पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] स्मृता' (इति भेदिनी ) ॥ (७) ॥ * ॥ सप्त'शुक्लत्रिधारा' इति ख्यातायाः ॥ व्याख्यासुधाख्यव्याख्यासमेतः । ष्ट्रनि षित्वान् डीप्- इत्याह । 'क्रोष्ट्री शृगालिकाकृष्णविदा- रीलाङ्गलीषु च' ( इति मेदिनी ) ॥ ( ४ ) ॥ * ॥ चत्वारि 'कृष्णभूकूष्माण्डस्य' । मुकुटस्तु-शुक्लस्य इत्याह । तन्न । 'कृष्णविदारी' इति मेदिनीविरोधात् । एतेन या सिता शुक्ला - इत्यपास्तम् । 'या असिता' इति छेत्तुमुचितत्वात् । खामी तु – विदार्यादित्रयं पठित्वा 'कृष्णो भूकूष्माण्डोऽयं प्राक्षु देशेषु' इत्युक्त्वा 'क्रोट्री तु या सिता' इति पठित्वा 'शुक्लो भूकूष्माण्डः' इत्युक्त्वा 'अन्या क्षीरविदारी -' इति त्र्यं पपाठ । तत्र विभागत्रय मनुचितम् । उक्त मेदिनी विरोधात् ॥ श्यामापालिन्यौ तु सुषेणिका ॥ १०८ ॥ काला मसूरविदलार्धचन्द्रा कालमेषिका । श्येति ॥ श्यायते । ‘श्यैङ् गतौ' (स्त्रा० आ० अ०) 'इषियुधि - ' ( उ० १॥१४५) इति मक् ॥ ( १ ) ॥ * ॥ पाल- यति । ‘पाल रक्षणे’ ( चु०प० से० ) | बाहुलकात् किन्दच् | गौरादिः (४|१|४१) ॥ (२) ॥ * ॥ सुष्टु सेनया याति । सेनाशब्दात् 'सत्यापपाश- (३|१|२५) इति णिच् । पचा- द्यच् । ‘एति संज्ञायामगात्’ (८/३/१९९) इति षत्वम् | खार्थे | अन्या क्षीरविदारी स्यान्महाश्वे तर्क्षगन्धिका ॥११०॥ कन् (५॥३॥७५) ॥ (३) ||| कालयति | 'कल विल क्षेपे' ( चु० प० से ० ) ण्यन्तः । पचाद्यच् (३।१।१३४) ॥ (४) ॥ * ॥ मसूरवद् विदलमस्याः ॥ ( ५ ) ॥ * ॥ अर्धचन्द्रो यस्याः । एतद्विदलस्यार्धचन्द्राकारत्वात् ॥ (६) || कालं मिषति । 'मिष स्पर्धायाम्' ( तु० प० से ० ) । 'कर्मण्यण्' (३॥२॥१) ॥ (७) ॥॥ सप्त 'श्यामन्त्रिधारा' इति ख्यातायाः ॥ मधुकं क्लीतकं यष्टीमधुकं मधुयष्टिका ॥१०९ ॥ मेति ॥ मध्विव । ‘इवे-’ (५|३|९६) इति कन् । 'मधुकं क्लीतके खगे । वन्द्यन्तरे ना' ( इति मेदिनी ) ॥ (१) ॥ * ॥ क्लीबनम् । 'क्लीवृ अधायें' (भ्वा० आ० से ० ) । भावे तः (३।३।११४) । आगमशासनमनित्यम् । क्लीतमधाष्टयं कलति । 'कल क्षेपे' ( चु०प० से० ) । 'चुरादिभ्यो णिज्वा' इति 'णिजभावः । 'अन्येभ्योऽपि (वा० ३।२।१०१) इति डः । यत्तु – ‘क्लीवृ मदे' इत्युक्तं मुकुटेन । तत् 'क्षीबृ मदे' इत्यस्य भ्रमात् । यद्वा संपदादि विप् (वा० ३१३।१०८) । बाहुल- काद्वलोपः । क्लीं क्लीबत्वं तकति । वृष्यत्वात् । 'तक हसने ( भ्वा० प० से० ) | मूलविभुजा दिकः (वा० ३१२५ ) ॥ (२) ॥ ॥ यष्टी मध्विवास्याः | कप् (५४११५४) (३) ॥ ॥ मधुयष्टीव । ‘इवे–' (५|३|९६) इति कन् । 'मधु- यष्टी च यष्टी च यष्टीमधुकमेव च ' इति वाचस्पतिः ॥ (४) ॥ * ॥ चत्वारि 'यष्टिमधुकस्य' 'जेठीमधु' इति ख्यातस्य ॥ विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री च यासिता ।. वीति ॥ विदारयति । 'दृ विदारणे' (क्या०प० से ० ) । ण्यन्तः । पचायच् (३|१|१३४) | गौरादिः (४१४१) 'विदारी शालपर्व्यां च रोगमेदेक्षुगन्धयोः' ( इति मेदिनी) ॥ (१) ॥*॥ क्षीरमिव शुक्ला ॥ (२) ॥ * ॥ इक्षुर्गन्धोऽस्याः | इक्षुशब्दस्तद्गन्धसदृशे गौणः । समासान्तविधेरनित्यत्वाने॒त्वम् ॥ (३) ॥*॥ क्रोशति । ‘कुश आह्वाने' ( भ्वा०प० से ० ) । ‘सितनि' (उ० १॥६९) इति तुन् । 'स्त्रियां च' (७|१|९६) इति तृज्वत् । 'ऋन्नेभ्यो डीप' (४|११५) | मुकुटस्तु - अन्येति ॥ क्षीरवती विदारी ॥ (१) ॥ * ॥ महती चासौ श्वेता च ॥ (२) ॥॥ ऋक्षान् गन्धयति । 'गन्ध अर्दने' (चु० आ० से ० ) । मूलविभुजादिः (वा० ३|२|५) कन् (५॥३॥७५ ) यद्वा ऋक्षो गन्धोऽस्याः । ऋक्षशब्दस्तद्गन्धसदृशे गौणः ॥ ( ३ ) ॥ ॥ अन्या असितायाः शुक्ला – कृष्णा-इति मुकुटोक्तं चिन्त्यम् | त्रीणि 'शुक्लभूकूष्माण्डस्य' || लाङ्गली शारदी तोयपिप्पली शकुलादनी । लेति ॥ लाङ्गलाकारोऽस्त्यस्याः | अर्शआद्यच् (५/२/१२७) गौरादिः (३॥१॥४१) । 'लाङ्गली तोयपिप्पल्यां क्ली तु कुसु- |मान्तरे | गोदारणे तृणराजगृहदारुविशेषयोः' (इति मेदिनी) | (१) ॥ ॥ शरदि भवा । 'संघिवेला - ' ( ४ | ३ | १६) इत्यण् । 'शारदो वत्सरे नवे । शरद्भवे पीतमुद्गे शालीनेऽप्यथ शारदी । सप्तपर्णाम्बुपिप्पल्योः' इति हैमः ॥ (२) ॥॥ तोयस्य पिप्पलीव ॥ (३) ॥ ॥ शकुलैरयते । 'अद भक्षणे' ( अ० प० अ० ) | 'कृत्यल्युट:- (३|३|११३) इति ल्युट् । 'टिड्डा-' (४|१|१५) इति ङीप् | युचि ( उ० २१७८) तु गौरा- दित्वम् (४ ॥१॥४१) । 'शकुलादनी स्त्रियां कृष्णभेदीकचट (?) १ – विदार्यादीनां कृष्णभूकूष्माण्डवाचकत्त्रे स्वोक्तस्थ 'क्षीरमिव शुक्ला' इति विग्रहस्यैव विरोधः स्पष्ट एव । क्षीरविदार्यादीनां शुक्लभूकू माण्डवाचकत्वे 'क्रोष्ट्री क्षीरविदारिका' इति हैमस्य क्रोष्ट्री शृगालि- काक्षीरविदारीलाङ्गलीषु च ' इति विश्वस्य च विरोधः स्पष्ट एव । क्रोष्ट्री- शब्दस्य कृष्णवाचकत्वाङ्गीकारात् । तस्मात् विदार्यादीनां त्रयाणां शुकृ• भूकूष्माण्डवाचकत्वं मुकुटोक्तं सम्यक् । ततः 'क्रोट्री तु' इति पाठः स्वाम्युक्तः साधुः । ‘असिता' इति व्याख्यासुधोक्तश्छेदः समीचीनः । तथा च अन्या या असिता कृष्णा सा तु 'क्रोट्री क्षीरविदारी महाश्वेता ऋक्षगन्धिका' इति शब्दचतुष्टयवाच्या । अतो न मेदिनीविरोधः। नापि हैमविश्वयोर्विरोधः । एवं च विदार्यादित्रयं शुलवाचकम् । क्रोट्र्यादिचतुष्टयं कृष्णवाचकम्' इति मन्तव्यम् । नच 'महाश्वेता' इति नाम्नो यौगिकत्वानुपपत्तिः । महती परिमाणेन । अतएव अश्वेता अश्वेनेता | मइती चासावश्वेता च' इति शुना श्वाकारेणेता श्वेता, इति वा योगसंभवात् । अत एव मुकुटेन 'महाप्रमाणा' इत्युक्तम् ॥