पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] ॥ (१) ॥*॥ पुरे भवम् । 'तत्र भवः' ( ४ | ३ | ५३ ) इत्यण् । 'पौरं त्रिषु पुरोद्भुते कत्तृणे पुंनपुंसकम् ( इति मेदिनी ) ॥ (२) ॥ ॥ शोभनो गन्धः । सुगन्धः प्रयोजनमस्य । 'प्रयोजनम्' (५।१।१०९) इति ठन् । 'सौगन्धिको गन्धवणिक् सौग- न्धिकं तु कत्तृणे । गन्धोत्पले पद्मरगे कहारे' इति हैमः ॥ (३) ॥ ॥ ध्यायन्ते पशुभिः | ‘ध्यै चिन्तायाम्' ( भ्वा०प० अ० ।। बाहुलकान्मक् । ('ध्यामं दमनके गन्धतृणे श्यामेऽ- भिधेयवत्' इति विश्वः ) ॥ (४) ॥ ॥ देवैरद्यते स्म । तः (३। २।१०२) 'अदो जग्धिर्त्यप्ति किति' (२॥४॥३६) ॥ (५) ॥*॥ रोहति । 'रुहेर्वृद्धिश्व' ( उ० १९४७ ) इति टिषच् । 'कत्तृणे रौहिषं क्लीवं पुंलिङ्गो हरिणान्तरे' इति मूर्धन्यान्ते रभसः ॥ (६) ॥*॥ षट् 'रोहिस' इति ख्याततृणविशेषस्य ॥ छन्त्रातिच्छत्रपालौ ● व्याख्यासुधाख्यव्याख्यासमेतः । • छत्रेति ॥ छदति, छादयति वा । छद अपवारणे । त्रन् ( उ० ४/१५९ ) 'इस्मन्त्रन्किषु च ( ६२४९७ ) इति हखः । 'छत्रा मिसावतिच्छत्रे कुस्तुम्बुरुशिलीन्ध्रयोः । नपुंसक चात- पंत्रे' (इति मेदिनी ) ॥ (१) ||| अन्तिछत्रम् ॥ (२). ॥*॥ पालं क्षेत्रं हन्ति । 'अमनुष्य-' (३|२|५२) इति ठक् ॥ ( ३ ) ॥ ॥ त्रीणि 'जलजतृणविशेषस्य' || मालातृणकभूस्तृणौ । मालेति ॥ मालाकाराणि तृणान्यस्य ॥ (१) ॥ ॥ भुवः स्तृणम् । पारस्करादित्वात् ( ६।१।१५७ ) सुट् । 'भूर्' अव्ययं वा ॥ (२) ॥ ॥ द्वे 'तृणविशेषस्य' । स्वामी तु–छन्त्रादि- पञ्च पर्यायानाह || शष्पं बालतृणम् शप्पमिति ॥ शस्यते । शुष्यति, वा 'शसु हिंसायाम् (भ्वा० प० से ० ) । 'ग्रुषं शोषणे' (दि० प० अ०) वा । 'खप्प - शिल्पशप–’ (उ० ३।२८ ) इति साधुः |— 'नीपादयः' इति षः—इति मुकुटस्तु चिन्त्यः । उज्ज्वलदत्तादिवृत्तिषु 'नीपादयः' इति सूत्राभावात् । ‘शष्पं बालतॄणे स्मृतम् । पुंसि स्यात् प्रति- माहानौ' ( इति मेदिनी ) ॥ (१) ॥ * ॥ बालं तृणम् ॥ (२) '|| || द्वे 'नवतृणस्य' ॥ ! घासो यवसम् घेति ॥ अद्यते । घञ् (३।३।१९) 'घञपोश्च' (२।४।३८) इस्यदेर्घस्ल । ——घस्यते' - इति विगृह्णन्तौ स्वामिमुकुटौ चिन्त्यौ । घसेः सर्वत्र प्रयोगाभावात् । अन्यथा 'घजपोश्च' ( २१४ | ३८ ) इति सूत्रवैयर्थ्यापातात् ॥ (१) ॥ ॥ यौति, यूयते, वा। ‘यु मिश्रणेऽमिश्रणे च ' ( अ० प० से ० ) । 'वहि- युभ्यां णित्' (उ० ३।११९) इत्यसच् । संज्ञापूर्वकत्वान्न वृद्धिः ॥ (२) ॥ ॥ द्वे 'गवाद्यदनीयतृण विशेषस्य' ॥ १८५ घञ् (३।३।१९) संज्ञापूर्वकत्वान्न गुणः ॥ (१) ॥ * ॥ अर्ज्यते । 'अर्ज अर्जने' (भ्वा० प० से ० ) । 'तृणाख्यायां चित्' (उ० ३५९ ) इत्युनन् । 'अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्याद् धवले पुनरन्यवत् । नपुंसकं तृणे नेत्र- रोगे साद् अर्जुनीगवि । उषायां बाहुदानद्यां कुट्टन्यामपि च क्वचित् ' ( इति मेदिनी) ॥ (२) ॥ ॥ द्वे 'तृणमात्रस्य' ॥ तृणानां संहतिस्तृण्या तृणेति ॥ तृणानां संहतिः समूहः | 'पाशादिभ्यो यः' (४ | २१४९) ॥ (१) ॥॥ एकम् 'तृणसमूहस्य' ॥ नड्या तु नडसंहतिः । नेति ॥ नडानां संहतिः । 'पाशादिभ्यो यः' (४२११४९ ) ॥ (१) ॥ ॥ एकम् 'नडसमूहस्य || तृणराजाह्वयस्तालः तृणेति ॥ तृणानां राजा । 'राजाहःसखिभ्यष्टच्’ (५॥४॥ ९१) तृणराज इत्याहृयो यस्य ॥ (१) ॥ ॥ तालयति । 'तल प्रतिष्ठायाम्' चुरादिः । पचायच् ( ३ | १ | १३४ ) । 'तालः करतलेऽङ्गुष्टमध्यमाभ्यां च संमिते । गीतकालक्रियामाने कर- स्फाले द्वमान्तरे । वाद्यभाण्डे च कांस्यस्य त्सरौ ताली जटौषधौ । क्ली तु हरिताले स्यात् ' ( इति मेदिनी ) ॥ * ॥ तवारणे । त्सरौ स्वभावधरयोस्तन्त्रीघाते च संमतम् ॥ (२), तलति । अच् (३।१।१३४) 'तलचपेटे तालद्रौ तलं ज्याघा ॥ * ॥ द्वे 'तालस्य' ॥ नालिकेरस्तु लाङ्गली ॥ १६८ ॥ नालीति ॥ नलति, नल्यते, वा । ‘णंल गन्धे' ( भ्वा० प० से ० ) । बाहुलकादिण । केन बायुना ईर्यते । ‘ईर प्रेरणे’ (अ० आ० से ० ) । घञ् (३॥३॥१९) नालिश्चासौ केरव ॥ ॥ कपिलिकादिः (वा० ८/२०१८) ( नारिकेलः ) ॥ (१) ॥* लङ्गति, 'लगि गतौ' (भ्वा०प० से ० ) | बाहुलका अलच् दीर्घश्च । गौरादिः (४|१॥४१ ) ॥ (२) ॥ ॥ द्वे ‘नारिके लस्य' | घोण्टा तु पूगः क्रमुको गुवाकः खपुरः घोण्टेति ॥ घोणते । 'घुण भ्रमणे' (भ्वा० आ० से ० ) । बाहुलकात् ः | 'घोण्टा तु बदरीपूगवृक्षयोरपि योषिति' ( इति मेदिनी ) ॥ (१) ॥ ॥ पवते, पुनाति, वा । 'पूज् प वने' (भ्वा० आ० से ० ) । 'छापूखडिभ्य: कित्' ( उ० १॥ १२४ ) इति गन् । मुकुटस्तु - पूज्यते मान्यते सेचन | दिना फलद्वारेण, अनेन, वा । घनि कुत्वे पूगः - इत्याह । तन्न । पूजेचुरादिण्यन्तत्वेन णिलोपस्य स्थानिवत्त्वेन कुत्वाप्रसङ्गात् । १ - लद्वितीय रेफचतुर्थः 'नालिकेर चित स्तिलकः" इति दमय न्तीश्लेषात् । २ - रद्वितीयलचतुर्थः 'नारिकेलीमहावीरैरिव नारिके- तृणमर्जुनम् ॥ १६७ ॥ ( तृणमिति ॥ तृप्यते । 'तृणु' अदने' ( त० उ० सें० ) । लीवनैः' इति वासवदत्ताश्लेषात् ॥ अमर० २४