पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्ग: ६ ] कानीनः कन्यकाजातः सुतः कानीति ॥ कन्याया अपत्यम् । 'कन्यायाः कनीन च' (४।१।११६) इत्यण् ।‘कानीनः कन्यकासुते । कर्णे व्यासे' इति हेमचन्द्रः ॥ (१) ॥ ॥ कन्यकया जातः ॥ ( २ ) ॥ * ॥ 'अनूढापत्यस्य' || अथ सुभगासुतः । सौभागिनेयः अथेति ॥ सुभगायाः सुतः ॥ (१) ॥ ॥ सुभगाया अप- त्यम् । 'कल्याण्यादीनामिनङ्' (४|१|१२६) इति ढक् । 'हृद्भ- ग–' (७।३।१९) इत्युभयपदवृद्धिः ॥ ( २ ) ॥ ॥ द्वे 'सुभ- गापुत्रस्य' | व्याख्यासुधाख्यव्याख्यासमेतः । स्यात् पारस्त्रैणेयस्तु परस्त्रियाः ॥ २४ ॥ स्यादिति ॥ परस्त्रिया अपत्यम् । प्राग्वत् । 'अनुशति- कादीनां च' (७।३।२०) इत्युभयपदवृद्धिः ॥ ( १ ) ॥ * ॥ एकं 'परभार्यापुत्रस्य' || पैतृष्वसेयः स्यात् पैतृष्वस्त्रीयश्च पितृष्वसुः | सुतः पैत्रिति ॥ पितृष्वसुरपत्यम् । ‘ढकि लोपः’ (४।१।१३३) ॥ (१) ॥*॥ ‘पितृष्वसुरछण् (४|१|१३२) ॥ (२) ॥ * ॥ द्वे 'पितृष्वसुः सुतस्य' । मातृष्वसुश्चैवम् मात्रिीति || मातृष्वसुरपत्यम् | 'मातृष्वसुश्च' (४|१| १३४) इति प्राग्वत् । (मातृष्वसेयः । मातृष्वस्त्रीयः) ॥ (१) ॥*॥ (२) ॥*॥ द्वे ‘मातृष्वसुः सुतस्य' || वैमात्रेयो विमातृजः ॥ २५ ॥ वैमेति ॥ विरुद्धा माता । 'प्रादयो गता - ' ( वा० २१ १८) इति समासः । विमातुरपत्यम् । शुभ्रादित्वात् (४|१| १२३) ढक् ॥ (१) ॥*॥ विमातुर्जातः । 'पञ्चम्याम जातौ' ( ३ | २ | ९८ ) इति डः ॥ (२) | || द्वे 'अपरमातृसुतस्य' ॥ अथ बान्धकिनेयः स्याद्वन्धुलश्चासतीसुतः । कौलटेयः कौलटेरः अथेति ॥ बन्धक्या (४।१।१२६) इति ढक् ॥ अपत्यम् । 'कल्याण्यादीनामिनङ् ( १ ) ॥ * ॥ बन्धूनू लाति ॥ (२) ॥ * ॥ असल्याः सुतः ॥ (३) ॥॥ कुटलाया अपत्यम् । ‘स्त्रीभ्यो ढक्’ (४।१।१२०) ॥ (४) ॥ * ॥ ‘क्षुद्राभ्यो वा' (४॥१॥१३१) इति ढक् ॥ (५) ॥ ॥ यत्तु - 'कुलटाया वा' (४।१।१२७) इति ढक्-~-इति मुकुटः | तन्न । अनेनेनो वि. कल्पनात् ॥ * ॥ पश्च 'कुटलायाः पुत्रस्य' || भिक्षुकी तु सती यदि ॥ २६ ॥ तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः । भीति ॥ कुटलाया अपत्यम् । 'कुलटाया वा' (४।१।१२७) इतीनङ् वा 'स्त्रीभ्यो ढक्' (४|१११२०) । क्षुद्रात्वाभावान्न २११ ढक् | अङ्गहीना शीलहीना हि क्षुद्रा ॥ (१) ॥ ॥ (२) ॥*॥ द्वे 'सत्या भिक्षार्थं गेहं गेहमटन्त्याः पुत्रस्य || आत्मजस्तनयः सूनुः सुतः पुत्रः आत्मेति ॥ आत्मनो देहाज्जातः । 'पञ्चम्याम् -' (३|२| ९८) इति डः ॥ (१) ॥ * ॥ तनोति कुलम् | तन्यते वा । 'तनु विस्तारे' ( तु० उ० से० ) । 'वलिमलितनिभ्यः कयन्' (उ० ४।९९) ॥ (२) ॥ * ॥ सूयते | 'बुङ् प्राणिप्रसवे' ( दि० आ० से ० ) । 'सुवः कित्' ( उ० ३१३५) इति नुः । 'सूनुः पुत्रेऽनुजेऽर्के ना' ( इति मेदिनी ) ॥ (३) ॥*॥ सूयते स्म । 'षु प्रसवे' (भ्वा०प० अ० ) । तः ( ३१२ १०२) ।—सु. वति - इति स्वामी । तन्न | दीर्घश्रवणप्रसङ्गात् । तस्याप्राप्तेश्च । ‘सुतस्तु पार्थिवे पुत्रे, रूयपत्ये तु सुता स्मृता' (इति मेदिनी ) ॥ ( ४ ) ॥ ॥ पुनाति, पूयते, वा 'पूज् पवने' ( क्या० उ० से ० ) । 'पुवो हस्वश्च' ( उ० ४११६५) इति ऋः । यद्वा पुन्नरकात्रायते । 'सुपि' (३।२।४) इति कः । 'पुन्नान्नो नरका- यस्मात् पितरं त्रायते सुतः । तस्मान् 'पुत्र' इति प्रोक्तः स्वय- मेव स्वयंभुवा' (मनुः ९॥१३८) ॥ (५) ॥॥ पञ्च पुत्रस्य' || स्त्रियां त्वमी ॥ २७ ॥ आहुर्दुहितरं सर्वे स्त्रियामिति ॥ अभी आत्मजायाः स्त्रियां वर्तमानाः सन्तो दुहितरं वदन्ति शार्ङ्गरवादित्वात् (४|१|७३) डीनि 'पुत्री' | - गौरादौ (४|११४१) 'पुत्री' - इति स्वामिनः प्रसादः । 'सुता तु दुहिता पुत्री' इति त्रिकाण्डशेषः ॥ ( ५ ) ॥ ॥ दोग्धि । 'दुह प्रपूरणे' ( अ० उ० अ० ) । दहति । 'दह भस्मीकरणे' (भ्वा०प० अ०) । 'नटनेट ' ( उ० २ १९५ ) इति साधु । खस्रादित्वात् (४|१|१०) न ङीप् (४/११५) ॥ (६) ॥*॥ अपत्यं तोकं तयोः समे । अपेति ॥ न पतन्ति पितरोऽनेन । 'पत्ऌ गतौ' (भ्वा० प० से ० ) । बाहुलकाद्यः | अध्यादिः ( उ० ४|११२ ) वा ॥ (१) ॥*॥ तौति । ‘तुः’ सौत्रो हिंसावृत्तिपूर्तिषु । बाहुलकात् कः । 'तोकं संतानसुतयोः' इति हैमः ॥ ( २ ) ॥ * ॥ तयो स्तनयदुहित्रोः | समे समानलिङ्गे ॥ स्वजाते त्वौरसोरस्यौ निर्मितः । ‘उरसोऽण् च' (४|४|९४) इत्यण् ॥ (१) ॥*॥ स्वेति । 'उरो वक्षसि च श्रेष्ठे' ( इति मेदिनी ) । उरसा चाद्यत् ॥ (२) ॥ ॥ स्वस्माज्जातः, इति कुण्डगोलकादिवार णम् ॥ ॥ द्वे 'स्वस्माजातस्य पुत्रस्य' || १ - स्वस्मात्स्व पाणिगृहीत्यां जातः । तथा च मनुः - 'स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम् । तमौरसं विजानीयात् पुत्रं व्याप्तिः । अतएवाभिप्रेत्य मूलकृतापि 'स्वीयायाम्' इति 'स्वकीयः' प्राथमकल्पिकम्' (९ | ११६) इति । नातः परभार्यायां स्वजन्येऽति- | इति च परित्यज्य 'स्वाभ्यां जाते' इत्यर्थंक मेवोक्तम् ॥