पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ यस्य । तत्तुल्यपुष्पत्वात् । ‘अक्ष्णोऽदर्शनाद्' (५।४।७६) इत्यच्- इति स्वामी ॥ (६) ॥*॥ षट् 'पद्माटस्य' 'पुआड' इति ख्यातस्य ॥ अमरकोषः । पलाण्डस्तु सुकन्दकः ॥ १४७ ॥ पलेति ॥ पलति । 'पल रक्षणे' ( भ्वा० प० से ० ) बाहुलकाद् आण्डप्रत्ययः ॥ (१) ॥ ॥ शोभनमतीव वा कन्द- यति । भक्षकजातिभ्रंशकत्वात् । 'कदि रोदने' (भ्वा०प० से० ) अच् (३|१|१३४) | खार्थे कन् (५|३|७५ ) | वुल् (३।१।१३३) वा ॥ (२) ॥ * ॥ द्वे 'पलाण्डो 'प्याज' इति ख्यातस्य ॥ लतार्कदुमौ तत्र हरिते लतेति ॥ लतासु अर्क्सते, अर्च्यते विरुद्धलक्षणया निन्यते वा । ‘अर्क स्तवने’ ( भ्वा० प० से ० ) । 'अर्च पूजायाम्' ( भ्वा० प० से० ) वा । घञ् (३॥ ३॥ १९ ) ॥ (१) ॥ ॥ दुष्टो द्रुमः ॥ (२) ॥॥ तंत्र पलाण्डौ । हरिते पालाशे || द्वे 'हरिद्वर्णपलाण्डो' ॥ [ द्वितीयं काण्डम् 'अमनुष्य - ' ( ३१२१५३) इति टक् । 'ड्डिा-' (४/१/१५) इति ङीप् ॥ ( २ ) ॥ * ॥ द्वे 'पुनर्नवाया:' 'गदहपूर्णा' इति ख्यातायाः ॥ पुनेति ॥ पुनरभीक्ष्णं नवा | नूयते वा 'ऋदोरप्' (३) १५७) । क्षुम्नादिः (८।४।३९) ॥ (१) ॥ ॥ शोथं हृन्ति | वितुन्नं सुनिषण्णकम् । वीति ॥ विगतं तुनं व्यथनमस्मात् । 'वितुनं सुनि- षण्णे च शैवाले च नपुंसकम् ' ( इति मेदिनी) ॥ (१) ॥*॥ सुष्टु निषण्णमस्मात् ॥ (२) ॥ * ॥ द्वे 'वितुन्नस्य' 'विषख- परिआ' इति ख्यातस्य ॥ स्याद्वातकः शीतलोऽपराजिता शणपर्ण्यपि ॥१४९ ॥ स्यादिति ॥ वातं करोति 'अन्येभ्योऽपि -' (वा० ३।२। १०१) इति उः ॥ (१) ॥ * ॥ शीतं लाति । 'आतोऽनुप- ' (३१२ | ३) इति कः ॥ * ॥ 'शीतलवातकः' इत्यपि नाम । 'शण- पर्णी शीतलवातकः' इति धन्वन्तरिः ॥ (२) ॥ ॥ न पराजिता । 'अपराजित ईशाज्येष्ट्यन्तरे नाऽजिते त्रिषु । गिरिकर्णी जयादुर्गाऽशणपर्णीषु योषिति' (इति मेदिनी) ॥ (३) ॥ ॥ शणः पर्णान्यस्याः । शणशब्दः शणपर्णसदृशे लाक्षणिकः 'पाककर्ण -' (४१६४) इति ङीष् ॥॥ - अशन इव पर्ण- मस्याः । (अशनपर्णी) - इति कश्चित् ॥ ( ४ ) ॥ ॥ चत्वारि 'शतपर्ण्या:' 'पटशण' इति ख्यातस्य || अथ महौषधम् । लशुनं गृजनारिष्टमहाकन्दरसोनकाः ॥ १४८ ॥ अथेति ॥ महत्च तदौषधं च । 'महौषधं तु शुण्ठ्यां स्याद्विषायां लशुनेऽपि च ( इति मेदिनी ) ॥ (१) ॥*॥ अश्नाति । अश्रुते वा । ‘अश भोजने' ( क्र्या०प० से ० ) । ‘अशूङ् व्याप्तौ’ ( स्वा॰ आ० से ० ) । अशेश च' ( उ० ३ | ५७) इत्युनन् ॥ (२) ॥॥ शृञ्जते भक्ष्यत्वेन कथ्यते रोगेषु । ‘गृजि शब्दे’ (भ्वा० प० से०) । कर्मणि ल्युट् । 'गृञ्जनम् । विषदिग्धपशोर्मांसे क्लींचं, पुंसि रसोनके' (इति मेदिनी) । ‘लशुनं गृञ्जनं चैव पलाण्डुकवकानि च । वृत्ताकारालिकालायुजा- तीया जातिदूषितम्' इति । श्वेतकन्दः पलाण्डुविशेषो नम् । ‘लशुनं दीर्घपत्रश्च पिच्छगन्धो महौषधम् । फरणश्च पलाण्डुश्व लतार्कश्चापराजिता । गृञ्जनं यवनेष्टश्च पलाण्डोदेश जातयः' इति सुश्रुतेनोक्तत्वात् । 'गन्धाकृतिरसैस्तुल्यो गृञ्ज- नस्तु पलाण्डुना । दीर्घनालाग्रपत्रत्वात् भियतेऽसौ पलाण्डुतः' गृक्ष- ख्यातायाः ॥ वार्षिकं त्रायमाणा स्यात्रायन्ती बलभद्रिका ॥ १५० ॥ वेति ॥ वर्षासु भवं जातं वा । 'वर्षाभ्यष्ठ' ( ४ | ३ १८) । 'वार्षिकं त्रायमाणायां क्लीबं वर्षाभवे त्रिषु' ( इति ॥ (३) ॥॥ न रिष्टमशुभमस्मात् । 'अरिष्टो लशुने निम्बे | मेदिनी) ॥ (१) ॥ * ॥ त्रायते | ‘त्रैङ् पालने' (भ्वा० आ० फेनिले काककङ्कयोः । अरिष्टमशुभे तक्रे सूतिकागार आसवे । शुभे मरणचिह्ने च' (इति मेदिनी ) ॥ (४) ॥ ॥ महत् कन्दमस्य ॥ (५) ॥*॥ रसे आस्वादने ऊन्यते पातकहेतु- त्वात् । ‘ऊन परिहाणे’ ( चु० उ० से ० ) | ‘एरच्' (३|३| ५६) । घञ् (३॥३॥१९) वा | स्वार्थे कनू (५|३|७५) कुन् (उ० २।३२) वा ॥ (६) ॥ * ॥ षट् 'लशुन' इति ख्यातस्य ॥ पुनर्नवा तु शोथनी अ०) । शानच् (३|२|१२४) चानश् ( ३।२।१२९ ) वा । ('त्रयमाणा वार्षिके स्त्री रक्ष्यमाणेऽभिधेयवत्' इति मेदिनी) ॥ (२) ॥ * ॥ त्राणम् | त्राः | संपदादिः (वा० ३।३।१०८ ) त्रा अयति | 'इ गतौ' ( भ्वा० प० से ० ) | शता (३॥ १२ ॥ १२४) । (डीप् ४११६) । 'प्योः' (७१११८१) इति नुम् ) ॥ (३) ॥ ॥ बलेन भद्रा | स्वार्थे कन् (५।३।७५) ॥ (४) ॥ * ॥ चत्वारि 'त्रायमाण' इति ख्यातस्य || विष्वक्सेनप्रिया गृष्टिर्वाही बदति च । वीति ॥ विष्वक्सेनस्य प्रिया ॥ (१) | | गृह्णाति । पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता । द्धाति । 'अन्येभ्योऽपि ' ( वा० ३।२।१०१) इति डः । पारेति ॥ पारावत इवाङ्गिरस्याः || ( १ ) | || कटव- गौरादिः (४॥१॥४१) ॥ (२) ॥ ॥ पण्यते । ‘पण व्यवहारे’ ( भ्वा० आ० से ० ) । 'अवयपण्य–’ (३।१।१०१) इति साधुः ॥ (३) ॥॥ ज्योतिरस्त्यस्याः । मतुप् (५|२|९४) ॥ (४) ॥ ॥ लतति | 'लतिः सौत्रः' । अच् (३।१।१३४) ॥ (५) ॥ ॥ पञ्च 'ज्योतिष्मत्याः' 'मालकांगणी' इति