व्याख्या सुधाख्यव्याख्यासमेतः मेदिनी ) ॥ (१) मनुष्यवर्ग: ६ ] पस्य नेमौ स्यान्त्रिकं पृष्ठाधरे त्रये' ( इति ॥ * ॥ एकम् 'पृष्ठवंशाधोभागस्य' || पिचण्डकुक्षी जठरोदरं तुन्दम् पीति ॥ अपि चमत्यन्नम् | जमन्ताङ्कः ( उ० ११११४) । 'वष्टि भागुरि - ' इत्यल्लोपः | अपि चण्ड्यतेऽनेन हेतुना | 'चडि कोपे' (भ्वा० आ० से ० ) । 'पुंसि - ' ( ३ |३|११८ ) | इति घो वा । 'पिचंण्ड उदरे पशोरवयवे पुमान्' ( इति मे - दिनी) ॥ ॥ (पिचिण्डः, इति) इकारद्वयवत्त्वे तु पृषोदरादि: (६।३।१०९) । (१) ॥ * ॥ कुष्यते निष्कास्यते मलोऽस्मात् । 'कुष निष्कर्षे' (ॠया० प० से ० ) । 'पुषिकुषिशुषिभ्यः क्सिः' ३।१५५ ) |– 'कुषः सिः' - इति मुकुटवाक्यमपाणि- नीयम् ॥ (२) ॥ ॥ जायतेऽत्र जन्तुर्मंलो वा । 'जनेररष्ठ च' (उ० ५१३८) इयरप्रत्यये ठोऽन्त्यादेशः । 'जठरो न स्त्रियां कुक्षौ, बद्धकक्खटयोत्रिषु ' ( इति मेदिनी) । मुकु· टस्तु — जनयत्यनादिना स्वभरणम् । बाहुलकादरन् | पृषो- दरादित्वात् (६।३।१०९ ) अन्त्यस्य ठः - इति । स उक्तसू- त्रास्मरणप्रयुक्तः ।—जमल्याहारम् । जठरम् - इति खाम्य- प्येवम् ॥ (३) ॥*॥ उदृणाति । 'ऋ गतौ' (क्या० प० से०)। अच् (३।१।१३४) । यद्वा उदृच्छति, उदियर्ति, वा । 'ऋ गतौ' (भ्वा०, जु० प० अ० ) | अच् (३ | १ | १३४)। यद्वा उद् हणाति । 'दृ विदारणे' (त्रया०प० से० ) । 'उदि हातेरजलो पूर्वपदान्त्यलोपश्च' ( उ० ५११९) । 'उदरं तु - न्दरणयोः' इति हैमः ॥ (४) ॥ ॥ तुदति | 'तुद व्यथने' ( तु० उ० अ०) । 'इगुपध - ' (३।१।१३५) इति कः । ‘आ- च्छीनयोः -' (७७११८०) इत्यत्र 'नुम्' इति योगविभागा- नुम् । यद्वा तर्णोत्यन्नम् ‘तृणु अदने' ( त० उ० से०) । 'अन्दादयश्च' ( उ० ४१९८) इति साधुः ॥ ( ५ ) ॥॥ पञ्च 'जठरस्य' || स्तनौ कुचौ । स्तेति ॥ स्तनति कथयति यौवनोदयम् । स्तन्यते श ब्यते वा कामुकैः । ‘टन शब्दे' (भ्वा०प० से ० ) | अच् (३।१।१३४) । ‘पुंसि–’ (३|३|११८ ) इति घो वा ॥ (१) ॥ * ॥ कुचति । 'कुच संकोचे' ( तु०प० से ० ) । 'इगुपध-' (३।१।१३५) इति कः ॥ (२) ॥ ॥ द्वे 'वक्षोजस्य' | चूचुकं तु कुचागं स्यात् विति ॥ चूष्यते । 'चूष पाने' (भ्वा०प०० से ० ) । बाहुलकादुकः | पृषोदरादिः (६|३|१०९ ) | 'चूचु' इत्यव्यक्तं कायति पीयमानम् । 'अन्येभ्योऽपि –' (वा० ३।२।१०१ ) इति डः ॥ (१) ॥ * ॥ कुचस्याग्रम् ॥ (२) || 'चूचुको ना | कुचाननम्' इति रत्नकोषः ॥ * ॥ द्वे 'स्तनाग्रस्य' । १ पिचण्डः ‘पिचण्डो जठरे प्रोक्तः पशोरवयवेऽपि च' इति हैमः इति वा पाठः । परंतु सटीक हैमपुस्तके नोपलभ्यते ॥ । २२९ न ना कोडं भुजान्तरम् ॥ ७७ ॥ नेति ॥ क्रुज्यते । 'क्रुड वाल्पेऽदने' ( तु० प० से ० ) । घञ् (३|३|१९ ) । मुकुटस्तु – क्रोडति घनीभवति । 'कुड़ घनत्वे' | अच् (३ | १ | १३४) | इत्याह । तन्न । घनत्वा- र्थस्य ऋदुपधत्वात् । उदुपधत्वेऽपि कुटादित्वेनाचि गुणासं- भवाञ्च | 'क्रोडः कोले शनौ क्रोडमक्के इति हैमः । 'कोड: शनौ सूकरे ना, न पुमानङ्करक्षसोः' इति मेदिनी ॥ (१) ॥*॥ भुजयोरन्तरम् ॥ (२) ॥ ॥ द्वे 'अङ्कस्य ॥ उरो वत्सं च वक्षश्च उरविति ॥ इयर्ति । 'ऋ गतौ' ( जु०प० अ०) । 'अ- र्तेरुच्च' (उ० ४११९५) इत्यसुन्, उरादेशः किञ्च । 'उरो वक्षसि मुख्ये स्यात्' इति हैमः ॥ ( १ ) ॥ ॥ वदति साम- र्थ्यम् । 'वद व्यक्तायां वाचि' (भ्वा०प० से ० ) | ‘बद स्थैर्ये' (भ्वा०प० से ० ) वा । ' वृतृवदिहनि - ' ( उ० ३१६२ ) इति सः । 'वत्सः पुत्राहिवर्षयोः । तर्णके नोरसि क्लीबम्' इति मेदिनी । 'पुत्रादौ तर्णके वर्षे वत्सो वत्सं तु वक्षसि ' इति रुद्रः ॥ ( २ ) ॥ ॥ वक्षति | 'वक्ष संघाते' (भत्रा०प० से ० ) । असुन् ( उ० ४|१८९ ) ॥ ( ३ ) ॥ ॥ त्रीणि 'उ- रसः' ॥ - पञ्चापि वत्सस्य – इत्यन्ये ॥ । पृष्ठं तु चरमं तनोः । प्रिति ॥ पृष्यते 'पृषु सेचने ' ( भ्वा० प ० से ० ) । 'ति- थपृष्टगूथ -' ( उ० २११२) इति साधु । 'पृष्ठं चरममात्रे स्याद्देहस्यावयवान्तरे' ( इति मेदिनी) ॥ (१) ॥*॥ एकं 'देह- पश्चाद्भागस्य' ॥ स्कन्धो भुजशिरोंऽसोऽस्त्री स्केति ॥ स्कद्यते । 'स्कन्दिर् गतिशोषणयोः' ( भ्वा० प० अ० ) । घञ् (३।३।१९ ) | 'स्कन्देश्च स्वाङ्गे' (उ० ४। २०७) इति बाहुलकादनसुन्यपि धः । 'स्कन्धः प्रकाण्डे कायोंऽसे विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च' इति हैमः ॥ ( १ ) ॥ ॥ भुजस्य शिरः ॥ ( २ ) ॥ ॥ अस्यते स- माहन्यते भारादिना । ' अंस समाघाते' ( चु० उ० से० ) । घञ् (३।३।१९ ) यद्वा अमति, अभ्यते, वा । ‘अम गतौ' ( भ्वा० प० से ० ) । 'अमे: सन्' ( उ० ५/२१) । 'अंसः स्कन्धे विभागे स्यात्' इति हैमः ॥ (३) ॥ * ॥ त्रीणि 'भुज- शिरसः' ॥ संधी तस्यैव जत्रुणी ॥ ७८ ॥ समिति ॥ जायते बाहुरस्मात् । 'जवादयश्च' ( उ० ४|१०२) इति साधु ॥ (१) ॥ * ॥ एकम् 'अंसकक्षयोः संधेः' ॥ बाहुमूले उभे कक्षौ बेति ॥ कष्यते । 'कष हिंसायाम्' (भ्वा० प० से० )
पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२३६
दिखावट