पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । १७९ क्तिच् (३।३।१७४) | पृषोदरादिः (६|३|१०९) । यत्तु - ‘गर्षति हिनस्ति रोगम्' 'गृषु हिंसायाम्' तिन् (३१३१९४)- ख्यातं मुकुटेन । तन्न । उक्तधातोरदर्शनात् । कर्तरि क्तिनोऽसंभवाच्च । 'अथ गृष्टिः सकृत्सूतगवीबदरयोः स्त्रियाम्' । १॥४१) ङीष् | यत्तु – 'पाककर्ण-' (४११६४) इति डी- इत्याह मुकुटः | तन्न | 'सदच्काण्ड -' (ग०४२११४) (वा | ६४) इत्यस्य तदपवादत्वात् ॥ (६) ॥ ॥ के आरौति । पचा- द्यच् । यत्तु मुकुट आह - कारोरियम् कारवी इति । तन | (इति मेदिनी) ॥*॥ ‘घृष्टिः' इति पाठान्तरम् । घर्षति । 'घृषु 'वृद्धाच्छ:' (४२११४) इत्यस्याणपवादत्वात् । 'कारवी' संघर्षे' (भ्वा० प० से०) । क्तिच् (३।३।१७४) । ‘घृष्टिः स्त्री मधुरादीप्यत्वक्पत्रीकृष्णजीरके' इति मेदिनी ॥ (७) ॥*॥ सप्ते घर्षणस्पर्धा विष्णुकान्तासु ना किरौ' (इति मेदिनी ) ॥ (२) 'मधुरायाः' 'सौंफ' इति ख्यातायाः । अन्त्यद्वयम् 'उधा- ॥ ॥ वराहस्येयम् । प्रियत्वात् । 'तस्येदम्' ( ४ | ३ | १२०) चली' इति ख्यातायाः—इत्येके ॥ इत्यण् 'वाराही मातृभेदे स्याद्विष्वक्सेनप्रियौषधौ' ( इति मेदिनी) ॥ (३) ॥*॥ बदति । 'बद स्थैर्ये' (भ्वा०प० से॰) । बाहुलकादरन् । 'ब (व) दरा गृष्टिकार्पास्योरेलापर्व्यां स्त्रियां, पुमान् । कर्पासस्यास्थि, बदरी कोले क्लीवं तु तत्फले' (इति मेदिनी) ॥ (४) ॥ ॥ चत्वारि 'वाराहीकन्द' इति } ख्यातायाः ॥ मार्कवो भृङ्गराजः स्यात् मार्केति ॥ मारयति । क्विप् (३|२|१७८ ) | मारि केश- शौक्लथनाशने कूयते । ‘कुङ् शब्दे' (भ्वा० आ० अ०) । ‘ऋरोरप्’ (३।३।५७) ॥ (१) ॥ * ॥ भृङ्ग इव राजते । 'राजू दीप्तौ' (भ्वा० उ० से ० ) | अच् (३१११३४) । (अथ भृङ्गराज उक्तः पक्षिविशेषे च मार्कवे भ्रमरे' (इति मेदिनी ) । 'भृङ्गरजः' इति पाठे भृङ्ग इव रजोऽस्य । सान्तोऽदन्तोऽपि । रजशब्दस्य है विध्यात् । 'स्यान्मार्कवो भृङ्गरजः भृङ्गराजः सुजागरः' इति रभसात् ॥ ( २ ) ॥ ॥ द्वे 'भृङ्गराज' इति ख्यातस्य ॥ काकमाची तु वायसी ॥ १५१ ॥ काकेति ॥ काकान् मश्चते । 'मचि धारणोच्छ्रायपूजनेषु' ( भ्वा० आ० से ० ) । 'कर्मण्यण' (३।२।१ ) | आगमशास्त्रस्या- नित्यत्वान्न नुम् ॥ (१) ॥ ॥ वायसानामियम् | 'तस्येदम्' (४ | ३ | १२०) इत्यण् । 'काकोदुम्बरिकायां च काकमाच्यां च वायसी' (इति मेदिनी) ॥ (२) ॥ ॥ द्वे 'काकमाच्या ः' 'कवप्रिया' इति ख्यातायाः ॥ शतपुष्पा सितच्छन्त्राऽतिच्छन्ना मधुरा मिसिः | अवाक्पुष्पी कारवी च शतेति ॥ शतं पुष्पाण्यस्याः | 'सदच्काण्ड -' (ग० ४| १।