पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] 'अलाम्बुस्तु पिण्डफला तुम्बिस्तुम्बी महाफला । तुम्बा तु वर्तुलाइलाबूनि ( र्नि)म्बचूर्णा तु लाबुका' इति वाच - स्पतिः । 'अलावूस्तुम्बकः प्रोक्तः' इति चन्द्रः ॥ ( २ ) ॥ * ॥ द्वे 'तुम्बा' इति ख्यातायाः ॥ चित्रा गवाक्षी गोडुबा व्याख्यासुधाख्यव्याख्यासमेतः । । चित्रेति ॥ चीयते । 'चिञ् चयने' ( स्वा० उ० अ० ) । ‘अमिचि - ' ( उ० ४।१६४) इति कः । 'चित्राखुपर्णी गोडु- म्बासुभद्रादन्तिकासु च । मायायां सर्पनक्षत्रनदीभेदेषु च स्त्रियाम्' (इति मेदिनी) ॥ (१) ॥ ॥ गां भूमिमक्ष्णोति । 'अक्षू व्याप्तौ' ( भ्वा० प० से ० ) । 'कर्मण्यण् ' ( ३१२ ॥१) । 'गवाक्षी विन्द्रवारुण्यां गवाक्षो जालके कपौ' इति हैमः ॥ (२) ॥*॥ गां भुवं तुम्बति । 'तुबि अर्दने' (भ्वा०प० से ० ) | मूलविभुजादिकः (वा० ३१२१५) | टाप् (४११॥४) । पृषोदरादिः (६।३।१०९) । मुकुटस्तु - गां डम्बयति । 'डुबि अर्दने' अण् (३।२।१ ) — इत्याह । तन्न । धातुपाठेषु डुबि- धातोरदर्शनात् । अणि ङीप्रसङ्गाच ॥ (३) | || त्रीणि 'कर्कटीविशेषस्य' || विशाला विन्द्रवारुणी ॥ १५६ ॥ विशेति ॥ विशलति । 'शल चलने' ( भ्वा०प० से ० ) । 'ज्वलति - ' (३।१।१४०) इति णः | टापू (४|११४) विशति वा । अत्र वा । 'विश प्रवेशने' ( तु०प० से ० ) । ‘तमिविशिविडि–’ (उ० ११११८) इति कालन् । 'विशाला विन्द्रवारुण्यामुज्जयिन्यां तु योषिति । नृपवृक्षभिदोः पुंसि पृथुलेऽप्यभिधेयवत्' (इति मेदिनी) ॥ ( १ ) ॥ ॥ इन्द्रं वार- यति । 'वृञ् वरणे' चुरादिः | 'कृवृदारि - ' ( उ० ३८५३) इति बाहुलकाद् ण्यन्तादप्युनन् । यत्तु मुकुटः- इन्द्रवरुणौ देवते अस्याः । अण् (४।२।२४) । (उत्तरपदस्य च ( ७७३ | १०) इत्युत्तरपदवृद्धिः— इत्याह । तन्न । मन्त्रहविषोरेव स्वामिनि देवतात्वव्यवहारात् । 'उत्तरपदस्य च ' ( ७१३|१०) इत्यस्याधि- कारत्वेन वृद्धिविधायकत्वाभावाच ॥ (२) ॥ ॥ द्वे 'इन्द्रवा रुणी' इति ख्यातायाः ॥ अर्शोघ्नः शूरणः कन्दः अर्शविति ॥ अर्शासि हन्ति । 'अमनुष्य - ' ( ३२ ५३) इति टक् ॥ ( १ ) ॥ ॥ सूर्यते । 'शूरी हिंसायाम्' ( दि० आ० से० ) । 'बहुलमन्यत्रापि ' ( उ० २१७८) इति युच् । कर्तरि ल्युट् (३|३|११३) वा । यत्तु शूरति - इति विगृहीतं मुकुटेन । तन्न । शूरीधातोर्दिवाद्यात्मनेपदित्वात् ॥ ॥ सूर्यते । ‘सूरी हिंसायाम्’ । युच् (उ० २।७८) | ल्युट् (३।१।११३) वा । इति (सूरणः) दन्त्यादिरपि ॥ ( २ ) ॥ ॥ कन्दति । कन्दयति । कन्य॒ते वा । अच् (३ | १ | १३४) | घञ् (३|३|| १९) वा । 'कन्दोऽस्त्री सूरणे सस्यमूले जलधरे पुमान्' (इति मेदिनी) ॥ (३) ॥*॥ त्रीणि 'सूरण' इति ख्यातस्य ॥ १८१ गण्डीरस्तु समष्टिला । गण्डीति ॥ गण्डति, गण्ड्यते, वा । 'गडि वदनैकदेशे ( भ्वा० प० से ० ) | बाहुलकादीरन् । यद्वा गण्डीन् ग्रन्थीनी- रयति । 'ईर प्रेरणे' ( अ० आ० से ० ) 'कर्मण्यण' (३।२।१ ) ॥ (१) ॥॥ समे तिष्ठति । 'मिथिलादयश्च ' ( उ० ११५७) इति साधुः । यद्वा सम्यगष्ठिला बीजं यस्याः । गण्डीरो ना समष्टिला' इति माला ॥ (२) ॥ ॥ द्वे 'गाण्डरदूवी' इति ख्यातस्यानूपजशाकभेदस्य । 'गडिनी' इति भाषा | कलम्बी केति ॥ कडति । 'कड मदे' ( भ्वा०प० से ० ) । 'कृक- दिकडिकटिभ्योऽम्बच्' ( उ० ४८८२) । डलयोरेकत्वम् । कें जले लम्बते । 'लबि अवस्रंसने ' ( भ्वा० आ० से ० ) । पचा शतपर्वा कलम्बूर्वासु वीरुधः' इति वाचस्पतिः । 'कलम्बी द्यच् (३।१।१३४) । गौरादिः (४|११४१) | 'कलम्बी तु शाकमेदेऽपि कदम्बशरयोः पुमान्' (इति मेदिनी) ॥ (१) ॥*॥ एकं 'करेम्बु' इति ख्यातस्य ॥ उपोदका उपेति ॥ उपाधिकमुदकमस्याम् । उत्तरपदस्य च' (वा० ६।३।५७) इत्युदः । कप् (५१४|१५४) । टाप् (४२११४) ॥ * ॥ - अपगतोदका । जाङ्गलत्वात् । 'अपोदका' - इति स्वामी ॥ (१) ॥ ॥ एकम् 'पोई' इति ख्यातस्य ॥ अस्त्री तु मूलकं मूलति ॥ 'मूल प्रतिष्ठायाम् ' ( भ्वा० प० से ० ) । कुन् ( उ० २१३२ ) | यद्वा मूलयति । 'मूल रोहणे' चुरादिः । अच् (३११३४) | 'संज्ञायां कन्' (५१३१७५ ) ॥ (१) ॥*॥ एकम् 'मूली' इति ख्यातस्य || हिलमोचिका ॥ १५७ ॥ हिलेति ॥ हिलति । 'हिल भावकरणे' ( तु०प० से० ) । 'इगुपध-' (३।१।१३५) इति कः | मोचयति । ण्वुल् (३॥ १ ॥ (१३३ ) | हिला चासौ मोचिका च । 'दयापोः - ' (६|३|६३ ) इति हखः ॥ (१) ॥ * ॥ एकम् 'हिलसाल' इति ख्यातस्य || वास्तुकम् वेति ॥ वसति देहे। चिरं गुणा वाऽस्मिन् वसन्ति । 'वस निवासे' ( भ्वा०प० अ० ) । 'उलूकादयश्च' ( उ० ४१४१) इति साधु ॥ ॥ वास्तौ भवम् । अध्यात्मादिठञ् (वा० ४।३।६०) । ‘इसुसुक् - ' ( ७१३१५१) इति कः । एवं ( वास्तुकम् ) हस्वैमध्यमपि ॥ (१) ॥ ॥ एकं 'बथुवा' इति ख्यातस्य || १- 'रम्या वास्तववास्तुकस्तबकिता' इति प्रयोगात् - इति मुकुटः ।।