व्याख्यासुधाख्यव्याख्यासमेतः । मनुष्यवर्गः ६ ] योः पुंसि, त्रिषु विवाससि' (इति मेदिनी ) ॥ ( १ ) ॥ * ॥ कोट- नम् । ‘कुट कौटिल्ये' ( तु० प० से ० ) | घञ् ( ३ |३।१८)। कोटं वाति । ‘आतोऽनुप-' (३|२|३) इति कः । गौरादिः (४|११४१) ॥॥ 'कोहवी' इति पाठे' 'कुछ छेदने' ( चु० प० से० ) । बाहुलकाद्भुणः ॥ (२) ॥ ॥ द्वे 'ननायाः' ॥ दूतीसंचारिके समे । दूतीति ॥ दवति । 'दु गतौ' (भ्वा० प० अ० ) | दुनोति ‘टु दु उपतापे’ (स्वा० प० अ० ) वा । 'दुतनिभ्यां दीर्घश्च' ( उ० ३।९० ) इति क्तः । गौरादिः (४|१४१) यद्वा दूयते ‘दूङ् परितापे’ (दि० आ० से ० ) | तिच् (३।३।१७४) । दूयन्तेऽनया वा । बाहुलकात् क्तिन् । 'कृत् - ' (ग० ४ | १ | ४५) इति वा ङीष् । गौरादिः (४११॥४१) वा ॥ (१) ॥ * ॥ संचरति । संचारयति, वा । ‘चर गतौ' ( भ्वा०प० से ० ) । ण्वुल् (३|१|१३३) 'संचारिका तु युगले कुट्टनीघ्राणयोरपि ' इति विश्वमेदिन्यौ ॥ (२) ॥ * ॥ द्वे 'दूत्या' ॥ कात्यायन्यर्धवृद्धा या काषायवसनाधवा ॥ १७ ॥ केति ॥ कतस्यापत्यम् । ‘गर्गादिभ्यो यञ्' (४।१।१०५) । 'जनैः सत्कृतवेश्यायाः ॥ 'सर्वत्र लोहितादि-' (४|१|१८) इति फः | ऋषिपत्नीसह शत्वात् । 'कात्यायनो वररुचौ विशेषे च मुनेः पुमान् । काषायवस्त्रविधवार्धजरत्युभयोः स्त्रियाम्' ( इति मेदिनी ) ॥ ( १ ) ॥ * ॥ एकं 'विशेषणत्रयवत्याः' ॥ सैरंध्री परवेश्मस्था स्ववशा शिल्पकारिका । सायिति ॥ सीरं धरति । ‘धृञ् धारणे' (भ्वा० उ० अ०) । मूलविभुजादिकः ( वा० ३।२५ ) बाहुलकान्मुक् | सीरंध्रस्ये- यम् । ‘तस्येदम्’ (४।३।१२१) इत्यण् । शिल्पकरणात् कर्षक स्त्रीव । यद्वा स्वैरं स्वाच्छन्द्रं धरति । प्राग्वत् कः | पृषोद- रादिः (६॥३॥१०९)। गौरादिः । (४|११४१) | 'सैरंध्री परवेश्मस्थशिल्पकृत्स्त्रवशस्नियाम्' इति दन्त्यादौ रभसः || 'चतुःषष्टिकलाभिज्ञा शीलरूपादिसेविनी । प्रसाधनोपचारज्ञा सैरंध्री परिकीर्तिता' इति काव्यः ( 'सैरिंध्री' इति ) इकारमध्यपाठे पृषोदरादित्वं (६|३|१०९) बोध्यम् ॥ (१) ॥ * ॥ एकं 'विशेषणत्रयवत्याः ॥ असिक्की स्यादवृद्धा या प्रेष्यान्तःपुरचारिणी ॥१८॥ असीति ॥ सिनोति ‘षिञ् बन्धने' ( स्वा० उ० अ० ) । 'अजिघृसिभ्यः क्तः' ( उ० ३१८९ ) । यद्वा सीयते स्म । क्तः (३।२।१०२) ‘यतिस्यतिमास्थामित्ति किति' (७४४०) इती- त्वम् । सिता शुक्लकेशा । तद्भिन्ना | 'छन्दसि कमेके' ( वा० ४११॥३९) इति तस्य नः | नान्तवाडी (४|११५) | - द्वे वाक्ये ('असिनयन्तःपुरप्रेष्या' इति हैमात् ) - इत्येके ॥ 