पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] स्याल्लाङ्गलिक्यग्निशिखा स्यादिति ॥ लाङ्गलं पुष्पविशेषोऽस्त्यस्याः | ठन् (५|२| ११५) । ‘जातेः’ (४।१।६३) इति - गौरादि-' (४१४१) इति वा ङीष् । लाङ्गलवत् खनति भूमिम् । 'तेन दीव्यति - ' (४|४|२) इति ठक् । ‘टिड्डा - (४|११५) इति अप् ॥ (१) ॥ * ॥ अग्नेरिव शिखास्याः । 'अग्निज्वाला लाङ्गलिकी' इति वाचस्पतिः ॥ (२) ॥*॥ द्वे 'लाङ्गल्याः' 'करिहारी' इति ख्यातायाः ॥ व्याख्यासुधाख्यव्याख्यासमेतः । काकाङ्गी काकनासिका ॥ ११८ ॥ काकेति || काकस्येवाङ्गं नासारूपं फलमस्याः गौरादिः (४॥१॥४१) ॥ (१) ॥*॥ काकस्येव नातिका यस्याः ॥ (२) ॥ * ॥ द्वे 'काकजङ्घायाः' 'कौवाठोठी' इति ख्यातायाः ॥ गोधापदी तु सुवा गोधेति ॥ गोधाया इव पादो मूलमस्याः । 'कुम्भपदीषु च’ (५॥४॥१३९) इति साधुः ॥ (१) ॥ ॥ सुवहति । पचा- द्यच् (३।१।१३४)। ‘गोधापदी तु सुवहा त्रिफला हंसप - द्यपि ' इति कोषान्तरम् ॥ (२) ॥ * ॥ द्वे 'हंसपद्याः ॥ मुसली तालमूलिका | मुसेति ॥ मुस्यति । ‘मुसखण्डने ' ( दि० प० से ० ) । बृषादिः ( उ० १११०६) । 'मुसलं स्यादयोग्रे च पुंनपुंसकयोः स्त्रियाम् । तालमूल्यामाखुपर्णीगृहगोधियोरपि ' ( इति मेदि- नी ) ॥ (१) ॥*॥ तालो मूलमस्याः | तालशब्दस्तालमूलस- दृशे लाक्षणिकः । ‘पाककर्ण’ (४|१|६४) इति ङीष् | स्वार्थे कन् (५।३।७५) ॥ (२) ॥* ॥ द्वे 'मुसली' इति ख्यातायाः ॥ अजटङ्गी विषाणी स्यात् अथ द्विजा । हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ १२० ॥ अथेति ॥ द्विर्जाता । 'जनी' ( दि० आ० से ० ) | ‘अन्ये- ष्वपि -' (३।२।१०१) इति डः । 'द्विजो विप्रक्षत्रिययोर्वैश्ये दन्ते विहंगमे । द्विजा भागरेणुकयोः' इति हेमचन्द्रः ॥ (१) ॥ ॥ हरति । 'हृभ्यामेणु : ' ( उ० २ | १ | ) । ‘ठूलोपे–' (६|३|१११) इति दीर्घः । 'कषायेऽपि हरेणुर्ना रेणुकायां स्त्रियां भवेत्' इति रुद्रः ॥ (२) ||| रेणुरस्या अस्ति । ब्रीह्या- दित्वात् (५/२॥ ११६) ठन् । 'इसुसुतान्ताकः' (७७३।५१)। रेणुरेव । 'संज्ञायाम्' (५|३|७५) इति कन् वा । मुकुटस्तु – रेणुं करोति । डः ( वा० ३।२।१०१ ) । टाप् (४|११४) रेणुका | पृषोदरादिः ( ६|३|१०९ ) – इत्याह । तत्र 'पृषोद- रादिः' इत्युक्तिचिन्त्या | 'रेणुकापि हरेणौ च जामदम्यस्य मातरि ' ( इति मेदिनी ) ॥ ( ३ ) ॥ ॥ कुन्तिषु देशेषु भवा । 'तत्र भवः' ( ४ | ३ | ५३ ) | इयण् ॥ (४) ॥*॥ कपिलो वर्णोऽ स्त्यस्याः । अर्शआद्यच् (५/२/१२७) । 'कपिला रेणुकायां च शिंशपागोविशेषयोः । पुण्डरीककरिण्यां स्त्री वर्णमेदे त्रिलि ङ्गकम् | नानले वासुदेवे च मुनिभेदे च कुकुरे' ( इति मेदिनी) ॥ (५) ॥ * ॥ भस्मनो गन्धः । भस्मगन्धोऽस्त्यस्याः । 'अतः- ' (५/२।११५) इतीनिः ॥ (६) ॥*॥ षट् 'हरेणुकायाः' ॥ एलाबालुकमैलेयं सुगन्धि हरिबालुकम् । बालुकं च अजेति ॥ अजः शृङ्गमस्याः | अजशब्दोऽजशृङ्गसदृशे लाक्षणिकः । गौरादिः (४१४१) ॥ ( १ ) ॥ * ॥ फलस्याज- शृङ्गसदृशत्वात् विषाणमस्त्यस्याः | अर्शआद्यच् (५|२|११५) । गौरादिङीष् (४॥१॥४१)। 'विषाणी क्षीरकाकोल्यामजशृङ्क्यां च योषिति । कुष्ठनामौषधे क्लीवं त्रिषु शृङ्गेभदन्तयोः' (इति मेदिनी ) ॥ (२) ॥*॥ द्वे ‘अजटया:' 'मेडासींगी' इति ख्यातायाः ॥ १६९ क्विप् (३।२।१७८) । ‘अनुनासिकस्य - (६४|१५ ) इति दीर्घः | वोलति । 'बुल् मज्जने' ( चु०प० से ० ) चुरादीनां णिज्वा | 'इगुपध' (३ | १ | १३५ ) इति कः । ताम् चासौ बुली च । पृषोदरादिः (६|३|१०९) । ताम्बूलाख्या बल्ली शाकपार्थिवादिः (वा० २१११६९ ) ॥ (१) ॥ ॥ गौरादिः (४। १॥४१) | 'ताम्बूली नागवल्लयां स्त्री क्रमुकेतु नपुंसकम्' ( इति मेदिनी ) ॥ (२) |||| नागलोकस्य वल्ली ॥ (३) ॥*॥ त्रीणि 'नागवेली' इति ख्यातायाः ॥ गोजिह्वादर्विके समे ॥ ११९ ॥ गोजीति ॥ गोजिह्वेव ॥ (१) ॥*॥ दवींव | ‘इवे प्रति- कृतौ’ (५॥३।९६) इति कन् ॥*॥ 'दार्विका' इति पाठे दार- यति । ‘दृ विदारणे’ ( क्र्या॰ प० से ० ) । उल्वादिलात् ( उ० ४।९५) साधुः। ‘दार्वी दारुहरिद्रायां तथा गोजिह्निकौषधौ' ( इति मेदिनी ) ॥ (२) ॥*॥ द्वे 'गोजिह्वायाः' 'गोभी' इति ख्यातायाः ॥ एलेति ॥ एलयति 'इल प्रेरणे' ( चु०प० से ० ) | पचा- ‘बल प्राणने' ( भ्वा०प० से ० )। बाहुलकादुण् । स्वार्थे कन् द्यच् (३।१।१३४) । टाप् (४२११४) | एला इव बलति । (५१३।७५) ॥ ॥ 'एलबालुकम्' इति स्वामी । तत्र ‘ङयापोः- (६ | ३|६३ ) इति हखः ॥ (१) ॥ ॥ इलाया अपत्यम् । 'स्त्रीभ्यो ढक्' (४।१।१२०) ॥ (२) ॥*॥ शोभनो गन्धोऽस्य | 'गन्धस्येत् - ' (५१४११३५) इतीत्वम् ॥ ·(३) ॥*॥ हरिवर्ण बालुकम् (४) ॥ * ॥ ('बालुका सिकतासु स्याद्वालुकं त्वेल- बालुके' ( इति मेदिनी ) ॥ ( ५ ) ॥ ॥ पञ्च 'बालुकाख्यग ताम्बूलवल्ली ताम्बूली नागवलयपि तेति ॥ ताम्यति । 'तमु ग्लानौ' ( दि०प० से० ) | | न्धद्रव्यस्य || अमर० २२