पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] त्यत्वात् 'उपमानाच' (५|४|१३७) इतीन ॥ ॥ 'ऋष्यगन्धा इति पाठान्तरम् ॥ (१) ||| छगलस्येवान्त्रमस्याः || || ‘छगला' इति पृथग् नाम – इयन्ये । 'छागे तु छगलश्छागीत्र- द्धदारकयोः स्त्रियाम्' इत्यनेकार्थकोशः ॥ ( २ ) ॥ * ॥ आवेगो- इस्त्यस्याः ‘अर्शआद्यच्’ (५|२|१२७) | गौरादिः (४१४१) ॥ (३) ॥ ॥ वृद्धो दारकोऽस्मात् । वृद्धत्वं दारयति वा । ण्वुल् (३|१|१३३) ॥ (४) ॥ * ॥ जुङ्गति | 'जुगि वर्जने' ( भ्वा० प० से ० ) | अच्च् (३ | १ | १३४) जुङ्गवा | घ (३।३।१९) ॥ (५) ॥॥ पञ्च 'वृद्धदारकस्य' || व्याख्यासुधाख्यव्याख्यासमेतः । ब्राह्मी तु मत्स्याक्षी वयस्था सोमवल्लरी ॥ १३७ ॥ ब्राह्मीति ॥ ब्रह्मण इयम् । झोऽजातौ (६|४|१७१) इत्यणि टिलोपः ॥ (१) ॥*॥ मत्स्याक्षीव पुष्पमस्याः | मत्स्य- शब्दः स्वावयवे गौणः । ‘बहुत्रीहौ ' (५/४/११३) इति षचु ङीष् (४११॥४१) ॥ (२) | || वयसि तिष्ठत्यनया । 'घनथें कः' (वा० ३।३।५८) | 'वयस्था तु स्त्रियां ब्राह्मीगुडूच्या- मलकीषु च । सूक्ष्मैलायां च काकोल्यां पथ्यायां तरुणे त्रिषु' (इति मेदिनी ) ॥ (३) ॥*॥ सोमस्य बल्लरी | ( ४ ) ॥ ॥ चलारि 'ब्रायाः' || पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती । || पनि पर्णान्यस्याः । 'पाककर्ण -' (४|१|६४) इति ङीष् ॥ ( १ ) ॥ * ॥ हिमवति जाता । 'तत्र जातः' (४| ३।२५) इल्यण् ॥ (२) ॥*॥ स्वर्णमिव क्षीरमस्याः । गौरादिः (४॥१॥४१) ॥ (३) ॥॥ हिममस्त्यस्याः | मतुप् (५।३। ९४)। ‘शरादीनां च’ (६।३।१२०) इति दीर्घः ॥ ( ४ ) ॥ ॥ ‘हेमवर्णं पयस्तस्या हिमवद्भूमिसंभवा । सा नागजिविकाकारा तन्मूलं वणिजौषधम्’ ॥ ॥ चत्वारि 'स्वर्णक्षीर्याः' 'मको' इति ख्यातायाः ॥ हयपुच्छी तु काम्बोजी माषपर्णी महासहा ॥ १३८ ॥ हयेति ॥ हयपुच्छमिव पर्णान्यस्याः | गौरादिः (४|१| ४१) ॥ (१) ॥*॥ कम्बोजे देशे भवा । 'तत्र भवः' (४ ३॥५३) इत्यण् ॥ (२) ॥*॥ माषस्येव पर्णाम्यस्याः । ‘पाक- कर्ण–' (४१११६४) इति ङीष् ॥ ( ३ ) ॥ ॥ महती सहा 'आन्महत:-' (६।३।४६) इत्यात्वम् 'महासहा माषपर्ण्याम म्लानेऽपि च योषिति’ ( इति मेदिनी ) ॥ (४) ॥॥ चत्वारि 'माषपर्ष्याः' ॥ तुण्डिकेरी रक्तफला बिम्बिका पीलुपर्ण्यपि । तुण्डीति ॥ तुण्डं चक्षुरस्ति येषाम् । 'अतः' (५॥२॥ ११५) इति ठन् । तुण्डिकानीरयति । 'ईर प्रेरणे' (अ० आ० से॰ )। ‘कर्मण्यण्’ (३१२११ ) ॥ ॥ ( तुण्डकेरी) इति पाठान्तरे प्रशस्तं तुण्डम् । 