पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वर्गवर्ग: १] 'लक्ष्मीसरस्वतीधा त्रिवर्गसंपद्विभूतिशोभासु । उपकरणवेशर- चनाविधानेषु च श्रीरिति प्रथिता' इति व्याडिः ॥ ( ५ ) ॥ ॥ श्रीलक्ष्मीशब्दौ 'कृदिकारात्- ' (ग० ४११९४५) इति ङीषे- न्ताविति मैत्रेयः । तन्न । कौरग्रहणस्य तपरत्वार्थस्य वैयर्थ्य- प्रसङ्गात् । अन्यथा 'कृदिवर्णात् -' 'कृदेः' इति वा वदेत् । 'कारग्रहणान' इति मनोरमायां उणादौ दीक्षिताः ॥*॥ हरेः प्रिया ॥ (६) ॥ * ॥ षड् 'लक्ष्म्याः' || शङ्खो लक्ष्मीपतेः पाञ्चजन्यः शङ्ख इति ॥ पश्चजने दैत्यभेदे भवः । ‘पञ्चजनात्' (वा० ४॥३॥५८) इति यञ् । यत्तु मुकुटः 'बहिर्देवपञ्चज- नेभ्यः' इत्युपसंख्यानाञ्ञ्यः~- इति । तन्न । एतादृशवार्ति- काभावात् । पश्चजने पाताले भव इति स्वामी । ( 'पाञ्च- जन्यः पोटगले विष्णुशङ्खे हुताशने' ) ॥ (१) ॥ ॥ एकम् 'विष्णुशङ्खस्य' | चक्रं सुदर्शनः । चक्रमिति || शोभनं दर्शनमस्य । सुखेन दृश्यत इति वा । 'भाषायां शासियुधिदृशिमुषिभ्यो युच्' (वा० ३|३|१३०) । 'सुदर्शनो हरेश्चके मेरुजम्बुद्रुमे पुमान् । न द्वयोः शक्रनगरे आ(प्रा)ज्ञौषधिभिदोः स्त्रियाम्' । 'सुदर्शनोऽस्त्रियां चक्रे' इति नामनिधानात्' क्लीबेऽपि ॥ (१) ॥ ॥ एकम् 'विष्णु- चक्रस्य' ॥ व्याख्यासुधाख्यव्याख्या समेतः । कौमोदकी गदा कौमोदकीति || पालकत्वात् कोः पृथिव्या मोदकः कुमोदको विष्णुः । ‘विष्णुः कुमोदकः शौरिः' इति दुर्गः । तस्येयम् ॥ ॥ कूपोदकाज्जातत्वात् कौपोदकी इति तु स्वामी ॥ (१) ॥*॥ गदति। पचायच् (३।१।१३४) । 'गदो भ्रातरि विष्णोश्च आमये नायुधे गदा' । एकम् 'विष्णुग- दायाः' ॥ १–‘तां दृष्ट्वा श्रीमिवायतीम्” इति प्रयोगः - इति मुकुटः ॥ २- कारग्रहणस्य तपरार्थत्वे 'तथेकारोकारौ । ऋकारखिंशतः' इति सिद्धान्तकौमुद्यामेव लिखितत्वान्न मानम् । अत एव 'नहि कारग्रहणे केवलग्रहणम्' इति मुनित्रयेण परिभाषित मिति रक्षि- तग्रन्थानुवादो मनोरमोणादावेव कृतः ॥ ३ – 'अन्तः पूर्वपदाद'- (४१३१६०) इति सूत्रे 'बाह्यो दैव्यः पाञ्चजन्योऽथ गम्भीराव्य इष्यते' इति वदता भाष्यकृता ध्वनितस्य 'गम्भीराय:' (४३) ५८) इति सूत्रे 'बहिर्देवपञ्चजनेभ्यः' इति वार्तिकस्य काशिकायां दृश्यमानत्वेन बाह्यदैव्ययोः ‘बहिषष्टिलोपो यञ्च' 'देवाग्रमनौ' इति वार्तिकान्तरेण सिद्धौ पाञ्चजन्यस्य साधनाय केवलं 'जनाद' इत्यस्यैवावश्यकत्वमित्यभिमन्तृदीक्षितेन कौमुद्यामलेखनेनैव वार्ति- काभावादित्युक्तिश्चिन्त्यैवेति शम् ॥ ४– अमरावां उन्तः । लिङ्गानुशासनकाराभिप्रायेण तु पुंसि | गौडम तुकीने इत्यने- कार्य करवा करकौमुदी || १३ खड्डो नन्दकः खड्ग इति ॥ नन्दयति देवान् ण्वुल् | (३|१|१३३ ) 'नन्दको हरिखने च हर्षके कुलपालके' ॥ (१) ॥*॥ एकम् 'विष्णोः खड्गस्य' ॥ कौस्तुभो मणिः ॥ २८ ॥ कौस्तुभ इति ॥ कुं भुवं स्तुम्नानि व्याप्नोति कुस्तु- भोऽब्धिः । तत्र भवः । कुं स्तोभते कुस्तुभो विष्णुः । ष्टुभं स्तम्भे' ( भ्वा० आ० से ० ) । मूलविभुजादित्वात् (वा० ३।२- 'एतत्पर्यन्तं संबध्यते । एकम् ‘विष्णोर्मणेः' ॥ ५) कः | तस्यायमिति वा ॥ ( १ ) ॥ ॥ 'लक्ष्मीपतेः' इति गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः । नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ॥ २९ ॥ गरुत्मानिति ॥ गरुतः पक्षाः सन्त्यस्य । मतुप् (५॥२॥ ९४) यवादित्वात् (८१२१९) 'झयः' (८/२/१०) इति वत्वं न ॥ ( १ ) ||| गरुद्भिर्डयते । 'डीङ् विहायसा गतौं' ( भ्वा० आ० से ० ) | 'अन्येभ्योऽपि ' ( वा० ३ | २ | १०१ ) इति डः | पृषोदरादित्वात् ( ६।३।१०९ ) तलोपः ॥ (२ ) ॥॥ तार्क्ष्यस्य कश्यपस्यापत्यम् | ऋष्यण् (४|१|११४ ) | बहुत्वे तार्क्ष्याः । तृक्षस्यापत्यम् गर्गादित्वात् (४४११०५) यज्वा । बहुत्वे तृक्षाः इत्यन्ये । ( 'तार्क्ष्यस्तु स्यन्दने वाहे गरुडे गरु डायजे । अश्वकर्णाह्वयतरौ स्यात्तार्क्ष्य तु रसाजने । अहौ च' ) ॥ ( ३ ) ॥ * ॥ विनताया अपत्यम् | 'स्त्रीभ्यो ढक्' (४|१| १२० ) । ( 'वैनतेयस्तु गरुडे स्यात्प्रभाकरसारथौ' ) ॥ (४) ॥ ॥ खगानामीश्वरः ॥ (५) ॥ * ॥ नागानामन्तकः ॥ ( ६ ) ॥ * ॥ विष्णोः रथ इव । यद्वा 'रथः पौरुषदेहयोः' इति त्रिकाण्डशेषः । विष्णो रथः पौरुषं देहो वा । 'वैनतेयश्च पक्षिणाम्' इति गीता ॥ ( ७ ) ॥ * ॥ कनकमयत्वात्कनकवर्ण- त्वाद्वा शोभने पर्णे पक्षावस्य । ( 'सुपर्णः स्वर्णचूडे च गरुडे कृतमालके । सुपर्णा कमलिन्यां च वैनतेयस्य मातरि' ) ॥ ( ८ ) ॥ * ॥ पनगानश्नाति । 'अश भोजने' (आ० प० से ० ) । ल्युः (३।१।१३४) | पन्नगा अशनं यस्येति वा ॥ (९) ॥ ॥ नव 'गरुडस्य' || शंभुरीशः पशुपतिः शिवः शूली महेश्वरः । ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः ॥ ३० ॥ भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः । मृत्युंजयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥३१॥ उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् । वामदेवो महादेवो विरूपाक्षत्रिलोचनः ॥ ३२ ॥ कृशानुरेताः सर्वशो धूर्जटिर्नीललोहितः । हरः स्मरहरो भर्गरूयम्बकत्रिपुरान्तकः ॥ ३३ ॥ गङ्गाधरोऽन्धकरिपुः ऋतुध्वंसी वृषध्वजः । व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ॥ ३४॥ शंभुरित्यादि ॥ शं सुखं भवति । अन्तर्भावितण्यर्थात्