पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्ग: ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २१९ अ० ) ‘एरच्’ (३।३।५६) | घः (३|३|११८) वा ॥ (७) ओषधिभेदे स्यादुत्कृते लग्विवर्धने' इति ः ॥ (१) ॥*॥ ॥ * ॥ सप्त 'रोगस्य' ॥ श्वयति अनेन । 'टु ओश्वि गतियोः' ( भ्वा०प० से० ) । ‘वितोऽथुच्' (३|३१८९) ॥ (२) ॥ ॥ यत्तु – 'शु गतौ' । 'यूथादयश्च' – इति मुकुटेनोक्तम् | तन्निर्मूलम् ॥ (३) ॥ * ॥ त्रीणि 'शोथस्य' || क्षयः शोषश्च यक्ष्मा च क्षय इति ॥ क्षयति देयम् । 'क्षि क्षये' ( भ्वा० पं० अ० ) अन्तर्भावितण्यर्थः । अच् (३|१|१३४) । 'यो गेहे कल्पान्तेऽपचये रुजि' इति हैमः ॥ (१) ॥ * ॥ शोषयति । 'शुष शोषणे' ( दि० प० अ० ) | अच् (३ | १|१३४)। 'शोष: शोषणयक्ष्मणोः' इति हैमः ॥ ( २ ) ॥ ॥ यक्षयते, यक्ष्यते, वा । ‘यक्ष पूजायाम् ' चुरादिः । मनिन् ( उ० ४१ १४५) ॥ (३) ॥*॥ त्रीणि 'राजयक्ष्मणः' ॥ प्रतिश्यायस्तु पीनसः ॥ ५१ ॥ प्रेति ॥ प्रतिक्षणं श्यायते । 'श्यैङ् गतौ' ( भ्वा० आ० अ० ) । 'श्याध्यधा-' (३ | १ | १४१) इति णः ॥॥ प्रति- श्यायतेऽनया । 'आतचोपसर्गे (३|३|१०६) इत्यङि 'प्र- तिश्या’ अपि ॥ (१) ॥*॥ पीनं स्थति, सायति वा । 'बोs- न्तकर्मणि’ (दि॰ प॰ अ॰) । 'क्षै क्षये' (भ्वा०प०अ० ) वा । ‘आतोऽनुप–’ (३।२।३) इति कः ॥ ( २ ) ॥ ॥ 'आपी नसः प्रतिश्या स्यात्' इति रभसः ॥ * ॥ द्वे 'नासा- रोगस्य' ॥ स्त्री क्षुत् क्षुतं क्षवः पुंसि स्त्रीति ॥ क्षवणम् । ‘टुक्षु शब्दे ' ( अ० प० से ० ) । संपदादिः (वा० ३।३।१०८ ) ॥ (१) ॥ * ॥ भावे तः (३ | ३।११४) ॥ (२) ॥ ॥ ‘ऋदोरप्' (३|३|५७ ) ॥ (३) ॥*॥ 'स्त्रियां क्षुत् क्षेतं हंछिका' इति रभसः ॥ * ॥ त्रीणि 'छि- क्कायाः' ॥ कासस्तु क्षवथुः पुमान् । केति ॥ कासतेऽनेन । 'कास शब्दकुत्सायाम्' ( भ्वा० आ० से ० ) । 'हलच' (३|३|१२१) इति घन् । ('काश- स्तृणे रोगभेदे’ इति हैमः | 'वाराणस्यां भवेत्कासी क्षवथौ ना तृणेऽस्त्रियाम्' इति तालव्यान्ते रभसाच्च तालव्यान्तोऽपि ) ॥ (१) ॥॥ क्षौत्यनेन । ‘टुक्षु शब्दे ' ( अ० प० से ० ) 'द्वितोऽथुच्' (३।३१८९) । 'क्षवथुः कासे छिक्कायाम्' इति हेमचन्द्रः ॥ (२) ॥ * ॥ द्वे 'कासरोगस्य' | शोफस्तु श्वयथुः शोथः शविति ॥ शवति । 'शव गतौ ' ( भ्वा० प० से ० ) । बाहुलकात् फः । थश्च । 