'प्रशंसायां कन्' ( ) । तुण्ड- कमीर्ते | अण् (३।२।१ ) ॥ (१) ॥ * ॥ रतं फलमस्याः । अजा- १७५ दिटाप् (४|१४) || ( २ ) || बिम्ब कायति । 'कै शब्दे' ( भ्वा० प० से ० ) । 'आतोऽनुप - ' ( ३|२|३) इति कः | 'ङयापोः' (६|३|६३ ) इति हवः ॥ ( ३ ) ॥*॥ पीलोरिव पर्णमस्याः | पीलुशन्द: खावयवे गौणः । 'पाककर्ण-' (४) १९६४) इति ङीष् ॥ ( ४ ) ॥ * ॥ चत्वारि 'तुण्डिकेर्याः 'कुण्टुरी' इति ख्यातायाः ॥ वर्षरा कवरी तुङ्गी खरपुष्पाजगन्धिका ॥ १३९ ॥ वर्वेति ॥ वृणोति । 'वृञ् वरणे' ( स्वा० उ० से० ) | 'कृ' ( उ० २११२१) इति वरच् | अनित्यः षितां ङीष् । 'वर्वरः पामरे केशे चक्रले नीवृदन्तरे । फञ्जिकायां पुमान् शाकभेदपुष्पमिदोः स्त्रियाम्' ( इति_मेदिनी ) ॥ (१) ॥* शिरसो वरी। 'कवरं लवणाम्लयोः | कवरी केशविन्यास- वृणोति । अच् (३|१|१३४) | गौरादिः (४|१४१ ) । कस्य शाकयोः' इति हैमः ॥ (२) ॥ * ॥ तुजति | 'तुजि हिंसायाम्' ( भ्वा०प० से ० ) अच् (३।१।१३५) । न्यङ्क्रादिः (७ प्रोक्ता हरिद्रायां वर्वरायामपीष्यते' (इति हैमः) ॥ (३) ॥* ३५३ ) | 'तुङ्गः पुंनागनगयोर्बुधे स्यादुन्नतेऽन्यवत् । तुझी खरं पुष्पमस्याः ॥ ( ४ ) || || अजस्येव गन्धोऽस्याः | अज- शब्दः स्वगन्धे लाक्षणिकः ॥ ( ५ ) ॥ ॥ पञ्च 'खरपु पायाः ॥ एलापर्णी तु सुवहा रास्ना युक्तरसा च सा | एलेति ॥ एलाया इव पर्णान्यस्याः | 'पाक' (४१६४) इति ङीष् ॥ (१) ॥ ॥ सुवहति | अच् (३|१|१३४) । 'सुवहा शलक्येलापणीगोधापदीषु लिकयोः स्त्री सुखवाह्येऽन्यलिङ्गः स्यात्' (इति मेदिनी) ॥ (२) । रानाशेफा- । रास्यतें ॥ * ॥ रासते | 'रास शब्दे' ( भ्वा० आ० से ० वा । 'रास्नासाना - ' ( उ० ३११५) इति साधुः ॥ (३) ॥॥ युक्तो रसो यस्याः ॥ ( ४ ) ॥ * ॥ चत्वारि 'एलापर्ष्याः' || चाङ्गेरी चुक्रिका दन्तशठाऽम्बष्टाऽम्ललोणिका १४ चेति ॥ 'चाङ्गस्तु शोभने दक्षे' (इति मेदिनी ) । चाङ्ग मीरयति । 'ईर् गतौ' ( अ० आ० से ० ) । 'कर्मण्यण' ( ३ | २१) ॥ (१) ॥ ॥ चुक्यति । 'चुक्क व्यथने' (चु०प०से०) । ऋजेन्द्र ' ( उ० २१ २८ ) इति साधु | स्वार्थे कनू (५॥३॥ ७५) । चुक्रमिव । ‘इवे प्रतिकृतौ' (५१३१९६ ) इति कन् वा ॥ (२) ॥ ॥ शठति | 'शठ हिंसाक्लेशकैतवे’ ( भ्वा०प० शठो जम्बीरे कपित्थे करमर्द । नागरनेऽपि च पुमान् से० ) | पचाद्यच् ( ३|१|१३४) दन्तानां शठा | 'स्याइन्त- स्याबायां च योषिति' ( इति मेदिनी ) ॥ (३) ॥ ॥ अम्बे १ - 'ऋजेन्द्र (उ० २१२८) इत्यत्र तु 'चुन' इत्युपलभ्यते ॥