पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ शाक मेदाः स्युः शाकेति ॥ कलम्ब्यायाः पञ्च शाकमेदाः स्युः । 'शाकाख्यं पत्रपुष्पादि' इत्यत आरभ्य च । 'मण्डूकपर्णी पालक्या चिल्लिका चाप्युपोदिका । चाङ्गेरी हिलमोचा च कलम्बी शाकजातयः' इति माला ॥ ( अमरकोषः । दूर्वा तु शतपर्विका । सहस्रवीर्याभार्गव्यौ रुहानन्ता दूर्वेति ॥ दूर्वति, दूर्व्यते वा । 'दूर्वी हिंसायाम्' ( भ्वा० प० से० ) | अच् (३|११३४) | घञ् (३|३|१९ ) वा । 'उपधायां च' (८|२|७८) इति दीर्घः ॥ (१) ॥ ॥ शतं पर्वाण्यस्याः । 'शेषात्' (५१४/१५४) इति कप् | शतं पर्वति । ‘पर्व पूरणे' (भ्वा० प० से ० ) | ण्वुल् (३|१|१३३ ) । 'शत- पर्विका तु दूर्वायां वचायामपि योषिति' ( इति मेदिनी ) ॥ (२) ॥*॥ सहस्रं वीर्याण्यस्याः ॥ (३) ॥ * ॥ भृगोरियम् । ‘भार्गवी पार्वतीश्रियोः। दूर्वायाम्' ( इति मेदिनी) ॥ (४) ॥*॥ छिन्नापि रोहृति । ‘इगुपध-' (३२१११३५) इति कः ॥ (५) ॥*॥ न अन्तो यस्याः । 'अनन्ता च विशल्यायो शारि- चावूयोरपि । कणादुरालभापथ्यापार्वत्यामलकीषु च । विश्वं ● भरागुडूच्योः स्यादन्तं सुरवर्त्मनि । अनन्तः केशवे शेषे पुमान्निरवधौ त्रिषु' ( इति मेदिनी ) ॥ ( ६ ) ॥ ॥ षट् | 'दूर्वायाः' ॥ · अथ सा सिता ॥ १५८ ॥ गोलोमी शतवीर्या च गण्डाली शकुलाक्षकः । अथेति ॥ सा दूर्वा । सिता शुक्ला । लोमसु जांता । "तत्र जात:' (४॥३१२५ ) इत्यण् । संज्ञापूर्वकत्वान्न वृद्धिः । 'गोलो मी श्वेतदूर्वायां स्याद्वचाभूतकेशयोः' ( इति मेदिनी ) ॥ (१) ॥*॥ शतं बीर्याण्यस्याः ॥ (२) ॥ ॥ गण्डति | 'गडि वदनैकदेशे' (भ्वा० प० से० ) । बाहुलकादालञ् । गण्डम- लति वा । ‘कर्मण्यण्’ (३।२।१ ) । 'टिड्डा-' (४/१।१५) इति डीप् । गौरादिः (४|१|४१ ) वा ॥ (३) ॥ ॥ शकुलस्य मत्स्य- स्येवाक्षि यस्य । ‘अक्ष्णोऽदर्शनात्' (५१४१७६) इत्यच् | स्वार्थे कन् (५॥३॥७५) ॥ (४) ॥’॥ चत्वारि ‘शुक्लदूर्वायाः। 'स्वामी तु-परे द्वे दूर्वाभेदस्य – इत्याह ॥ कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् ॥१५९॥ कुर्विति ॥ कुरून् विन्दति । 'वि लाभे' ( तु० उ० अ०)। ‘अनुपसर्गाल्लिम्प॰’ (३।१११३८ ) इति शः । 'कुरु- विन्दं रत्नभेदे मुस्ताकुमाषयोः पुमान्' इति विश्वमेदिन्यौ ॥ (१) ॥*॥ मेघनामानि नामान्यस्य ॥ (२) ॥ ॥ मुस्तयति । 'मुस्त संघाते' चुरादिः । अच् (३११३४) ॥ (३) ॥ ॥ वुल् (३।१।१३३) ॥ (४) ॥ ॥ चत्वारि 'मुस्तायाः' 'मोथा' इति ख्यातायाः ॥ [ द्वितीयं काण्डम् याद्रमुस्तको गुन्द्रा स्यादिति ॥ भन्दते । 