पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । इति स्वामी चिन्त्यः ॥ ( १ ) ॥ ॥ बदति | 'बद स्थैर्ये' | ऐरावतो नागरङ्गः ( भ्वा० प० से ० ) । 'दिवि भ्रमि- ( उ० ३।११७) इत्यमरः । गौरादिङीष् (४।१।४१) । यत्तु - 'द्वयोः' इत्युक्तेः कर्कन्धू- दरश्च – इति मुकुटः । तन्न । 'बदरी कोले, क्लीबं तु तत्फले' इति मेदिनीविरोधात् ॥ (२) ॥ ॥ कोलति घनीभवति । 'कुल संस्त्याने' ( भ्वा० प० से ० ) | अच् (३।१।१३४) । गौरादिङीष् (४|१॥४१) । मुकुटस्तु — इन् ( उ० ४११८) प्रल्यये वा ङीष् (ग० ४।१।४५) — इत्याह । तन्न | कोल्याः फले अण् (४।३।१३४) लुकोः (४१३११६४) ङीष लुकि (१।२।४९) च ‘कोलि’ इति रूपापत्तेः । ('कोलम्' इति रूपा- नुपपत्तेः ) ॥ ॥ इनि ( उ० ४|११८) (कोलिः) हखान्तोऽपि ॥ (३) ॥ ॥ कौ वलति । 'वल प्राणने' (भ्वा०प० से ० ) । अच् (३।१।१३४) । कुवलीशब्दोऽप्यत्र ॥॥ त्रीणि 'बदर्याः' ॥ कोलं कुवलफेनिले ॥ ३६ ॥ 'बदरीसदृशाकारो वृक्षः सूक्ष्मफलो भवेत् । अटव्यामेव सा घोण्टा गोपघोण्टेति चोच्यते’ ॥ (६) ॥ ॥ षट् 'कर्कधूफ- लस्य' । खामी तु—आद्यास्त्रयो वृक्षार्थाः । अन्ये फलार्थाः । घोण्टा तूमयार्था - इत्याह । स्वामी तु घोण्टाकोले व्यत्यासेन पठति ॥ सौवीरं बदरं घोण्टापि कोलमिति ॥ कोलीकुवलीबदरीणां फले ( ४ | ३ | १३४) लुकौ (४।३।१६४) । 'लुक् तद्धितलुकि' (१९२२४९ ) इति ङीषो लुक् । 'कोलं कोलिफले क्लीबं पिप्पलीचव्ययोः त्रियाम्’ ॥ (१) ॥*॥ (‘कुवलं चोत्पले मुक्ताफलेऽपि बद- रीफले’) ॥ (२) ॥*॥ फेनोऽस्यास्ति । 'फेनादिलच्च' (५।२। ९९) ॥ (३) ॥*॥ सुविरदेशे भवम् । 'तत्र भवः' ( ४ | ३ | ५३) इत्यण् । ‘स्रोतोऽञ्जने तु सौवीरं बदरे काञ्जिकेऽपि च' इति दन्त्यादौ रभसः ॥ (४) ॥ * ॥ ( ५ ) ॥ ॥ घोणते । 'घुण भ्रमणे' ( भ्वा० आ० से ० ) बाहुलकाः । 'घोण्टा तु बदरीपूगवृक्षयोरपि योषिति' (इति मेदिनी) | | काकेन्दुः कुलकः काकपीलुकः काकतिन्दुके । अथ स्यात्स्वादुकण्टकः । विकङ्कतः स्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि ॥ ३७॥ अथेति ॥ कण्टकोऽस्यास्ति । अर्श आयच् (५॥२॥१२७) स्वादुश्वासौ कण्टकश्च ॥ ( १ ) ॥ * ॥ कि । 'ककिर्गत्यर्थः' ( स्वा० आ० से ० ) । अतच् प्रत्ययः ॥ (२) ॥ ॥ सुवाया वृक्षः । ‘स्रुवा द्वयोर्होमपात्रे सल्लकीमूर्वयोः स्त्रियाम् ॥ (३) ॥ * ॥ प्रन्थिरस्यास्ति सिध्मादित्वालच् (५/२/९७) । (४) ॥ * ॥ व्याघ्रस्य पादा इव पादा मूलान्यस्य | 'पादस्य लोपः- (५|४|१३८) इत्यकारलोपः ॥ (५) ॥ ॥ पञ्च 'विकङ्क- तस्य' 'कठेर' इति ख्यातस्य ॥ १४१ १२० ) इत्यण् । 'ऐरावतोऽभ्रमातङ्गे नारङ्गे लकुटद्रुमे । ऐरेति ॥ इरावत्या विद्युत इवायम् | 'तस्येदम्' (४॥३॥ नागभेदे च पुंसि स्याद्विद्युत्तद्भेदयोः स्त्रियाम् । नपुंसके महे- न्द्रस्य ऋजुदीर्घशरासने' ॥ (१) ॥ ॥ नागा रजन्यत्र | ‘रज रागे' (भ्वा० उ० अ० ) | 'हलच' (३।३।१२१) इति घञ् | नागस्य सिन्दूरस्येव रङ्गोऽस्य, इति वा ॥*॥ ‘नागरने तु नारङ्गो नार्यङ्गस्तकवासनः' इति वाचस्पतिः । 'ना- रङ्गः पिप्पलीरसे | यमजप्राणिनिविटे नागरङ्गद्रुमेऽपि च’ ॥ (२) ॥ ॥ द्वे 'नारङ्गी' इति ख्यातस्य ॥ नायी भूमिजम्बुका । नेति ॥ नद्यां भवा । 'नयादिभ्यो ढक्' (४२९७)। 'नादेयी नागरने स्याज्जयायां जलवेतसे । भूमिजम्ब्वां जपायां च काङ्गुष्ठे च समीक्ष्यते' इति विश्वः ॥ (१) ॥*॥ भूमेर्जम्बूः हस्वत्वात्स्वार्थे कन् (५१३१८६ ) || (२) ॥ ॥ द्वे 'नारङ्गस्य', चत्वारि 'नारङ्गस्य' इत्यन्ये ॥ तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके ३८ तीति ॥ तिम्यति । 'तिम आर्द्रत्वे ' ( दि ० प ० से ० ) । मृगथ्वादिः ( उ० १९३७) 'संज्ञायां कन्' (५|३|७५ ) ॥ (१) ॥ ॥ स्फूर्जति | ‘टुओ स्फूर्जा वज्रनिर्घोषे' (भ्वा० प० से०)। ण्वुल् (३॥१॥१३३) ॥ (२) ॥ ॥ कालः स्कन्धो यस्य | 'कालस्कन्धस्तमाले स्यात्तिन्दुके जीवकद्रुमे' इति विश्वः ॥ (३) ॥ ॥ शिति काल: सारो मज्जा यस्य ॥ (४) ॥*॥ चत्वारि 'तिन्दुकस्य' 'तेढुँ' इति ख्यातस्य ॥ पृषोदरादिः (६।३।१०९) ॥ (१) ॥ ॥ कुलस्य गृहस्य प्रति- केति ॥ काकानां काकवर्णो वा तिन्दुः ॥ ( ४ ) ॥ ॥ कृतिरिव । ‘इवे प्रतिकृती' (५॥ ३ ॥९६) इति कन् । 'कुलकं तु पटोले स्यात्संबैद्धश्लोकसंहृतौ । पुंसि वल्मीकका केन्दुकुल- श्रेष्ठेषु कथ्यते इति विश्वमेदिन्यौं || ( २ ) ॥ ॥ काकैः पील्यते । 'पील प्रतिष्टम्भे' (भ्वा०प० से ० ) । बाहुलकादुः । 'काकानां पीडरिव' इति वा ॥ (३) ॥ ॥ चलारि 'कटुति- न्दुकस्य', 'कुचिला' इति ख्यातस्य इत्यन्ये ॥ १ - नृणाति । बाहुलकादङ्गच् । गकारान्तोऽयम् । ‘भवढैरि- वधूवदने बने च नारङ्गतरूपशोभे भान्ति गण्डशैलस्थलालंकारधा रिण्यो लोभलताः' इति दमयन्तीलेषात् ॥ २ – उक्तं च समन्व यप्रदीपे– 'यत्र वाक्यार्थविश्रान्तिः लोकेनैकेन जायते । तन्मुक्तकं युगं द्वाभ्यां त्रिभिः स्यात्तिलकं पुनः । चतुर्भिः स्याञ्चकलकं पञ्चभिः कुलकं ततः । महाकुलकमित्यार्याः कथयन्ति ततः परम् ॥” इति। • तिलकपर्यायान्तरं वैशेषिकम् ॥