पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्ग: ४ ] मास्याः | गोशब्दो गोलोमसदृशे लाक्षणिकः | अच् (५४ ७५) योगविभागात् समासान्तः । गौरादिङीष् (४|१|४१) । 'गोलोमी श्वेतदूर्वायां स्याद्वचाभूतकेशयोः' (इति मेदिनी) ॥ (४) ॥*॥ शतं पर्वाण्यस्याः सन्ति । बीह्यादित्वात् (५॥२॥ ११६ ) ठन् । डाबन्तात्स्वार्थे कन् (५|३|७५ ) वा । 'शत- पर्विका तु दूर्वायां बचायामपि योषिति' (इति मेदिनी) ॥ (५) ॥ * ॥ पञ्च 'वचायाः' 'वच' इति ख्यातायाः ॥ शुक्ला हैमवती व्याख्यासुधाख्यव्याख्यासमेतः । शुक्लेति ॥ हिमवति भवा । 'हैमवत्यभयास्वर्णक्षीर्योः श्वेतवचोमयोः’ (इति मेदिनी) ॥ (१) ॥*॥ एकम् ‘श्वेत- मूलवचायाः' ॥ वैद्य मातृसिंह्यौ तु वाशिका | वृषोऽटरूपः सिंहास्यो वासको वाजिदन्तकः ॥१०३ ॥ वैद्येति ॥ वैद्यस्य मातेव ॥ (१) ॥ * ॥ हिनस्ति | 'हिसि हिंसायाम्' ( रु० प० से ० ) । पचाद्यच् (३ | १ | १३४) | पृषो- दर दिः (६।३।१०९) । गौरादिः (४|११४१) | 'सिंही तु कण्टकार्या स्यात् ( वार्ताको वासकेऽपि च ' इति मेदिनी ) | 'सिंही खर्भानुमातरि । वासाबृहत्योः क्षुद्रायाम् ' ( इति हैमः ) ॥ (२) ॥*॥ वाश्यते | ‘वाट शब्दे' ( दि० आ० से ० ) । ‘गुरोश्च' (३।३।१०३) इत्यः | खार्थे कन् । यद्वा उश्यते । 'वश कान्तौ ' ( आ० प० से ० ) ' संज्ञायाम् ' ( ३ |३|१०९ ) इति ण्वुल् ॥ ॥ दन्त्यान्तोऽपि । वासयति । पंचाद्यच् ( ३ | १।१३४) । 'वासो गृहेऽप्यवस्थाने वासा स्यादटरूषके' इति रुद्रः ॥ (३) ॥ ॥ वर्षति मधु | 'वृषु सेचने' (भ्वा० प० से० ) । 'इगुपध-' (३|१|१३५) इति कः | 'वृषः स्याद्वासके धर्मे सौरमेये च शुक्रले' इति मूर्धन्यान्ते विश्वः । यत्तु – वृष्यते पीयते । 'वृष पाने' | 'घअर्थ कः' (वा० ३ | ३४५८) — इति मुकुटेनोक्तम् । तन्न । धातुपाठेऽदर्शनात् । परिगणनाच ॥ ( ४ ) ॥ ॥ अटान् गच्छतो रोषति । 'रुष् हिंसायाम्' ( स्वा०प० से ० ) मूलविभुजादिः ( वा० ३१२१५ ) | अटै रूषति | 'रूष मिश्रणे' ( भ्वा०प० से ० ) । 'इगुपथ - ' (३।१।१३५) इति के दीर्घोऽकारवानपि । 'वैद्यमाताटरूषकः । सिंहास्यो वाजिदन्तकः' इति रभसः । 'वृषो वासाटरूषकः' इति माधवः ॥ (५) ॥ ॥ सिंह आस्यमस्य | सिंहास्यसदृश- पुष्पत्वात् ॥ (६) ॥*॥ वासयति ण्वुल् ( ३ | १ | १३३) । वस्ते आच्छादयति वा ॥ (७) ॥ * ॥ वाजी दन्तोऽस्य । वाजिद- न्ताभकेसरत्वात् । तादृशपुष्पत्वाद्वा ॥ (८) ॥ ॥ अष्टौ 'अट- रूषस्य' 'अरडूसा' इति ख्यातस्य ॥ आस्फोटा गिरिकर्णी स्याद्विष्णुकान्तापराजिता । आस्फोटेति ॥ आस्फोटयति । 'स्फुटिर् विकसने' ( भ्वा० प० से० ) ण्यन्तः । अच् (३।१।१३४) | पृषोदरादिः (६३१०९) । 