ( इति मेदिनी) ॥ ( १ ) ॥ * ॥ एकम् 'प्रसृतेः' ॥ तौ युतावञ्जलिः पुमान् ॥ ८५ ॥ ताविति ॥ तौ प्रसृतौ मिलितौ । अज्यतेऽनेन । 'अज्जू व्यक्त्यादौ ' ( रु०प० से० ) । 'ऋतन्य जि - ' ( उ० ४१२) इत्यलि: । 'अञ्जलिस्तु पुमान् हस्तसंपुढे कुडवेऽपि च' ( इति मेदिनी) ॥ (१) ॥ * ॥ एकम् 'अञ्जलेः' ॥ प्रकोष्ठे विस्तृतकरे हस्तः [[द्वितीयं काण्डम् ऋक्षे केशात्परो व्राते' (इति मेदिनी ) ॥ ( १ ) ॥ ॥ विस्तृतः करो यस्य तस्मिन् ॥ एकम् 'विस्तृतकरस्य' | मुष्ट्या तु बद्धया । प्रेति ॥ बाहौ प्रसारितपाणौ हस्तः । हसति, हस्यतेऽनेन वा । 'हसे हसने' ( भ्वा०प० से० ) । 'हसिमृग -' (उ० ३ | ८६) इति तन् । 'हस्तः करे करिकरे सप्रकोष्ठकरेऽपि च । १—मुकुटस्तु—‘संहतल’ प्रतलौ’ इति सविसर्मपाठमाश्रित्य डो बामदक्षिणौ प्रतलौ मिलितौ संहतल उच्यते । प्रतलद्वयं मिलितं संह तलः स्यादित्यर्थः— इत्युक्त्वा एकम्' इत्येवोक्तवान् ॥ स रतिः स्यात् म्विति ॥ स हस्तः मुष्यतेऽनया 'मुष स्तेये' (त्र्या० प० से ० ) । 'स्त्रियां क्तिन्' (३१३१९४) । यद्वा मुष्णाति । तिचू (३।३।१७४) । ('संपीडिताङ्गुलिर्मुष्टिः' इति हलायुधः) ( मुष्टियोः फले | बद्धपाणौ त्सरौ' इति मेदिनी ) | बद्धया मुथ्योपलक्षितः ॥ ॥ ऋच्छति | अर्यतेऽनेन वा । 'ऋ गतौ' ( भ्वा० पं० अ० ) । 'ऋतनि' ( उ० ४१२ ) इति कलि- च् । 'रत्यरत्नी स्त्रियौ बद्धमुष्टितताङ्गुली' इत्यमरमाला ॥ (१) ॥ * ॥ एकम् ‘बद्धमुष्टिहस्तस्य' ॥ अरतिस्तु निष्कनिष्ठेन मुष्टिना ॥ ८६ ॥ अरेति ॥ रत्निभिन्नः । नन्समासः | 'नारनिः कफोणौ हस्ते सप्रकोष्ठे चाडला' इति रुद्रः । 'अरनिर्ना सप्रकोष्ठत ताड्डुलिकरेऽपि च । कफोणावपि ' (इति मेदिनी) ॥ (१) ॥ * ॥ निर्गता कनिष्ठा यस्मात्तेन मुष्टिनोपलक्षितः ॥ ॥ एकम् 'अरनिहस्तस्य' || व्यामो बाह्रोः सकरयोस्ततयोस्तिर्यगन्तरम् । व्येति ॥ विशेषेण अभ्यतेऽनेन । 'अम गतौ' ( भ्वा० प० से ० ) | 'हलच' (३।३।१२१) इति घन् । मुकुटस्तु— व्यामीयतेऽनेन । माझे मूलविभुजादित्वात् (वा० ३१२५) कः - इति व्याख्यत् । तन्न | 'कृत्कर्तरि' ( ३ | ४|६७) इत्यस्य प्रवृत्त्या करणे कस्यासंभवात् ।- व्यामीयते रज्ज्वाद्यनेन - इति स्वाम्यप्येवम् ॥ (१) ॥ ॥ स्वे स्वे पार्श्वे प्रसारितयोर्चा - होर्मध्यम् ॥ * ॥ एकम् 'व्यामस्य' | ऊर्ध्व विस्तृतदोः पाणिनृमाने पौरुषं त्रिषु ॥ ८७॥ ऊर्ध्वेति ॥ दोषौ च पाणी च । तत् । ऊर्ध्वं विस्तृतं दोःपाणि येन सः । तादृशो ना | तस्य यन्मानं परिमाणम् | तेन पुंसा वा यन्मीयते तत्र ॥॥ पुरुषः प्रमाणमस्य । पुरु षहस्तिभ्यामण् च ' (५|२|३८ ) | पौरुषो नदः, पौरुषी नदी, पौरुषं सरः | 'पौरुषं पुरुषस्य स्याद्भावे कर्मणि तेजसि । ऊर्ध्वविस्तृतदोः पाणिनृमाने त्वभिषेयवत्' ( इति मेदिनी) ॥ (१) ॥ ॥ एकम् 'पुरुषप्रमाणस्य || कण्ठो गलः केति ॥ कणति । 'कण शब्दे' ( भ्वा०प० से ० ) । 'क- णेष्ठ:' (उ० ११०३) । कण्ठते । 'कठि शोके' ( भ्वा० आ० से० ) | अच् ( ३ | १ | १३४ ) | 'समीपगलशब्देषु त्रिषु कण्ठं विदुर्बुधाः' इति शाश्वतः । 'कण्ठो गले संनिधाने वनो १- बाहुशब्दस्य प्रकोष्ठवाचकत्वाभावः । 'चतुर्विंशत्यङ्गुलो इस्तः' इति सकलसिद्धान्तभङ्गश्च ॥