पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्ग: ६ ] व्याख्या संज्ञापूर्वकत्वात् 'दस्ति' (६ | ३ | १२४) इति दीर्घोन ॥ (२) ॥ * ॥ द्वे 'पित्तस्य' || सुधाख्यव्याख्यासमेतः । कफः श्लेष्मा केति ॥ केन जलेन फलति । 'फल निष्पत्तौ' ( स्वा० प० से॰ ) । ‘अन्येभ्योऽपि - (वा० ३।२।१०१ ) इति डः । यद्वा के शिरसि फणति, फक्कति, वा । प्राग्वत् डः ( वा० ३।२।१०१ ) ॥ (१) ॥ * ॥ श्लष्यति | 'श्लिष आलिङ्गने' ( दि० प० अ० ) । 'सर्वधातुभ्यो मनिन् ' ( उ० ४१४५ ) ॥ (२) ॥ ॥ द्वे 'कफस्य' ॥ स्त्रीति ॥ त्वचति । विप् (३।२।१७८) यद्वा स्त्रियां तु त्वगसृग्धरा ॥ ६२ ॥ 'त्वच संवर ( उ०प० से० ) । तनोति । 'तनोतेरनश्च वः' ( उ० २।६३) इति चिक् च । 'त्वक् स्त्री चर्मणि वल्के च गुड स्वचि विशेषतः' ( इति मेदिनी ) ॥ * ॥ पुंसि - ' (३|३|११८) इति घे 'त्वच' इत्यदन्तोऽपि । त्वक्त्वचचोचशब्दाः स्यु- र्बल्के चर्मणि पत्रके’ इति धरैणिः ॥ (१) ॥ ॥ असृजो र- तस्य घरा ॥॥ 'असंग्धरा' इत्येके ॥ ( २ ) ॥ * ॥ द्वे 'चर्मणः' ॥ पिशितं तरसं मांसं पललं ऋव्यमामिषम् । पिशीति | पिंशति । 'पिश अवयवे' ( तु०प० से० ) ‘पिशेः किच्च' ( उ० ३१९५ ) इतीतन् । पिश्यते स्म वा क्तः (३॥ २।१०२) । 'पिशितं मांसं पिशिता मांसिका' इति हैमः ॥ (१) ॥*॥ ‘तरो जवे बले’ इति हैमः। तरो बलमस्त्यस्मिन् । अर्शआयच् (५॥२॥१२७) ॥ (२) ॥ ॥ मन्यते । 'मन ज्ञाने' ( दि० आ० अ० ) | मनेश्व' ( उ० ३६४ ) इति सः ॥ (३) ॥ * ॥ पलति, पल्यते वा । अनेन वा । 'पल गतौ' ( भ्वा०प० से० ) । 'वृषादिभ्यश्चित् ' ( उ० ११०६ ) इति कलः । ‘पललं तिलमिश्रे स्यात् पललं पिशितेऽपि च' इति शाश्वतः । 'पललं पङ्कमांसयोः | तिलचूर्णे पल- लस्तु राक्षसे” इति हैमः ॥ (४) ॥ ॥ क्लवते | क्लव्यतेऽस्माद्वा । ‘क्लव भये' ( ) | न्यन्तो मित् । 'अचो यत्' (३।१।९७) रलयोरेकत्वम् । — क्रूयते । 'क्रुङ् गतौ' ( भ्वा० आ० अ० ) - इति स्वामी ॥ (५) ॥*॥ आमिषति | 'मिष स्पर्धायाम्' ( तु० प० से० ) । मेषति वा । 'मिषु सेचने' (भ्वा०प० से० ) । ‘इगुपध-’ (३।१।१३५) इति कः ॥ ( ६ ) ॥ ॥ षद 'मां सस्य' ॥ उत्ततं शुष्क मांसं स्यात्तवल्लूरं त्रिलिङ्गकम् ॥ ६३ ॥ उत्तेति ॥ उत्तप्यते स्म । 'तप संतापे' (भ्वा०प० से ० ) । तः (३।२।१०२ ) । 'उत्तप्तं चञ्चले शुष्कमांस संतप्तयोरपि' इति हैमः ॥ (१) ॥ *॥ शुष्कं च तन्मांसं च ॥ ( २ ) ॥ * ॥ १ –'धरणिः' इत्येतत्स्थाने, 'रलकोषः' इति वा पाठः ॥ २२३ बलते, वलयते वा 'वल संवरणे' ( भ्वा० आ० से ० ) । खर्जा - दित्वात् ( उ० ४८९० ) ऊरः । 'वरं स्याद्वनक्षेत्रे, वाह- नोषरयोरपि । वल्लरा त्रिषु संगुष्कमांसशूकरमांसयोः' इति मेदिनी ) ॥ (३) ॥ * ॥ त्रीणि 'शुष्कमांसस्य' ॥ रुधिरेऽसृग्लोहितास्त्ररक्तक्षतजशोणितम् । रुधीति ॥ रुणद्धि | रुध्यते वा । 'रुधिर् आवरणे' ( रु० उ० अ० ) । 'इषिमदिमुदि- ' ( उ० ११५१ ) इति किरच् । 'रुधिरोऽङ्गारके पुंसि क्लीबं तु कुङ्कुमासृजोः' (इति मेदिनी ॥ (१) ॥ ॥ अस्यते । 'असु क्षेपणे' ( दि० प० से ० ) | बाहु- | लकाजः | न सृजति वा । 'सृज विसर्गे ( तु०प० अ० ) । किप् | 'क्विन्प्रत्ययस्य -' (८२१६२) इति कुः । 'किन् प्रत्ययो यस्मात्' इति बहुव्रीहिः । 'ऋत्विग्दटक्सक्- (३/२/५९ ) इति हि सृजेः किन् विहितः ॥ (२) ॥ ॥ रोहति | रुह्यते वा । 'रहे रथ लो वा' ( उ० ३।९४ ) इतीतच् । 'लोहितं रक्तगोशीर्षे कुङ्कुमे रक्तचन्दने । पुमान्नदान्तरे भौमे वर्णे च त्रिषु तद्वति' ( इति मेदिनी ) ॥ (३) ॥ * ॥ अस्यते | ‘बहु- लमन्यत्रापि' इति रक् । 'अस्रः कोणे कचे पुंसि क्लबमश्रुणि शोणिते' ( इति मेदिनी ) ॥ (४) ॥ * ॥ रज्यते स्म । 'रज रागे ( स्वा० उ० अ० ) । क्तः (३।२।१०२) । 'रक्तोऽनु- रक्ते नील्यादिरञ्जिते लोहिते त्रिषु । क्लीवं तु कुङ्कुमे ताम्रे प्राची - नामलकेऽसृजि' ( इति मेदिनी ) ॥ ( ५ ) ॥ ॥ क्षताज्जातम् | | डः (३।२।९८) ॥ (६) ॥ ॥ शोणति स्म । 'शो वर्णगत्योः' ( वा० प० से ० ) । 'गत्यर्था - ' (३|४|७२) इति क्तः । शोणते - इति मुकुटश्चिन्त्यः ॥ (७) ॥ * ॥ सप्त 'रक्तस्य' ॥ बुक्काऽग्रमांसम् विवति ॥ वुक्कयते स्वादुत्वान्मृग्यते । 'वुक भषणे' ( भ्वा० प० से ० ) | घञ् (३|३|१९) । 'शोणितेषु स्त्रियां वृक्का बुक्कं सुरसमद्वयोः' इति रभसः । 'उरस्थपि बुक्कायां हृदयं मानसेऽपि च ' इति त्रिकाण्डशेषः ॥ (१) ॥ ॥ अयं मुख्यं मांसम् ॥ (२) ॥ ॥ द्वे 'हृदयान्तर्गतमांस- विशेषस्य ॥ हृदयं हृत् हिति ॥ हरति । ह्रियते वा । 'वृहोः षुक्दुकौ च ' ( उ० ४।१०० ) इति कयन् । 'हृदयं मानसे वुक्कोरसोरपि नपुंस- कम्' ( इति मेदिनी ) ॥ ( १ ) ॥॥ बाहुलका केवलोऽपि दुक् ॥ (२) ॥*॥ ‘पद्मकोशप्रतीकाशं रुचिरं चाप्यधोमुखम् । हृदयं तद्विजानीयाद्विश्वस्यायतनं महत्' इति ॥ ॥ द्वे 'हृद- यकमलस्य । चत्वारि पर्याया इत्येके || १ - है मनाममालायामपि 'बुक्का हृद् हृदयं वृक्का सुरसं च तद्- ग्रिमम्' इत्युपलभ्यते । 'स्त्रियां बुक्का बुक्कस्तु समयोर्द्वयोः' इति पाठान्तरम् ॥