'असिक्किका स्यादवृद्धा या प्रेषयान्तः पुरोषिता' इति कात्यः ॥ (१) ॥ * ॥ एकं 'कृष्णकेशादित्रिविशेषणायाः' || अमर० २७ १ २०९ वारस्त्री गणिका वेश्या रूपाजीवा वारेति ॥ वारस्य वृन्दस्य स्त्री साधारणत्वात् ॥ (१) ॥ ॥ गणः समूहोऽस्त्यस्याः भर्तृत्वेन । उनू (५/२/११५ ) ॥ गणयति । 'गण संख्याने' ( चु० उ० से ० ) | बुल् ( ३ | १ | १३३) वा ॥ (२) ॥*॥ 'वेशो वेश्यागृहे गृहे | नेपथ्ये च' ( इति मेदिनी ) | वेशेन नेपथ्येन शोभते । 'कर्मवेशाद्यत्' (५॥ १११००) । वेशे वेश्यावाटे भवा वा । 'दिगादिभ्यो यत्' (४१३१५४) वेशः प्रवेशोऽस्त्यस्याः । ‘अन्येभ्योऽपि–’ (वा० ५|४|१२० ) इति यव् वा । 'वेश्यं वेश्यागृहे क्लीबं गणिका- । यां तु योषिति' ( इति मेदिनी ) ॥ ॥ ‘वेष्या' इति मूर्धन्यम- ध्यपाठोऽपि | बेवेष्टि | 'विष्ट व्याप्तौ ' ( जु० उ० अ० ) । | अन्यादिः ( उ० ४॥ ११२ ) ॥ (३) ॥ ॥ रूपमाजीवोऽस्याः ॥ (४) ॥ ॥ चत्वारि 'वेश्यायाः' । अथ सा जनैः । सत्कृता वारमुख्या स्यात् अथेति ॥ वारे वेश्यावृन्दे मुख्या ॥ (१) ॥ ॥ एकम् कुट्टनी शंभली समे ॥ १९ ॥ कुट्टेति ॥ कुयति । 'कुट छेदने' ( चु०प० से ० ) । ल्युट् (३।३।११३) ॥ (१) ॥ ॥ शं सुखं भलते | 'भल परि- भाषणे' ( भ्वा० आर० से ० ) | अच् ( ३ | १ | १३४) । गौरादिः (४|१|४१ ) । 'शाकं शंभलीशललशुष्क - इति शभेदात्ता- लव्यादिः ॥ * ॥ सं भलते । इति ( संभली ) दन्त्यादिरपि ॥ (२) ॥ ॥ द्वे 'परनारीं पुंसा संयोजयित्र्याः' ॥ विप्रश्निका त्वीक्षणिका दैवज्ञा विप्रेति ॥ विविधः प्रश्नोऽस्त्यस्याः । ठन् (५/२/११५ ) ॥ (१) ॥ ॥ शुभाशुभयोरीक्षणमस्त्यस्याः । ठन् (५॥२॥११५) ॥ ( २ ) ॥ ॥ दैवं शुभाशुभं जानाति । 'आतोऽनुप-' (३॥२॥ ३) इति कः । 'दैवज्ञो गणके पुमान् | दैवज्ञेक्षणिकायां स्त्री' ( इति मेदिनी ) ॥ (३) ॥ * ॥ त्रीणि 'लक्षणादिना शुभा शुभे जानत्याः ॥ अथ रजस्वला । स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि ॥ २० ॥ ऋतुमत्यप्युक्यापि अथेति ॥ रजोऽस्त्यस्याः | 'रजःकृष्या-' (५१२/११२) इति वलच् । 'तसौ मत्वर्थे (१॥४|१९) इति भवान्न रुत्वम् ॥ (१) ॥*॥ स्त्रीधर्मो रजोऽस्त्यस्याः । इनिः (५॥२॥११५) ॥ ( २ ) ॥ ॥ अवति लज्जया । 'अव रक्षणादौ ' ( भ्वा०प० से० ) । 'अवितृस्तृतन्त्रिभ्य ई: ( उ० ३१५८ ) ॥॥ 'अविं स्त्रीधर्मिणी विद्यात्' इति काल्यात् ( अविः ) हस्वान्तापि । 'सर्वधातुभ्य इन्' ( उ० ४११८ ) ॥ (३) ॥ * ॥ अत्रेरपत्यम् ।
पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२१६
दिखावट