'भदि कल्याणे' ( भ्वा० आ० से० ) 'ऋजेन्द्र- ' ( उ० २११८) इति साधुः । भद्रं करोति वा । 'तत्करोति' (वा० ३।१।२६) इति ण्यन्तादच् ( ३ | १ | १३४) । भद्रश्चासौ मुस्तकश्च ॥ ॥ 'भद्रम्' अपि नाम । 'भद्रं स्यान्मङ्गले हेनि मुस्तके करणान्तरे' इति रुद्रः ॥ ( १ ) ॥ * ॥ गां जलं द्राति । 'द्रा गतौ ' ( अ० प० अ० ) 'आतो- स्तेजनके स्त्री तु प्रियंगौ भद्रमुस्तके’ (इति मेदिनी) ॥ (२) ऽनुप-’ (३।२।३) इति कः । पृषोदरादिः (६।३।१०९) । 'गुन्द्र- ॥ * ॥ द्वे 'नागरमोथा' इति ख्यातस्य || चूडाला चक्रलोच्चटा | चूडेति ॥ चूडास्त्यस्याः । 'प्राणिस्थादातो लजन्यतर- स्याम्' (५|२|९६) । 'चूडाला तूचटायां स्त्री चूडावति च वाच्यवत्' ( इति मेदिनी) ॥ (१) ॥*॥ चक्रं लाति । ‘आतो- अनुप -', (३|२|३) इति कः ॥ (२) ॥ ॥ उच्चटति । ‘चट गतौ ( भ्वा०प० से ० ) अन्तर्भावितण्यर्थः। अच् (३।१। १३४) ॥ (३) ॥ * ॥ त्रीणि 'मुस्ताविशेषस्य' ॥ वंशे त्वक्सारकर्मारत्वचिसार तृणध्वजाः ॥ १६० ॥ शतपर्वा यवफलो वेणुमस्करतेजनाः । वंशे इति ॥ - वमति | 'टुवम उद्भिरणे' (भ्वा०प० से० ) 'वृभृवमिकुभ्यः शक्' - इति मुकुटः । तन्न । उक्तसू- त्रस्योज्वलदसादिवृत्तिष्वदर्शनात् । अनुनासिकलोपस्य (६३४ | ३७) उपधादीर्घस्य (६९४ | १५ ) च प्रसङ्गाच्च । कुशभृशयो- र्धात्वन्तरेण सिद्धत्वाच । वनति, वन्यते, वा । 'वन शब्दे' ( भ्वा० प० से० ) । बाहुलकाच् शः | उश्यते, वष्टि, वा 'वश कान्तौ' ( अ० प० से ० ) घञ् (३|३|१९ ) | संज्ञापूर्वक- त्वान वृद्धिः | अच् (३।१।१३४) | ‘संख्या वंश्येन' (२|१| वेsपि च ' ( इति विश्वः) ॥ ( १ ) ॥ ॥ स्वक् स्खि १९) इति निर्देशानुम् । 'वंशो वेणौ कुले वर्गे पृष्ठाद्यवय- सारोऽस्य ॥ (२) ॥ ॥ कर्म क्रियामृच्छति । 'कर्मण्यण् (३१२११) ॥ (३) ॥ * ॥ ‘हलदन्तात्—’ (६।३।९) इति वा लुक् ॥ (४) ॥*॥ तृणेषु ध्वज इव ॥ (५) ॥ ॥ शतं पर्वाण्यस्य ॥ मांसिकायां (६) ॥ * ॥ यव इव फलान्यस्य । 'यवफलो कुटजत्वचिसारयोः' इति हैमः ॥ (७) ॥ ॥ वेणति । 'वेणू निशामनवादित्राद्रानगमनज्ञानचिन्तासु' ( भ्वा० उ० से ० )। बाहुलकादुः । यद्वा अजति 'अजिटरीभ्यो निच' (उ० ३१३८) इति णुः । 'अजेवीं-' (१।४।५६) |-- वयन्ति शोभन्ते खनेन । 'वी' धातोः 'धेन्वादयश्च' इति नुः, णत्वं च - इति सुभूतिः | तन उक्तसूत्राभावात् । 'वी' धातोरादादिकत्वेन 'वयन्ति' इति रूपाभावाच । 'वेणुर्नृपान्तरे | त्वक्सारेऽपि च पुंसि स्यात्' (इति मेदिनी) ॥ (८) ॥ ॥ मस्कते, अनेन वा । 'मस्क गतौ' ( स्वा० आ० से० ) । बाहुलकादरः । यद्वा