पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिंहादिवर्ग: ५ ] व्याख्यासुधाख्यव्याख्यासमैतः । १९३ 'कृविटष्वि - ' ( उ० ४/५६ ) इति साधुः । 'किकी दिविश्च कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ॥ १७ ॥ चाषः स्यात्' इति रत्नकोषः । 'चाषो दिविः किकि: स्मृतः' इति व्याडिः ॥ (२) ॥ * ॥ द्वे 'चाषस्य' 'चास' इति ख्यातस्य ॥ कलिङ्गभृङ्गधूम्याटाः ॥ केति ॥ के मूर्ध्नि लिङ्गं चूडास्य | कलिं कलहं गच्छति वा । ‘गमश्च’ (३।२।४७) इति खच् | ‘खच् डिद्वक्तव्यः' (वा० ३।२।३८)। ‘कलिङ्गः पूतिकरजे धूम्याटे भूम्नि नीति । न द्वयोः कौटजफले महिलायां तु योषिति' ( इति मेदिनी) (१) ॥*॥ भृङ्ग इव । कृष्णत्वात् । यद्वा बिभर्ति कुलम् । ‘भृञः किन्नुट् च' (उ० १।१२५) इति गन् । 'भृङ्गो धूम्या- टषिङ्गयोः । मधुव्रते भृङ्गराजे पुंसि भृङ्गं गुडत्वचि' (इति मे - दिनी) ॥ (२) ॥*॥ धूम्या धूमसमूह इवाटति | अच् (३|१| १३४) ॥ (३) ॥*॥ त्रीणि 'भृङ्गस्य' || अथ स्याच्छतपत्रकः ॥ १६ ॥ दाघाट: अथेति ॥ शतं पत्राण्यस्य || ( १ ) ॥ || दारु आहन्ति । 'दारावाहनोऽणन्त्यस्य च ट :--' (वा० ३।२।४९ ) | वासार्थ दारु आघाटयति । ‘घट संघाते’ चुरादिः । अण् (३२१) || स्रुभूतिस्तु चिन्त्यः। घट्टिना विगृहीतत्वात् । 'काष्ठकुट्टः तच्छदः' इति त्रिकाण्डशेषः ॥ (२) ॥*॥ द्वे ‘काष्ठकुट्टस्य' शः 'काठकोरा' इति ख्यातस्य || अथ शारङ्गः स्तोककश्चातकः समाः । तस्य स्त्री चटका तस्येति ॥ चटकस्य स्त्रीति स्त्रीत्वविवक्षायां 'पुंयोगात्-' शारयति, शार्यते, बातपादिना | ‘शु हिंसा- (४११९४८) इति प्राप्तो ङीप् जातिलक्षणङीष् (४।१।६३) च अजादि (४|११४) पाठाद्वाध्यते | क्षिपकादित्वात् (७।३।४५) नेत्वम् ॥ (१) ॥ * ॥ एकम् 'चटकस्त्रियाः' ॥ पुमपत्ये चाटकैर: तयोः । तयोरिति ॥ चटकायाश्चटकस्य वा पुमपत्यम् । 'चट- काया ऐरक्' (४|१|१२८) 'चटकादपीति वक्तव्यम्’ (४॥१॥ १२८) फलितम् । तयोश्चटकाचटकयोः—इति मुकुटः । तन्न । 'पुमान् स्त्रिया' (१९२१६६) इत्यन्तर जैक शेषप्रवृत्त्या इन्द्रासंभवात् ॥ (१) ॥ ॥ एकम् 'चटकपुमपत्यस्य' ॥ ख्यपत्ये चटकैव हि ॥ १८ ॥ ? अथेति ॥ याम्’ (त्र्या॰ प० से० ) ण्यन्तः । 'तरत्यादिभ्यश्च' (उ० १।१२०) इत्यङ्गच् । — शारेरङ्गच्— इति मुकुटः । तन्न । उज्ज्वलदत्तादिवृत्तिष्वेतत्सूत्रादर्शनात् । 'शारङ्गश्चातके ख्यातः शबले हरिणेऽपि च’ इति तालव्यादावजयः ॥ ॥ सरति । 'सवृजोर्वृद्धिश्च' ( उ० १११२ ) इत्यङ्गच् | 'सृ गतौ' (भ्वा० प० अ०)। णिच् (३।१।२६) पूर्ववत् | अण् (३। २।१) बृद्धिश्च—इति मुकुटश्चिन्त्यः । अणोऽप्रसङ्गात् । 'ख़ू- नोः' इति सिद्धलाच । णिचः प्रयोजनाभावाच । 'चातके हरिणे पुंसि सारङ्गः शबले त्रिषु' इति दन्त्यादौ रभसात् । यद्वा सारमङ्गमस्य । शकन्थ्वादिः (वा० ६।१९९४) । 'सा- रङ्गः पुंसि हरिणे चातके च मतङ्गजे। शबले त्रिषु' ( इति मेदिनी) ॥ (१) ॥ * ॥ स्तोकं कं जलमस्य | स्तोकं कायति वा | 'कै शब्दे' (भ्वा०प० अ०) । 'आतोऽनुप' (३|२| ३) इति कः ॥ (२) ॥* ॥ चतति | 'चते याचने' (भ्वा० प० से ० ) | ण्वुल् (३|१|१३३) (३) ॥ * ॥ त्रीणि 'चातक पक्षिणः' 'पपिहा' इति ख्यातस्य ॥ कृकेति ॥ कृकेन गलेन वक्ति | 'वच परिभाषणे' (अ० प० अ० ) । 'कृके वचः कुश्च' ( उ० १॥६ ) इत्युण् । 'कुकवाकुर्मयूरेऽपि सरदे चरणायुधे' इति विश्वः ॥ (१) ॥*॥ ताम्रा चूडास्य ॥ (२) ॥ ॥ कोकनम् | 'कुक आदाने ' | ( भ्वा० आ० से ० ) | संपदादिभ्यः विप् (वा० ३।३।१०८)। कुटति | 'कुट कौटिल्ये' (तु०प० से ० ) | 'इगुपध-' ( ३ | १।१३५) इति कः । कुका कुटः | 'कर्तृकरणे - ' (२|१|३२) इति समासः । कुत्सितः कुटो वा । कोः पृथिव्याः कुटो वा । पृषोदरादिः (६।३।१०९) वा । – कुं पृथ्वीं कुटति । इगुपध- त्वात् (३।१।१३५) कः - इति मुकुटः | तन्न | अणस्तदपवाद- त्वात् । 'अकारान्निरुपपदात्सोपपदो विप्रतिषेधेन' (३।२।१ ) इति वार्तिकाद्वा | मूलविभुजादित्वम् (वा० ३।२।५) युक्तम् । 'कुक्कुट्यनृतचर्यायां पुंसि स्याञ्चरणायुधे । निषादशूद्रयोः पुत्रे तृणोल्कायां च कुक्कुभे' इति विश्वमेदिन्यौ ॥ ( ३ ) ॥ * ॥ चरण- आयुधमस्य ॥ (४) ॥*॥ चत्वारि 'कुक्कुटस्य' || चटकः कलविङ्कः स्यात् १ 'अण्' इत्यस्य स्थाने 'कर्मण्यण' इति वा पाठः । अमर० २५ टेति ॥ चटति | 'चट भेदने' ( भ्वा० प० से ० ) । कुन् ( उ० २॥३२) ॥ (१) ॥ ॥ कलं बढ़ते | ‘वकि गतौ’ (भ्वा० 'कलविङ्कः पुमान् ग्रामचटकेऽपि कलिङ्गके’ (इति मेदिनी)॥ आ० से ० ) । अण् ( ३|२|१) पृषोदरादिः (६।३।१०९)। (२) ॥ ॥ द्वे ‘चटकस्य' ॥ → त्र्येति ॥ स्त्री च तदपत्यं चेति । तस्मिन् । 'स्त्रियामपत्ये लुग्वक्तव्यः' (वा० ४११/१२८) इत्यैरको लुक् । 'लुक्तद्धित- लुकि ' (१।२।४९ ) | पुष्टाप् (४॥१॥४) ॥ (१) ॥॥ एकम् 'चटकरूयपत्यस्य' | कर्करेः कटुः स्यात् कर्केति ॥ 'कर्क' इति रेटति । 'रेटृ भाषणे' (भ्वा० उ०