पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्गः ६ ] करोति क्विप् (३।२।७६) १ तुक् (६।१।७१) ॥ ( २ ) ॥ ॥ 'करण्डी तु महास्नायुः, कालेयं कालखण्डके' इति रभसः ॥*॥ द्वे 'कुक्षेर्दक्षिणभागस्थमांसखण्डस्य' 'कलेजा' इति ख्यातस्य ॥ व्याख्यासुधाख्यव्याख्यासमेतः । सृणिका स्यन्दिनी लाला स्त्रिति ॥ सरति ‘सृवृषिभ्यां कित्' ( उ० ४९४९) इति निः । ‘संज्ञायां कन्’ (५।३।७५) ॥ * ॥ 'सर्तेर्नुम् च ' ( उ० ४।२३) ईकन् कित्त्वं नुम् च । इति ( सृणीका ) दीर्घम- ध्यापि ॥ (१) ॥ * ॥ अवश्यं स्यन्दते । 'आवश्यका-' (३| ३।१७०) इति णिनिः । ङीप् (४॥१॥५) ॥ (२) ॥॥ लालयते । 'लल ईप्सायाम्' चुरादिः । अच् (३।१।१३४) ॥ (३) ॥ ॥ त्रीणि 'लाळ' इति ख्यातायाः ॥ दूषिका नेत्रयोर्मलम् | द्विति ॥ दूषयति । 'दुष वैकृत्ये' ( दि० प० अ० ) ण्यन्तः । ‘दोषो णौ’ (६।४।९०) इत्यूलम् | बुल् (३१॥ १३३)। ‘अच इः’ (उ० ४।१३९) । 'कृ' (०४१४५ इति ङीष् वा । स्वार्थे कन् (ज्ञापि० ५९४१५) अपि । 'पिच्चो - ण्डकं नेत्रमलं दूषी च दूषिकापि च ' इति वाचस्पतिः ॥*॥ ‘कषिदूषिभ्यामीकन्’ ( उ० ४११६) इति 'दूषीका' अपि ॥ (१) ॥*॥ एकम् 'नेत्रमलस्य' || मूत्रं प्रस्रोवः म्विति ॥ मूत्र्यते । ‘मूत्र प्रस्रवणे' ( चु० उ० से ० ) 1 घञ् (३॥३॥१९) ॥ (१) ॥ * ॥ प्रसूयते | 'सु प्रस्रवणे, ( भ्वा० प० अ० ) । 'प्रे दुस्तुसुव:' (३।३।२७) इति घञ् । करणे तु परत्वाहयुट्प्रसङ्गः ॥ (२) ॥ ॥ द्वे 'मूत्रस्य' ॥ उच्चारावस्करौ शमलं शकृत् ॥ ६७ ॥ गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविषौ स्त्रियौ । १ - इदं तु न प्रकृतोपयोगि ॥ अमर० २९ २२५ इतीषन् किञ्च । 'उदोष्ठ्यपूर्वस्य' (७११1१०२) ॥ (६) ॥ * ॥ वर्चते, वर्च्यते वा । 'वर्च दीप्तौ ' ( भ्वा० आ० से ० ) । अ- सुन् ( उ० ४११८९ ) | कुत्सायां कनू (५१३१७४) | (७) ॥ * ॥ वितिष्ठते उदरे । अनया वा पुरुषः । 'आतश्चोपसर्गे' ( ३ | १ | १३६) इति कः । अङ् ( ३ | ३|१०६) वा । 'उप- सर्गात् - ' (८२३१६५) इति षत्वम् ॥ (८) ॥ ॥ वेवेष्टि। 'विष्ट व्याप्तौ' ( जु०प० अ० ) । क्विप् (३।२।१७८) ॥*॥ ('विश्' इति ) तालव्यान्तपाठे विशति | 'विश प्रवेशने' (तु प०अ० ) । विप् ( ३।२।१७८ ) | (९) ॥॥ नव 'वि- ष्ठायाः ॥ स्यात्कर्परः कपालोऽस्त्री उच्चेति ॥ उच्चार्यते सज्यते । 'चर गतौ ' ( भ्वा०प० से ० ) | ण्यन्तः । घञ् ( ३ |३|१९) अच् (३१३१५६) वा ॥ (१) ॥ ॥ अवकीर्यते अधः क्षिप्यते । 