पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वर्गवर्ग: १ ] देवकस्यापत्यं वा । ‘अत इञ्' (४|११९५ ) संज्ञापूर्वकत्वाड्ढ - ध्यभावः । ‘इतो मनुष्यजातेः' ( ४१११६५ ) इति ङीष् - इति च मुकुटः ॥ ( २८ ) ॥ ॥ शेरस्थापत्यम्, तद्वंशजत्वात् । वृष्णिवेऽपि बाह्लादित्वात् ( ४११९६ ) इज् ॥ ॥ 'सूरो यादवे दन्त्यवान्' इति माधवी । 'सौरिः' अपि ॥ ( २९ ) ॥*॥ श्रियः पतिः ( 'श्रीपतिर्विष्णुभूपयो: ' ) ॥ ( ३० ) |*|| पुरुषेषूत्तमः, पुरुषाणां पुरुषेभ्यो वोत्तमः ॥ ( ३१ ) ॥ * ॥ 'आपादपद्मं या माला वनमालेति सा मता' इति कलिङ्गः । सास्यास्ति । ब्रीह्यादित्वात् ( ५|२|११६ ) इनिः । वनं मलितुं शीलमस्य इति वा । 'मल धारणे' ( भ्वा० आ० से० ) । ‘सुपि-’ ( ३।२।७८ ) इति णिनिः । ( 'वनमाली तु गोविन्दे वाराह्यां वनमालिनी ) ( ३२ ) ॥ * ॥ बलि- मसुरं ध्वंसितुं शीलमस्य । ताच्छील्ये ( ३ | २ | ७८ ) णिनिः । बलिना पूजादिना विद्यां ध्वंसितुं शीलमस्येति वा ॥ ( ३३ ) ॥*॥ कंसस्यारातिः ॥ ( ३४ ) ॥ ॥ अधः कृतम् अक्षज- मैन्द्रियकं ज्ञानं येन, अधोक्षाणां जितेन्द्रियाणां जायते प्रत्य- क्षो भवति वा अधः अक्षजं ज्ञानं यस्येति वो ॥ ( ३५ ) ॥*॥ विश्वं बिभर्ति । ‘संज्ञायां भृतृवृजि-' ( ३ | २|४६ ) इति खच् । ‘अरुर्द्विषद्-’ ( ६।३।६७ ) इति मुम् । 'विश्वंभरो- च्युते शके पुंसि, विश्वंभरा भुवि ॥ ( ३६ ) ॥ ॥ कैटभ- मजैषीत् | 'सत्सूद्विष - ' ( ३ २ ६१ ) इति विप् ॥ ( ३७ ) ॥* ॥ विध्यत्यसुरान् । 'पृभिदिव्यधिगृधिषिभ्यः' ( उणा० १॥२३ ) इति कुः । ('विधुश्चन्द्रेऽच्युते ) ॥ ( ३८ ) ॥ ॥ वदति महत्त्वम् । 'वृ-टू-वदि-वचि-वसि-हनि- कमि-कषिभ्यः सः’ ( उ० ३।६२ ) वत्सः । श्रीयुक्तो वत्सः श्रीवत्सो मह स्वलक्षणं श्वेतैरोमावर्तविशेषो लाञ्छनं यस्य ॥ * ॥ 'शौरिश्रीव- त्सदैत्यारिविष्वक्सेनजनार्दनाः' इति शब्दार्णवात् । 'श्रीवत्सः' अपि ॥ ( ३९ ) ॥*॥ ऊनचत्वारिंशत् 'विष्णोः' ॥ वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥ २२ ॥ व्याख्यासुधाख्यव्याख्यासमेतः । देवैरानकदुन्दुभिवादनात् । हरौ जाते, कृष्णे जाते, इति स्वामिमुकुटोक्तिस्तु भागवताद्यश्रवणमूलिका | 'आनकदुन्दुभो वसुदेवपिता' इत्यपि निर्मूलम् ॥ ( २ ) ॥ ॥ विष्णुनामसु, कृष्णनामोपगमात्कृष्णस्यैव विष्णुत्वमभिप्रैति ग्रन्थकृत् । अव- तारान्तराणां तु तदंशत्वात्तन्नामानि नोक्तानि । 'अन्ये त्वंशकलाः पुंसः कृष्णस्तु भगवान्स्वयम्' इति वदतो व्यास - स्याप्ययमाशयो लभ्यते । अत एव कृष्णजनकस्यात्र नामोक्तम्, न तु जमदग्निदशरथादे: । द्वे 'कृष्णपितुः' ॥ बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः । रेवतीरमणो रामः कामपालो हलायुधः ॥ २३ ॥ नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली । संकर्षणः सीरपाणिः कालिन्दीभेदनो बलः ॥ २४ ॥ बलभद्र इत्यादि ॥ बलं भद्रं श्रेष्ठमस्य, बलेन भद्र इति वा । 