'च्यो:-' (६|३|१९) इत्यूठ् । 'आ द्रुणः’ (६।१।८७) । संज्ञापूर्वकत्वात् 'एत्येध -' (६१११८९) इति न वृद्धिः । यद्वा शवति । 'शु गतौ' ( ) । 'शोफ १-'भुवः क्षुते राजिकायाम्' इत्यपि पाठः | पदस्फोटो विपादिका ॥ ५२ ॥ पेति ॥ स्फुटनम् । 'स्फुट विकसने' ( तु०प० से ० ) । घञ् (३|३|१८) पादस्य स्फोट: । पादौ स्फोटयति वा । 'कर्मण्यण' (३।२।१ ) ॥ (१) ॥ ॥ विपद्यतेऽनया । ‘पद गतौ' ( दि० आ० अ० ) । 'रोगाख्यायां ण्वुल् बहुलम्' (३| ३।१०८) ॥ (२) ॥*॥ द्वे 'पादस्फोटनरोगस्य' | किलाससिध्मे कीति ॥ किलति । 'किल वैयक्रीडनयोः' ( तु० पं० से० ) । 'इगुपध- ' ( ३ | १|१३५) इति कः । अस्यति । 'असु क्षेपणे' ( दि० प० से ० ) | अच् (३|१|१३४ ) | किलं च तदसं च | यद्वा केलनम् | बिदायङ् (३|३|१०४) । किल- मस्त। ( ३ | २|१) | किलेन श्वैत्येन असति वा । 'अस दीप्तौ' (भ्वा० उ० से ० ) | अच् (३|१|१३४) ॥ (१) ॥ * || सिध्यति 'षिधु गल्याम्' ' (संराद्धौ)' ( दि० प० अ० ) | बाहुलकान्मक् | यत्तु - पामादित्वान्म निन्-इति मुकुटः । तन्न । पार्मोदेर्मनिन्ंविधानाभावात् । धातोः पामादिप्रत्य- याभावात् ॥ (२) ॥ * ॥ 'पादस्फोटोsथ त्वक्पुष्पी किलासं सिध्मलीति च ' इति रभसः ॥ * ॥ द्वे 'सेहुवा' इति ख्यातस्यं ॥ कच्छतु पाम पामा विचर्चिका | केति ॥ कषति । 'कष हिंसायाम् ' ( भ्वा० प० से ० ) | 'कषेश्छ च' ( उ० १९८४) इत्यू: ॥ ( १ ) ॥ ॥ पायव्यङ्गम् । 'पै शोषणे' ( भ्वा०प० से० ) | मनिन् ( उ० ४।१४५) । पायते देहोऽस्माद्वा । 'पा रक्षणे' ( अ० प० अ० ) । पिवति देहं वा ॥ (२) ॥ * ॥ स्त्रियां तु 'मनः' (४१११११) इति न ङीप् | 'डावुभाभ्याम् -' (४|१|१३) इति डाव् वा ॥ (३) ॥॥ विचर्च्यते । 'चर्च अध्ययने' ( चु० उ० से ० ) । 'रोगाख्यायां ण्वुल्-' (३|३|१०८ ) ॥ ( ४ ) || || चत्वारि 'खसुरो- गस्य' || कण्डूः खर्जूश्च कण्ड्या केति ॥ कण्डूयनम् । 'कण्डूज् गात्रविघर्षणे' (क- ण्ड्वादिः ) । 'कण्ड्डादिभ्यो यक्' (३|१|२७) संपदादि किप् १ - सटीक हैमपुस्तके तु नोपलभ्यते । २- 'सिध्मं किलासं त्वक्पुष्पं सिम' इति हैमनाममालोक्तनान्तसिध्माशब्दस्य मनिन- मन्तरा साधनाभावेन तत्र मनिनथैम् 'पामादिवन्मनिन्' इत्युत्त- मपाठस्य संभवे लेखक प्रमादजातपाठेन खण्डनकरणं स्वीयमेधाति शयबोधनाय ||