'आस्फोता गिरिकर्व्यां च वनमलयां च योषिति' (इति मेदिनी) ॥ (१) ॥*॥ गिरिबलमूषिका कर्णोड- स्याः तत्कर्णतुल्यपत्रत्वात् ॥ ( २ ) ॥ ॥ विष्णुना कान्ता ॥ (३) ॥॥ न पराजिता । 'अपराजित ईशाजेष्ठ्यन्तरे नाऽ-- जिते त्रिषु । गिरिकर्णीजयादुर्गाशालपर्णीषु योषिति' ( इति मेदिनी) ॥ (४) ॥ ॥ चत्वारि 'विष्णुकान्तायाः' | स्वामी तु वासकपर्यायानिमान् मन्यते ॥ इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः ॥ १०४ ॥ ईति ॥ इक्षुः गन्धोऽस्य । इक्षुशब्द इक्षुगन्धसदृशे लाक्ष- (इति मेदिनी) ॥ (१) ॥ ॥ काण्डेनेक्षुरिव ॥ (२) ॥*॥ णिकः । 'इक्षुगन्धा कोकिलाक्षे क्रोष्ट्रयां काशे च गोक्षुरे' कोकिलोsक्षि यस्य । कोकिलशब्दः कोकिलाक्षिसदृशे लाक्ष- णिकः । 'अक्षणोऽदर्शनात्' (५॥४/७६) इत्यच् ॥ ( ३ ) ॥ * ॥ इक्षुमिक्षुगन्धं राति | 'आतोऽनुप' ( ३|२|३) इति कः ॥ ॥ (४) ॥ ॥ क्षुर इव । 'क्षुर: स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे' इति विश्वः ॥ ( ५ ) ॥ * ॥ पश्च 'कोकिलाक्षस्य' 'तालमखाना' इति ख्यातस्य || शालेयः स्याच्छीत शिवश्छन्ना मधुरिका मिसिः । मिश्रेयोऽपि शेति ॥ शालीनां भवनं क्षेत्रं शालेयम् । तदस्यास्ति । अर्शआद्यच् (५॥२॥१२७) । 'शालेयः स्यान्मिसौ पुमान् । त्रिषु शाल्युद्भवे क्षेत्रे ( इति मेदिनी ) ॥ (१) ॥*॥ शीतम- स्यास्ति | अच् (५|२|१२७) | शिवमस्यास्ति । अच् (५॥२॥ १२७) | शीतश्चासौ शिवश्च । 'अथ शीतशिवं क्लीवं शैले- यमणिमन्थयोः | पुंसि सक्तुफलावृक्षे तथा मधुरिकौषधौ' ( इति मेदिनी) ॥ ( २ ) ॥ * ॥ छत्रमस्यास्ति | छत्राकारस्तबकत्वात् । 'छन्त्रा मिसावतिच्छत्रे कुस्तुम्बुरुशिलीन्ध्रयोः । नपुं चात- पत्रे' ( इति मेदिनी ) ॥ (३) ॥ ॥ मधुरो रसोऽस्त्यस्याः । अच् (५/२/११५) । 'मधुरा शतपुष्पायां मिश्रेयानगरी - भिदोः । मधुकुक्कु टिकामेदामधूलीयष्टिकासु च । क्लीबं विसे पुंसि रसे तद्वत्स्वादुप्रियेऽन्यवत्' ( इति मेदिनी) ॥ (४) ॥॥ मस्यते । 'मसी परिमाणे' ( दि० प० से० ) | इन् ( उ० ४२११८ ) | बाहुलकादत इः । 'स्यान्मांस्यां शतपुष्पायां मधु- रायां मिसिः स्त्रियाम्' इति दन्त्यान्ते रभसः । 'मिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः' ( इति मेदिनी) ॥*॥ सोमनन्दी तु 'मिशी' 'मिशिः' इति तालव्यान्ते आइ । मि (मे)शति । 'मिश शब्दे' ( भ्वा०प० से० ) 'इगुपधात् कित्' ( उ० ४|१२० ) इति इन् ङीष् (ग० ४॥१॥४५) वा ॥ (५) ॥*॥ मिश्रयति । अच् (३।१।१३४) | ईयै । ‘इण् गतौ' ( अ० प० अ० ) । 'अचो यत्' (३।१।९७) । मिश्रा चासावेया च । शकन्ध्वादिः ( वा० ६ १९४) ॥ (६) १-'इयते' इत्युत्तरं 'ईङ् ( दि० आ० अ० )' इति वा पाठः ।