'कृ विक्षेपे' ( तु० प० से० ) 'ऋदोरप्' (३|३|५७) | 'वर्चस्केऽवस्करः' (६ | १९१४८) इति सुट् ॥ ( २ ) || शाम्यति, शम्यते वा । 'शकिशम्योर्नित' ( उ० ११११२) इति कलः । - 'शकि- शमिवहिभ्योऽलः' इति मुकुटोपन्यस्तमपाणिनीयम् ॥ (३) ॥ * ॥ शक्नोति, शक्यते वा निःसर्तु निःसारयितुं वा । ‘शकेर्ऋतिन्’ (उ० ४/५८ ) ॥ ( ४ ) ॥ ॥ गूयते | ‘गुङ् शब्दे' (भ्वा० आ० अ० ) । 'गु पुरीषोत्सर्गे' (तु०प० अ० ) वा । 'तिथपृष्ठगूथ - ' ( उ० २११२) इति साधुः ॥ (५) ॥*॥ पिपर्ति शरीरम् । ‘पॄ पालनपूरणयोः' (जु० प० से ० ) । 'ऋतू- भ्यामीषन्’ (उ० ४।२६) । ‘भ्यां किच' (उ० ४२७) स्यादिति ॥ कल्पते | 'कृपू सामर्थ्य' (भ्वा० आ० से ० ) बाहुलकादरः, लवाभावश्च । ('कर्परस्तु कटाहे स्याच्छन भेदकपालयोः' इति हैमः ) ॥ (१) ॥*॥ कं पालयति । 'कर्मण्यण' (३।२।१ ) । कम्पते । 'कपि चलने' ( भ्वा० आ० से०) । 'तमिविशि - ' ( उ० १११८) इति कालन् । 'कपि’ इति निर्देशान्नलोपः । आगमशास्त्रस्यानित्यत्वं वा । 'कपा- लोऽत्री शिरोऽस्ति स्यात् घटादेः शकले व्रजे' (इति मेदिनी) ॥ (२) ॥ ॥ द्वे 'शिरोस्थिखण्डस्य || कीकसं कुल्यमस्थि च ॥ ६८ ॥ कीति | 'कि' इति कसति । 'कस गतौ' ( भ्वा०प० से ० ) | अच् (३॥ १ ॥ १३४ ) | 'कीकसः कृमिजातौ स्यात्पुंसि कुल्ये नपुंसकम्' (इति मेदिनी) ॥ (१) ॥*॥ ‘सजातीय- गणे गोत्रे देहेऽपि कथितं कुलम्' इति विश्वः । कुले भवम् । साधु वा । दिगादित्वात् (४१३१५४) यत् । 'तत्र 'कुल संस्त्याने' (भ्वा०प० से ० ) । अझ्यादिः ( उ० ४|११२) । साधु: ' (४|४|९८) इति वा । कोलति, कुल्यते 'कुल्यः कुलोद्भवे मान्ये कुलस्यातिहितेऽपि च । कुल् स्यात्कीक से ऽप्यष्टद्रोणीशूर्पामिषेषु च । पयःप्रणालीसरितोः कुल्या जीवन्तिकौषधौ' इति विश्वः ॥ ( २ ) ॥ ॥ अस्यते । ‘असिमञ्जिभ्यां क्थिन्' (उ० ३ | १५४) ॥ (३) ॥ ॥ त्रीणि 'अस्थिमात्रस्य' | स्याच्छरीरास्नि कङ्कालः स्यादिति ॥ 'कम्' इत्यव्ययं सुखे शिरसि च । कं काल- यति । 'कल क्षेपे' चुरादिः | अच् (३।१।१३४) । यद्वा कङ्कते। 'ककि गतौ ' ( भ्वा० आ० से० ) । बाहुलकात्का- लन् ॥ (१) ॥ ॥ एवं 'त्वयांसरहितशरीरास्नः ॥ पृष्ठास्थि तु कशेरुका। एरङ् चास्य' (उ० ११८८) इत्यूः । ‘संज्ञायां कन्’ (५॥३॥ पृष्ठेति ॥ कं वायुं शृणाति । केन शीर्यते वा । 'के श्रं ७५) | ‘केऽणः' (७|४|१३) इति ह्रस्वः । यद्वा कशति । कश्यते वा । 'कश शब्दे () बाहुलकादेरु: ।