पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ अमरकोषः । [ द्वितीय काण्डम् । 'आतोऽनुप- ' (३।२।३) हारभेदे च गुत्सः स्तम्बेsपि कीर्तितः' इति दन्त्यान्तेषु 'दो अवखण्डने' ( दि० प० अ० रुद्रः ॥ ॥ श्रीभोजस्तु 'शस्यादिभ्यश्छक्' इत्याह । स्वार्थे इति कः | पृषोदरादिः (६।३।१०९) । यद्वा मकरमण्यन्दति । कन् (५१३१७५) । ‘पुष्पादिस्तबके गुच्छो मुक्ताहारकला- पयोः' इति चवर्गान्ते रन्तिदेवः ॥ (१) ॥॥ स्तूयते । 'स्तुतौ' ( अ० प० अ० ) | 'कृञादिभ्यः' (उ० ५९३५) इति वुन् । यद्वा तिष्ठति । 'स्थः स्तोऽम्बजबकौ' ( उ० ४९६) ॥ ( २ ) ॥ * ॥ द्वे 'विकासोन्मुखकलिकायाः' इति मुकुटः ॥ कलिकादिकदम्बस्येत्यन्ये ॥ 'अदि बन्धने' (भ्वा०प० से० ) । 'कर्मण्यण्' (३।२।१ ) | शकन्ध्वादिः (वा० ६।१९९४) । यत्तु - 'गतिकारकोपंपदानाम्-' (प० २१२॥१९) इत्युक्तेः सुबुत्पत्तेः प्राक् समासे प्रध्ययनवत् पररूपत्वम् इति मुकुटः । तन्न | उत्तरदले विभक्त्यनुत्पत्ता- वपि पूर्वदले विभक्तिसत्त्वात् । अन्यथा 'राजदर्शी' 'चर्म- कारः' इत्यादौ नलोपो न स्यात् । दृष्टान्तोऽप्यसंगतः । 'प्राध्य- कुटुमलो मुकुलोऽस्त्रियाम् ॥ १६ ॥ यनम्' इत्यस्यैवेष्टत्वात् ॥ (१) ॥॥ पुष्पस्य रसः ॥ (२) कुटुमल इति ॥ कुट्यते, कुटति, वा । 'कुट छेदने' ' ॥ ॥ द्वे पुष्पमधोः ॥ ( ) 'कौटिल्ये' ( तु० प० से० ) वा । 'कुटिकशिभ्यां क्मलच् ( उ० १।१०९ ) इति क्मलचि ॥ * ॥ बाहुलकात् 'कुडे:' ( तु० प० से ० ) अपि ( क्मनि 'कुडझलः' ) । ( 'कुडमलो मुकुले पुंसि न द्वयोर्नरकान्तरे' ) ॥ (१) ॥*॥ मुञ्चति कलिकात्वम् । ‘मुच्ऌ मोक्षणे ' ( तु० उ० अ० ) | बाहु- लकाहुलक् ॥ - मुश्चेरलक् कत्वमुत्वं चातः' इति स्वामि मुकुटौ । तन्न । तादृशसूत्राभावात् ॥ ( २ ) || 'ईषद्वि- कासोन्मुखकलिकायाः' द्वे ॥ स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमं॑ । स्त्रिय इति || सुठु मन्यन्ते आभिः । 'मन ज्ञाने' (दि० प० से० ) । असुन् ( उ० ४११८९) । मुकुटस्तु - सुप्रीतं मनो आभिः' इति विगृह्य 'प्रादिसमासः' इत्याह । तन्न । अन्यपदार्थत्वालाभात् । 'भूम्नि स्त्रियां सुमनसः' इति रत्न- कोषः । 'सुमनाः पुष्पमालत्योः स्त्रियां ना धीरंदेवयोः' इति मेदिन्यादेरेकैत्वमपि । 'पुष्पं सुमनाः कुसुमम्' इति नाममाला ॥ ( १ ) ॥ ॥ पुष्यति | 'पुष्प विकसने' ( दि० प० से ० ) | पचाद्यच् (३|१|१३४) | 'पुष्पं विकास आर्तवे । धनदस्य विमाने च कुसुमे नेत्ररुज्यपि ' इति हैमः ॥ (२) ॥*॥ प्रसूयते स्म । ‘ूङ् प्राणिप्रसवे' ( दि० आ० से ० ) । 