४) इति टाप् ॥ (१) ॥*॥ सितं बद्धं शुभं वा छत्रमस्याः ॥ (२) ॥ ॥ छत्रमतिक्रान्ता । 'अत्यादयः - (वा० २१ २ (१८) इति समासः ॥ (३) ॥*॥ मधुरस्त्यस्याः | 'ऊषशुषि - ' ( ५ | २।१०७) इति रः । 'मधुरा शतपुष्पायां मिश्रेयानगरीभिदोः' (इति मेदिनी) ॥ (४) ॥*॥ मस्यति । 'मसी परिणामे' (दि० प० से ० ) । इन् ( उ० ४२११८) | पृषोदरादिः (६।३।१०९) । 'मिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः' ( इति मेदि- नी) ॥ ( ५ ) ॥२॥ अवाचि पुष्पाण्यस्माः । गौरादित्वात् (४) सरणा तु प्रसारिणी ॥ १५२ ॥ तस्यां कटंभरा राजबला भद्रबलेति च । सरेति ॥ सरति । 'सृ गतौ' (वा०प०अ०) । 'बहु- लमन्यत्रापि ' ( उ० २।७८) इति युंच् ॥ ॥ ल्युटि (३।३।११३) 'सरणी' इत्यपि । 'सरणा सरणी चाव कटंभरा महाबला' इति रुद्रः ॥ (१) ॥*॥ प्रसार्यतेऽङ्गमनया | 'करणा-१ (३|३| ११३ ) इति ल्युट् ॥|| 'सारणी' इत्यपि | ('सारणो राक्षसान्त रे) । रुग्मेदे ना, प्रसारण्यां स्वल्पनयां च सारिणी' (इति मेदिनी) ॥ (२) ॥ ॥ कटं बिभर्ति | 'संज्ञायां भृतृ - (३२१२१४६) इति खच् ॥ ( ३ ) ॥ * ॥ बलानां बलप्रदाना राजेव । राजदन्तादिः (२१२ १३ १ ) ॥ ( ४ ) ॥ ॥ भद्रं बलमस्याः ॥ (५) ॥ ॥*॥ पञ्च 'कुलप्रसारिणी' इति । ख्यातायाः ॥ जनी जतूका रजनी जतुकृच्चक्रवर्तिनी ॥ १५३ ॥ संस्पर्शा जनीति ॥ जायते आरोग्यमनया । 'जनिघसिभ्यामि' ( उ० ४|१३०) | ‘जनिवध्योश्च' (७|३|३५) इति न वृद्धिः ॥ 'कृदि-' (ग० ४२११४५) इति वा ङीष् । 'जनी सीम- न्तिनीवध्वोरुत्पत्तावोषधीभिदि ' ( इति मेदिनी) ॥ (१) ॥*k जायते। 'जनी' (दि० आ० से ० ) । 'उलूकादयश्च' ( उ० ४१४१) इति साधुः ॥ ॥ जतुशब्दात् ' संज्ञायां - ' (५१३३७५) इति कनि 'जतुका' च ॥ (२) ॥ ॥ रज्यतेऽनया 'रञ्ज रागे' (भ्वा० उ० अ०) । 'करणा-' (३३१११७) इति ल्युट् | - 'यजरज-' (३२२११४२) इति निपातनात् क्वैचिद- १ - इदं च 'धिनुणि च' । घिणि चोपसंख्यानं कर्तव्यम् । रागी । | घिणुनि निपातनात्सिद्धम् । किं निपातनम् । '-यजरज' (३।२।१४२) इति । अशक्यं धातुनिर्देशे निपातनत्वमाश्रयितुम् । इह हि दोषः स्यात् । 'दशनह: करणे (३२२|१८२ ) | दंद्रा | नैतद्धातुनिपातनम् | किं तर्हि प्रत्ययान्तस्यैतद्रूपम् । तस्मिंश्च प्रत्यये लोपो भवति' इति भाष्येण प्रत्ययान्तस्येति । शमन्तस्येत्यर्थः । यङ्लुङ् निवृत्त्यर्थश्च तत्र शनिर्देशः । यङ्लुङन्ताद्रजेर्न भवति' इति कैयटेन च विरुद्धम्। तस्मात् 'रः क्युन्' (उ० २१७९) इति क्युनि कित्त्वान्न लोपः । गौरा दित्वात् (४|१|४१) डीप् इति बोध्यम् ॥