'बलभद्रा त्रायमाणाकुमार्योः पुंसि सीरिणि,' ('बल- भद्रस्त्वनन्ते बलशालिनि' ) ॥ (१) ॥ ॥ प्रलम्बं हृतवान् | मूलविभुजादित्वात् ( वा० ३।२।५ ) कः ॥ (२) ॥ * ॥ बलेन दीव्यति । ( 'बलदेवो बले बाते त्रायमाणौषधौ स्त्रियाम्' ) ॥ (३) ॥ * ॥ अच्युतस्य प्रजः ॥ ( ४ ) ॥ ॥ रेवत्या रमणः | नन्यादित्वात् ( ३१११३४ ) ल्युः ॥ (५) ॥ ॥ रमते | 'ज्वलितिकसन्तेभ्यः - ( ३११११४० ) इति णः | रमन्तेऽस्मि- न्योगिनः, इति वा । 'हलच' ( ३ |३|१२१ ) इति घञ् । यत्तु – रमयति मोदयति प्रजा रूपमस्य- इति मुकुटेनोक्तम् । तन्न | णिजन्तस्य ज्वलादित्वाभावात् । प्रत्ययान्तानां धात्व- न्तरत्वात् । ( 'रामा योषा हिङ्गुनयोः क्लीबं वास्तुककुष्ठयोः । ना राघवे च वरुणे रैणुकेये हलायुधे । हये च पशुभेदे च त्रिषु चारौ सितेऽसिते ) ॥ ( ६ ) ॥ ॥ कामान् पालयति । 'पाल रक्षणे' (चु० प० से ० ) । 'कर्मण्यण्' ( ३।२।१ ) यत्तु – 'पू पालनपूरणयोः' ( जु० प० से० ) । इत्युक्तं मुकुटेन । तच्चिन्त्यम् ॥ (७) ॥॥ हलमायुधं यस्य || ( ८ ) ॥ ॥ नील- मम्बरं यस्य । ( 'नीलाम्बरो रौहिणेये कौणपे च शनैश्चरे' ) ॥ (९) ॥॥ रोहिण्या अपत्यम् । शुभ्रादित्वात् (४।१।१२३ ) ढक् । ( 'रोहिणेयोऽन्यवद्वत्से ना बुधे च हलायुधे ) ॥ (१०) ॥*॥ तालोऽको ध्वजो यस्य । ( 'तालाङ्कः करपत्रे स्वाच्छाक मेदेऽच्युताग्रजे | महालक्षणसंपन्न पुरुषे पुस्तके हरे' ) ॥ (११) ॥ ॥ 'मुस खण्डने' ( दि० प० से० ) । वृषादि - त्वात् ( उ० १११०६ ) कलच् | मुसलमस्त्यस्य ॥ ॥ मूर्धन्य- मध्योऽपीत्येके । तत्र 'मुष स्तेये' ( क्र्या० प० से० ) ॥ (१२) ॥ * ॥ हलमस्त्यस्य । ( 'हली कृषकसीरिणोः' ) ॥ (१३) ॥ ॥ संकर्षति, सभ्यक् कृष्यते वा । आद्ये नन्यादि- १——शर्वः शिवे केशव एव शौरि:' इति शकारभेदात्तालव्या- दिः, इत्यपि मुकुटः ॥ २ - मुकुटस्तु अधो न क्षीयते जात्विति । पृषोदरादित्वात् (६।३।१०९) अधोक्षजः । तथा चोयोगपर्व-त्वात् ( ३।११३४ ) ल्युः । द्वितीये कर्मणि ( ३।३।११३ ) ‘अधो न क्षीयते जातु यस्मान्तस्मादधोक्षजः' इति । इत्यप्याह ॥ ३ – क्रुद्धस्य दुर्वाससः पदाधातरूपो रेखाविशेषः श्रीवत्स इति पत्रिका - इति मुकुटः ।। ल्युट् ॥ (१४) ॥ ॥ सीरः पाणौ यस्य । 'अजगरसर्फे शीर- स्तालव्यादिः कविभिराख्यातः । लाङ्गलवचनो नित्यं दन्त्या- • दिईश्यते शास्त्रे' इत्यूष्मविवेकः ॥ (१५) ॥ कालिन्या मेदनः | वसुदेव इत्यादि | वसुषु दीव्यति । 'दिवु क्रिडादौ' ( दि० प० से० ) | पचाद्यच् ( ३ | १ | १३४ ) । यत्तु - 'वसु- मिर्दीव्यति' इति विगृह्य पचाद्यच् ( ३ | १ | १३४ ) – इत्याह | मुकुटः । तन्न । ‘कर्मण्यण्' ( ३|२|१ ) इत्यपवादस्य सत्त्वा- तू । 'दिवः कर्म च ' ( १९४|४३ ) इति कर्मकरणसंज्ञयोः समावेशस्य सत्त्वात् । वसूनि दीव्यतीति विग्रहस्य वैयर्थ्याच्च ॥ ( १ ) ॥*॥ आनकैर्दुन्दुभिभिश्चोपलक्षितः । वसुदेवजन्मनि