पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

•सिंहादिवर्ग: ५ ] ‘अर्जिदृशि—’(उ० १।२७) इत्युः पशिरादेशश्च । यत्तु मुकुटः- पशेः सौत्रधातोः 'अट्वादयः इति कुः' इति सुभूतिः - इत्याह । तदुक्तसूत्रास्मरणमूलकम् |-पाइयन्ते पाशैः- इति स्वाम्यप्येवम्। 'मृगभेदानाम्' पृथक् ॥ उन्दुरुर्मूषिकोऽप्याखुः व्याख्यासुधाख्यंव्याख्यासमेतः । • उद्विति ॥ उनत्ति । ' उन्दी क्लेदने' (रु०प० से ० ) । बाहुलकादुरुः | 'कन्दुरुन्दुरुरुन्दुर' इति शब्दार्णवः ॥ (१) ॥* ॥ मुष्णाति । 'मुष स्तेये' (त्र्या०प० से ० ) । 'मु- ष्णातेदर्दीर्घश्च' (उ० २९४२) इति किकन् ॥ * ॥ 'मूष स्तेये' ( भ्वा० प० से ० ) दीर्घोपधोऽस्ति । मूषति । ल् ( ३ | १ | १३३) । 'भद्रमूषिक आसन्दी कुन्दुरुन्दुरुरुन्दरः । मू- षको वज्रदशनः क्रमः काण्डो बिलेशयः' इति वाच- स्पतिः ॥ (२) ॥*॥ आ खनति । 'खनु अवदारणें' (भ्वा० उ० से ० )। ‘आङ्परयोः खनिभ्यां डिच्च' ( उ० १॥३३) इत्युः । मुकुटस्तु — 'आङि खनिवंयोर्नलोपश्च' इति कुर्नलो- पश्च । बाहुलकादलोपः - इति सूत्रमुपन्यास्थत् । तच्चिन्त्यम् । उज्ज्वलदत्तादिविरोधात् ॥ (३) ॥ * ॥ त्रीणि 'मूषिकस्य' ॥ गिरिका बालमूषिका | गिरीति | गिरति 'कुपकुटि' ( उ० ४१४३) इति इः किञ्च । ‘ऋत इत्-’(७॥१/१००) संज्ञायां कन् ( ५/३/७५) ॥ (१) ॥ ॥ क्षुद्रत्वात् बाला चासौ मूषिका च । 'खर्चा - खुर्बालमूषिका' इति दुर्गः ॥ (२) ॥ * ॥ द्वे 'स्वल्पभू- पकजातेः' ॥ सरटः कुकलासः स्यात् ` संरेति ॥ सरति । ‘सृ गतौ’ (भ्वा०प० कादिभ्योऽटन्’ (उ० ४।८१) ॥ (१) ॥ ॥ कृकं शिरो कण्ठं च लासयति चालयति । 'लस शिल्पयोगे' चुरादिः ‘कर्मण्यण्’ (३।२।१) ॥ (२) ॥ ॥ द्वे 'सरटस्य' 'किट' अ०) । 'श- ग्रीवां इति ख्यातस्य ॥ मुसली गृहगोधिका ॥ १२ ॥ मुसेति ॥ मुस्यति संशयम् । 'मुस खण्डने' (दि०प० से ० ) वृषादित्वात् ( उ० 91१०६) कलच् । गौरादित्वान्दीषु |- जातौ ङीष् (४।१।६३) — इति मुकुटः | तन | स्त्रीविषयत्वात् । 'मुसलं सादयो च पुंनपुंसकयोः स्त्रियाम् । तालमूल्या- माखुपर्णीगृहगोधिकयोरपि' ( इति मेदिनी) ॥ ॥ तालव्यैमध्या ( मुराली) इति खामी ॥ (१) ॥ * ॥ अल्पा गोधा 'अल्पे' (५ ३।८५) इति कन् । गृहस्य गोधिका । 'ज्येष्ठा स्त्री कुड्यमत्स्या .. १ अचि (३|१|१३४) । गौरादित्वात् (४११४१) जातित्वात (४|११६३) वा ङीषि 'मूषी' अपि ॥ 'इन्ति कीटविषं सर्वे तथा मूषीविषं च यत्' इति शालिहोत्रे- इति मुकुटः ॥ २- 'मुबली' मूर्धन्यमध्या च इति वर्णदेशना - इति मुकुटः ॥ १९१ च गृहगोधा गृहालिका' इति साहसाङ्कः । - 'गृहगो लिका' इति पाठः सभ्यः इति स्वामी ॥ (२) ॥॥ द्वे 'गृह' गोधायाः' 'विछुत्तिया' इति ख्यातायाः || लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः । तेति ॥ लुनाति । 'लज् छेदने' ( क्या० उ० से० ) । 'हसिमृगु ' ( उ० ३१८६) इति तन् | संज्ञापूर्वकत्वाद्गुणाभावः।- बाहुलकात्तन् -- इति मुकुटस्त्वेतत्सूत्राज्ञानमूलकः । 'लता लूतका' इत्यमरदत्तः । 'लूता तु रोगे पिपीलिकोर्णनाभयोः' इति हेमचन्द्रः ॥ (१) ॥ ॥ तन्तून् वयति | 'वेज् तन्तुसंताने ' ( भ्वा० उ० अ० ) । 'हावामश्च' (३|२|२) इत्यण् ॥॥ तन्तूनू वयति 'तन्त्रवायः' इति स्वामी ॥ (२) ॥*॥ ऊर्णेव तन्तुर्नाभावस्य । 'अच्' (५/४/७५) इति योगविभागादच् । 'डयापोः-' (६|३|६३) इति हवः ॥ ॥ मर्कति । 'मर्क' सौत्रो धातुर्ग्रहणार्थः । शकादित्वात् (उ० ४१८१) अटन् । 'संज्ञायां कन्' (५/३/७५) 'अथ मर्कटक: सस्यभेदे वानरलतयो: इति मेदिनी ॥ (४) ॥ * ॥ चत्वारि 'ऊर्णनाभस्य' 'मकडी' इति ख्यातस्य ॥ नीलङ्गुस्तु क्रिसिः नीति ॥ नितरां लङ्गति । 'लगि गतौ' (भ्वा० प० से ० ) । नीलति वा । 'णील वर्णे' (भ्वा०प० से ० ) 'खरुश - ' ( उ० १|३६) साधुः । 'नीलङ्गुरपि नीलाङ्गुः' इति द्विरूपको- शः । 'नीलङ्गुः स्यात् कृमौ पुंसि भम्भराल्यां तु योषिति’ इति मेदिनी ॥ (१) ॥*॥ क्रामति । 'क्रमु पादविक्षेपे' (भ्वा०प० से ० ) । 'क्रमित मिशस्तम्भामत इत्' ( उ० ४|१२२ ) इति कि ॥ * ॥ बाहुलकात् संप्रसारणमपि । 'द्रुमामये भवेत्पुंसि कीटे च क्रिमिवत् कृमिः' इति रभसः । 'क्रिमिना॑ कृमिवत् कीटे लाक्षायां कैमिले खरे' (इति मेदिनी) ॥ (२) ॥॥ द्वे 'सुनकीडा' इति ख्यातस्य ॥ कर्णजलौका शतपद्युमे ॥ १३ ॥ कर्णेति ॥ कर्णस्य जलौकेत्र ॥॥ ( कर्णजलौकाः) सान्ता वा ॥ (१) ॥॥ शतं पादा यस्याः । 'कुम्भपदीषु च' (५|४|१३९) इति साधुः ॥ ( २ ) ॥ ॥ सान्तत्वेऽपि स्त्रीत्वबोधनाय - 'उभे' इति । द्वे 'कर्णजलौकायाः' 'गो- जर' इति ख्यातस्य ॥ वृश्चिकः शूककीट: स्यात् वृश्चीति ॥ वृश्चति । ‘ओ वधू छेदने' ( तु०प० से ० ) 'चिकृष्योः किकन्' ( उ० २१४० ) । 'महिज्या -' (६॥१॥ षधीमिदो: ' ( इति मेदिनी) ॥ (१) ॥ ॥ शुकयुक्तः कीटः । १६) इति संप्रसारणम् । 'वृश्चिकस्तु द्वणे राशौ शूककीटौ- १- अनेकार्थकैरवा करकौमुद्यां तु 'कर्दमे गदे' इति व्याख्यातं मप्रामाण्येन ॥