पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् १९४ से०) । मृगथ्वादिः ( उ० १३७) | 'अपवाद' - इति | ध्वामी तु काकोल्याम्' ( इति हैमः ) ॥ ( ६ ) ॥*॥ ‘काँ, मुकुटस्तु चिन्त्यः | उज्ज्वलदत्तादिष्वस्य सूत्रस्यादर्शनात् ॥ (१) ॥ ॥ के वायौ जले वा रेटति । पूर्ववत् । 'कर्करेः करेटुः स्यात् करटुः कर्कराटुकः' इति रभसः ॥ (२) ॥ * ॥ द्वे 'अशुभवादिपक्षिभेदस्य ॥ कृकणक्रकरौ समौ । कृकेति ॥ ‘कृ’ इति कणति । 'कण शब्दे' (भ्वा०प० से॰) । अच् (३।१।१३४)। कृकेण कण्ठेन अणति वा । चिन्यः 'अण शब्दे' ( भ्वा०प० से ० ) | अच् ( ३ | १ | १३४ ) | शक- न्ध्वादिः (वा० ६।१।९४) ॥ ( १ ) ॥ * ॥ 'ऋ' इति शब्दकरण- शीलः । 'कृञो हेतुताच्छील्य-' (३|२|२०) इति टः ॥ (२) ॥ * ॥ द्वे 'अशुभपक्षिभेदस्य' ॥ काँ,' इति शब्दनात् आत्मानं घोषयति । 'घुषिर् विशब्दने' (चु० उ० से ० ) | अण् (३।२।१) ॥ (७) ॥*॥ परं बिभर्ति । ‘डभृञ्' ( जु० उ० से ० ) | क्विप् (३|२|७५) ॥ (८) ॥*॥ बलिं भुते । 'भुज पालनादौ ' ( रु०प०अ० ) । विप् (३॥ २ ॥ ७५) ॥ (९) ॥*॥ वयते । 'वय गतौ ' ( भ्वा० आ० से ० ) | 'वयश्च' ( उ० ३।१२०) इत्यसच् । – वयति इति मुकुट । वयतेरात्मनेपदित्वात् । 'वायसोऽगुरुवृक्षेपि श्रीवासध्वामयोः पुमान् ( इति मेदिनी ) ॥ ( १० ) ॥ * ॥ दश 'काकस्य' ॥ वनप्रियः परभृतः कोकिलः पिक इत्यपि ॥ १९ वनेति ॥ वनं प्रियमस्य ॥ ( १ ) ॥ ॥ परेण काकेन भृतः ॥ (२) ॥॥ कोकते। 'कुक आदाने' (भ्वा० आ० से ० ) । 'सलिकल्यनि- ' ( उ० १९५४) इति लच् । 'अजि- रादयश्च' इति किरः – इति मुकुटः । तन्न । किरचि गुणाभा- • वप्रसङ्गात् । कोकतेर जिराद्यनन्तर्भावात् उज्ज्वलदत्तादिष्वस्य सूत्रस्यादर्शनाच ॥ (३) ॥* ॥ अपि कायति । 'आतचोपसर्गे' (३।१।१३६) इति कः। ‘वष्टि भागुरिः' इत्यल्लोपः ॥ (४) ॥ ॥ चत्वारि 'कोकिलस्य' ॥ काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः । ध्वासात्मघोषपरभृद्वलिभुग्वायसा अपि ॥ २० ॥ काके इति ॥ कायति । 'कै शब्दे' (भ्वा०प० से ० ) । ‘इण्भीका–’ (उ० ३।४३ ) इति कन् । 'काकः स्याद्वायसे वृक्षप्रभेदे पीठसर्पिणि । शिरोवक्षालने मानप्रमेदद्वीपमेदयोः ॥ काका स्यात्काकनासायां काकोलीकाकजयोः । रक्तिकायां मलवां च काकमाच्यां च योषिति ॥ काकं सुरतबन्धे 'स्यात् काकानामपि संहतौ' इति विश्वमेदिन्यौ ॥ (१) ॥ ॥ करोति शकुनम् । ‘शक्यादिभ्योऽटन्' ( उ० ४८१) । के रटति । ‘रट परिभाषणे' (भ्वा०प० से ० ) | अच् (३1१1 १३४) वा। ‘करटो गजगण्डे स्यात्कुसुम्मे निन्द्यजीवने । एकादशाहादिश्राद्धे दुर्दुरूढेऽपि वायसे । (करटो बायभेदे) ( इति विश्वमेदिन्यौ ) ॥ ( २ ) ॥ * ॥ न रिष्टमस्य | 'अरिष्टो लशुने निम्बे फेनिले काकडयो: ' ( इति मेदिनी ) ॥ (३) ॥ * ॥ बलिना पुष्टः ॥ ( ४ ) ॥ * ॥ सकृत् प्रजा यस्य ॥ ( ५ ) ॥ ॥ ध्वाति । 'ध्वाक्षि घोरवाशिते च ' ( भ्वा०प० से ० ) अच् (३।१।१३४)। ‘ध्वाङ्गः काके बकेऽर्थिनि । गृहे, १ - गृहं गृहविशेषः । यथाहु: - 'ध्वजो धूमश्च सिंहश्च श्वा वृषश्च खरो गजः । ध्वाङ्खोऽष्टमस्तु प्राच्याथा ईशानान्ताः क्रमादमी ॥ इत्यनेकार्थ कैरवाकरकौमुदी ।– 'ध्वाङ्क्षी काकोलिकायां स्यात् इति पाठस्तु मेदिनीस्थः ॥ द्रोणकाकस्तु काकोलः द्रोणेति ॥ द्रुणति । 'द्रुण हिंसागतिकौटिल्येषु' ( तु ० प ० से०) अच् (३।१।१३४)| द्रोणाख्यः काकः | 'द्रोणो ना दग्धकाके स्यादश्वत्थाम्नो गुरावपि' इति रुद्रः । 'द्रोणोऽस्त्रि- यामाढके स्यादाढकानां चतुष्टये । पुमान् कृपीपतौ कृष्ण काके, स्त्री नीवृदन्तरे ॥ तथा काष्टाम्बुवाहिन्यां गवादन्यामपी- ष्यते' इति मेदिनी ॥ (१) ॥ ॥ काकयति । 'कक लौल्ये' ( भ्वा० आ० से ० ) स्वार्थण्यन्तः । बाहुलकादोलच् । 'काकोलं नरकान्तरे । ना कुलाले द्रोणकाके, विषभेदे तु न स्त्रियाम्' ( इति मेदिनी ) ॥ (२) ॥*॥ 'द्रोणकाको दुग्धकाको वृद्धकाको वनाश्रयः' इति त्रिकाण्डशेषः । द्वे 'डोडकाक' इति ख्यातस्य ॥ दात्यूहः कालकण्ठकः । देति ॥ 'दाप् लवने' ( अ० प० अ० ) | तिन् (३॥३॥ ९४) । दातिं मारणमूहते । 'ऊह वितर्के' (भ्वा० आ० से ० ) अण् (३|२|१) | यद्वा दित्यौहोऽयम् । 'तस्येदम्' (४८३ १२० ) इत्यण् । 'देविकाशिंशपा-' (७१३|१) इत्यात्वम् । 'वाह ऊठ्' (६|४|१३२ ) | शकन्ध्वादिः (वा० ६।१९४) । 'दात्यूहः कालकण्ठके । चातकेsपि ' इति हैमः ॥ (१) ॥*॥ काले वर्षाकाले कण्ठो ध्वनिरस्य । ‘कण्ठः खरेऽन्तिके गले’ इति रुद्रः | कालः कण्ठोऽस्य । कप् (५१४/१५४) 'काल- कण्ठनीलकण्ठौ पीतसारे महेश्वरे । दात्यूहे ग्रामचटके खजरीटे शिखावले' इति हेमचन्द्रः ॥ (२) ॥ ॥ द्वे ‘दात्यू- हस्य' ॥ आतायिचिल्लौ आतेति ॥ आतायते तच्छीलः । 'तायृ संतानपाल- नयोः' (भ्वा० आ० से ० ) । 'सुप्यजाती - ' (३।२।७८) इति णिनिः । यद्यप्यत्र वृत्तिकारादिभिः— 'अनुपसर्गे'- इत्युक्तम् । तथा भाष्ये उपसर्गेपि णिनिः स्वीकृतः ॥ * ॥ स्वामी तु आतपति - इति विगृहन् 'आतापी' इति पाठं मन्यते ॥ (१) ॥ * ॥ चिलति । 'चिल्ल शैथिल्ये हावकृतौ च ' ( भ्वा०प० से०) अच् (३।१।१३४) । 'चिल्लः खगे से चुलश्च पिल्लु-