'स्वादय ओदितः' (ग० ३।३।१ ) | 'ओदितश्च' (८/२/४५) इति निष्ठानत्वम् । 'प्रसूनं तु प्रसूते फलपुष्पयोः' इति हैमः ॥ (३) ॥ * ॥ कुंस्यति । 'कुस संश्लेषणे' ( दि०प० से० ) । 'कु- सेरुम्भोमेदेताः' ( उ० ४११०६) इत्युमः । संज्ञापूर्वकत्वान्न गुणः । 'कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः ॥ (४) ॥ ॥ 'सर्वसाधुसमानेषु समं स्यादभिधेयवत्" (इति मेदिनी) ॥*॥ चत्वारि 'पुष्पसामान्यस्य' ॥ मकरन्दः पुष्परसः मकरन्द इति ॥ मकरमपि द्यति । कामजनकत्वात् । १ -कचित्पुस्तके 'सुमम्' इति पाठ उपलभ्यते ॥ २ - 'प्रादिसमासः'. इत्यनेन 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः' इति वार्तिक- स्मरणे तु न काप्यनुपपत्तिः ॥ ३'वेश्या श्मशानसुमना इव वर्जनीया' इति शूद्रकप्रयोगः - इति मुकुटः ॥ परागः सुमनोरजः ॥ १७॥ पराग इति ॥ परा गच्छति । 'गम्लु गतौ' (भ्वा० प० अ० ) 'अन्येष्वपि-' (वा० ३।२।४८) इति डः । 'प- रागः सुमनोरेणौ धूलीस्नानीययोरपि । गिरिप्रमेदे विख्याता- बुपरागे च चन्दने ॥ (१) ॥*॥ सुमनसां रजः ॥ (२) ॥ ॥ द्वे 'पुष्परेणोः' ॥ द्विहीनं प्रसवे सर्वम् द्वीति ॥ द्वाभ्यां स्त्रीपुंसाभ्यां हीनं फले पुष्पे पत्रे च । वक्ष्यमाणमश्वत्थादि फलपुष्पादिषु वर्तमानं नपुंसकं लिङ्गं ज्ञेयमित्यर्थः । विकारावयवयोरुत्पन्नस्य प्रत्ययस्य ‘फले लुंक्’ ( ४ | ३|१६३) | ‘पुष्पमूलेषु बहुलम्' (वा० ४१३१६६) इति लुक् ॥ हरीतक्यादयः स्त्रियाम् । हरीति ॥ पूर्वोक्तापवादः । 'स्त्रियां' इति हरीतक्या: फलम् । 'हरीतक्यादिभ्यश्च' ( ४ | ३ | १६७) इति लुप् । 'लुपि. युक्तवद्व्यक्तिवचने' (१|२|५१ ) 'हरीतक्यादिषु व्यक्तिः', ( वा० १॥२॥५२) इति लिङ्गमेव प्रकृतिवत् । न संख्या । आदिना 'कोशातकी (द्राक्षा) बदरी कण्टकारिका' इत्यादयः ॥ अश्वत्थवैणवप्लक्षिनैयग्रोधैङ्गुदं फले ॥ १८ ॥ बार्हतं च आश्वत्थेति ॥ अश्वत्थस्य फलंम् | अश्वत्थम् । 'लक्षा- दिभ्योऽण' (४|३|१६४) ॥ (१) ॥ ॥ वेणोः | 'बिल्वादिभ्यो- ऽण् (४॥२॥१३६) । ( मयटि (४ | ३ | १४३) प्रकृते अणः ). विधेर्नांणो लुक् ॥ (१) ॥ * ॥ 'न्यग्रोधस्य च केवलस्य' (७. ३।५) इत्यैच् ॥ (१) ॥ ॥ इडया इदम् ॥ ( १ ) ॥॥- बृहत्याः फलम् ॥ (१) ॥ * ॥ 'अश्वत्थादिफलानाम्' पृथक्पृथगेकैकम् ॥ फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् । • फले इति ॥ जमति । 'जमु अदने' (भ्वा० प० से ० ) । 'अन्दूहम्भूजम्बू ' ( उ० ११९३) इत्यनेन कूप्रत्ययो बुगाग- १ - 'कौसुमे रेणौ' इति पाठः ॥