पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-अमरकोषः । [ द्वितीयं काण्डम् २१० ‘इतश्चानिञः’ (४।१।१२२) इति ढक् | आत्रेयीवागम्यत्वात् । (वा० ४२१४० ) ॥ (१) ॥ ॥ गर्भिणीनां समूहः । ‘भिक्षा- 'आत्रेयो मुनिरात्रेयी पुष्पवत्यां सरिद्भिदि' इति हैमः || (४) ॥ ॥ मलमस्त्यस्याः । इनि: (५|२|११५) | 'मलिनं कृष्णदोषयोः । मलिनी रजस्खलायाम्' इति हैमः ॥ (५) ॥*॥ पुष्पं रजोऽस्त्यस्याः । मतुप् (५१२१९४) ॥ ( ६ ) ॥ ॥ ऋतुरस्त्यस्याः । मतुप् (५।२९४) ॥ (७) ॥ ॥ उदकमर्हति । 'संज्ञायाम्' ( ) इति यत् ॥ (८) ॥ ॥ अष्टधै 'रज- स्वलायाः ॥ | दिभ्योऽण् (४|२|३८) 'भयाढे तद्धिते' ( वा ० ६ |३|३५ ) इति पुंवद्भावः । 'नस्तद्धिते' (६|४|१४४) इति टेलोपे प्राप्ते 'इनण्यनपत्ये' (६|४|१६४) इति प्रकृतिभावः ॥ (१) ॥*॥ युवतीनां समूहः | भिक्षादिभ्योऽण् (४|२|३८) । ‘भस्याढे तद्धिते' ( वा० ६|३|३५ ) इति पुंवद्भावः | यौतेः शत्रन्तात् 'उगितच' (४ | ११६) इति ङयन्तो युवतीशब्दोऽयम् । 'यून- स्तिः' (४।१।७७) इति त्यन्तस्य तु अणि (४ | २ | ३७) विव- क्षिते पुंवद्भावे ( वा० ६|३|३५) 'अन्' (६|४|१६७) इति प्रकृतिभावे च 'यौवनम्' इत्येव रूपम् । नच – भिक्षादिषु (४१२३८) 'युवति' शब्दपाठसामर्थ्यान्न पुंवत्त्वम् । अन्यथा पुंवद्भावेन तैर्निवृत्तावनुदात्तादित्वाभावात् 'अञः' (४१२२४४) अप्राप्तौ 'तस्य समूहः' (४|२|३७) इत्यणि सिद्धे भिक्षादिपा- ठेवैयर्थ्यात् — इति वाच्यम् । भिक्षादिषु ‘युवति' शब्दपाठस्य ('भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात्प्रत्यय- विधौ' इत्यादिग्रन्थेन) भाष्ये (४२३८) प्रत्याख्यानात् । एतेन – 'युवत्या अपुंवत्' इति गणपाठात् - इति स्वामी - युवतीशब्दस्य भिक्षादिषु पाठाङ्गीकारकृतो मतभेदः इति मुकुटश्च प्रत्युक्तः ॥ (१) ॥*॥ एकैकम् 'समूहस्य' ॥ पुनर्भूर्दिधिषूरूढा द्विः - पुनरिति ॥ पुनर्भवति संस्कृता । किप् (३ | २|७६ ) ॥ (१) ॥ ॥ दधाति पापम् । 'डुधाञ् धारणपोषणयोः' (जु० उ० अ० ) । धिष्यते । 'धिषशब्दे' (जु०प० से० ) । 'अन्दूहम्भू - ' ( उ० १|९३ ) इति साधुः । यद्वा दिधिं धैर्य स्यति । 'षोऽन्त कर्मणि' (दि०प०अ०) । प्राग्वत् ॥ (२) ॥*॥ द्वौवारौ 'ऊढा | 'द्वित्रिचतुर्भ्य: सुच् (५॥४॥१८) 'अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः' ( याज्ञवल्क्यः ११६७ ) ॥ * ॥ द्वे 'द्विवारं वृतायाः ॥ स्याद्रजः पुष्पमार्तवम् । - स्यादिति ॥ रज्यतेऽनेन । 'भूरजिभ्यां कित्' ( उ० ४। २१६ ) इल्यसुन् । 'रजः क्लीवं गुणान्तरे | आर्तवे च परागे च रेणुमात्रे च दृश्यते’ (इति मेदिनी ) ॥ (१) ॥ * ॥ पुष्यते । ‘पुष्प विकसने’ ( दि० प० से० ) । घञ् (३।३।१९ ) | पुष्पं विकासिकुसुमस्त्रीरजःसु नपुंसकम्' (इति मेदिनी ) ॥ (२) ॥ *॥ ऋतुरेव । प्रज्ञाद्यण् । (५४३८) 'आर्तव स्त्रीरजे पुष्पे क्लीबं स्यादृतुजे त्रिषु’ (इति मेदिनी ) ॥ (३) ॥ ॥ (त्रीणि 'स्त्रीपुष्पस्य' ) ॥ 1 श्रद्धालुहद्वती श्रेति ॥ श्रृद्धत्ते तच्छीला| ‘स्पृहिगृहि- (३३२|१५८) इत्याच् । 'श्रद्धालुहदिन्यां स्त्री श्रद्धायुक्ते च वाच्यवत्' (इति मेदिनी) ॥ (१) ॥* ॥ दोहदं गर्भिण्यभिलाषोऽस्त्यस्याः । मतुप् (५।२।९४) ॥ (२) ॥॥ द्वे (गर्भवशात) 'अभि- लाषविशेषवत्याः' || निष्कला विगतार्तवा ॥ २१ ॥ नीति ॥ 'कलं शुक्रे त्रिष्वजीर्णे नाव्यक्तमधुरध्वनौ' ( इति मेदिनी ) । कलान्निष्क्रान्ता | 'निरादयः कान्ताद्यर्थे ( वा० २१ २११८ ) इति समासः । निर्गतं कलं शुक्रमस्या वा । 'निष्कलं तु कलाशून्ये नष्टवीर्ये तु वाच्यवत्' (इति मेदिनी ) ॥ ( १ ) ॥ ॥ विगतमार्तवं रजोऽस्याः ॥ ( २ ) ॥*॥ द्वे 'रजोहीनायाः' ॥ आपन्नसत्वा स्याहुर्विण्यन्तर्वती च गर्भिणी । आपेति || आपन्नः सत्त्वो जन्तुरनया, अस्यां वा (१) ॥*॥ ‘गुरुस्त्रिलिङ्ग्यां महति दुर्जरालघुनोरपि ' ( इति मेदिनी ) । गुरुर्दुर्जरोऽलघुर्वा गर्भोऽस्त्यस्याः | श्रीयादीनिः (५/२/११६) । संज्ञापूर्वकत्वान्न गुणः (६|४|१४६ ) | यद्वा गर्वति । 'गर्वैरत उच्च' ( उ० २।५४ ) इतीनन् । गौरादिः (४|१|४१) ॥ (२) ॥ * ॥ अन्तरस्त्यस्यां गर्भ: । 'अन्तर्वत्पतिवतोर्नुक्' (४|१| ३२) इति साधुः ॥ (३) ॥* ॥ गर्भोऽस्त्यस्याः | इनिः (५ | १२ | ११५) ॥ (४) ॥*॥ चत्वारि 'गर्भिण्याः' | तस्या दिधिषुः पतिः । तेति ॥ तस्या दिधिष्वाः । दिधिषूमात्मन इच्छति । 'सुप आत्मनः क्यच्' (३।१।८) । विप् (३।२।१७८ ) | पुन- र्भूपतिरुक्तश्च पुनर्भूर्दिधिषूस्तथा' इत्येषोऽप्यूदम्त इति स्वामी ॥ * ॥ मुकुटस्तु ( दिधिषुम् ) हखमाह बाहुलकात् ॥ ( १ ) ॥ * ॥ एकम् 'झूढापत्युः' || मनुस्तु — 'ज्येष्ठायां यद्यनूढायां कन्यायामुयतेऽनुजा । सा चाग्रेदिधिषूज्ञेया पूर्वा तु दिधिषूर्मता' ( ) इत्याह ॥ स तु द्विजोऽग्रेदिधिषः सैव यस्य कुटुम्बिनी २३ । प्रतिरूपको निपातः | समासान्तविधेरनित्यत्वान्न कप् (५॥४॥ स इति ॥ अग्रे प्रधानं दिधिषूर्यस्य । 'अग्रे' इति विभक्ति- १५३) ॥ (१) ॥*॥ द्विजः क्षत्रियादिरपि । 'दिधिषूः परपू- र्वाग्रेदिधिषूस्तत्पुरंधिकः' इति नाममाला ॥*॥ एकं पुनर्भू- ॥ गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे ॥ २२ ॥ गेति ॥ गणिकानां समूहः | 'गणिकायाश्च यञ्ं वाच्यः' | प्रधानभार्यस्य' ॥ 1