पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] प० से० ) । बाहुलकात् कयन् प्रत्ययः | पृषोदरादिः (६|३| १०९) ॥ (२) ॥*॥ द्वे 'नवपत्रस्य' || व्याख्यासुधाख्यव्याख्यासमेतः । विस्तारो विटपोऽस्त्रियाम् ॥ १४ ॥ विस्तेति ॥ विस्तरणम् | 'स्तृञ् आच्छादने' ( स्वा० उ० अ० ) । 'प्रथने वावशब्दे' (३|३|३३) इति भावे घञ् । ‘विस्तारस्ततौ विटपे’ ॥ (१) ॥ ॥ विटान् पाति | ‘पा र- क्षणे' ( अ० प० अ० ) । 'आतोऽनुप-' (३|२|३ ) इति कः । आक्रो- यद्वा विटानां पानम्। ‘पा पाने’ (भ्वा०प०अ० ) । 'घयर्थे कः' ( वा० ३१३१५८ ) | यद्वा विटति, विठ्यते वा । 'विट शे' ( भ्वा० प० से ० ) | 'विटपविष्टप- ' ( उ० ३११४५ ) इति कपन् । यत्तु – वट्यते वेश्यतेऽनेन 'वट वेष्टने' (भ्वा०प० से० ) । 'विठपादयश्च' इति सूत्रमुपन्यस्तं मुकुठेन । तन्न । एतादृशसूत्रादर्शनात् । 'विटपो न स्त्रियां स्तम्बशाखावि- स्तारपल्लवे। विटाधिपे ना' ॥ (२) ॥ ॥ द्वे 'शाखादिवि - स्तारस्य' । केचित्तु - उक्त मेदिनीकोषादेव पलवादिचतु- ष्टयमेकार्थमाहुः । ‘शाखायां पढ़वे स्तम्बे विस्तारे विटपो- स्त्रियाम्' इति रभसाश्च । 'स्कन्धादूर्ध्वं तरोः शाखा कटेप्रो विटपो मतः' इति काव्याच ॥ वृक्षादीनां फलं संस्यम् वृक्षादीति ॥ आदिना लतागुल्मादिग्रहः । केचित्तु 'वृक्षा- बीनाम्' इति पूर्वेणापि संबध्नन्ति । फलति । 'फल नि- पत्तौ ' ( भ्वा० प० से ० ) । पचायच् (३३१११३४) | फलं निष्पन्नं सस्यशब्दवाच्यम् | 'फलं हेतुकृते जातीफले फलक- सस्ययोः । ( त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयोः ) ॥ ॥*॥ सस्ति । ‘शस षस्ति खप्ने' ( अ० प० से ० ) 'माछास- सिभ्यो यः' (उ० ४।१०९ ) ॥ ॥ तालव्यादिपाठे तु 'शसु हिंसायाम्' ( भ्वा० प० से० ) | शस्यते । 'तकिशसिचति - ( वा० ३।११९७ ) इति यत् । – 'क्यपि' इति मुकुटोक्तिश्चिन्त्या । 'अचो यत्' (३।१॥९७) इत्यत्र हरीतक्यादीनामुपसंख्या- नात् । षसे द्विदन्त्यस्य 'तकि-' (वा० ३।१।९७) इत्यत्राग्रह- णाच ॥ (२) ॥ * ॥ द्वे 'फलस्य' || बृन्तं प्रसवबन्धनम् । वृन्तमिति ॥ वृणोति । ‘श्रृञ् वरणे' ( खा० उ० से ० ) । बाहुलकात् ‘अञ्जिष्टसि–’ (उ० ३१८९ ) इति क्तः, नुम् च । मुकुटस्तु 'वृणोतेनुक्च' इति सूत्रं कल्पितवान् । -- बाहुल्यान णत्वम् इति चिन्त्यम् । अनुखारं प्रति णत्वस्य ( णत्वं प्रति परसवर्णस्य ) असिद्धत्वात् । 'वृन्तं प्रसवबन्धे च घटीधारा- कुचाप्रयोः’ ॥ (१) ॥*॥ प्रसूयते । 'षु प्रसवे' (भ्वा०प० अ० ) । ‘ऋदोरप्’ (३।३।५७) बध्यतेऽनेन । 'बन्ध बन्धने' ( क्या० प० से० ) करणे ल्युट् (३|३|११७) | प्रसवस्य १ - कटपो इति पाठः ॥ २- सस्यं दन्त्यादि 'ग्राम्यक विकथाबन्ध इव नारसस्यमनोहर आर्यावर्तः' इति दमयन्तीलेषात् ॥ पुष्पफलपत्रस्य बन्धनम् ॥ ( ५ ) ॥ ॥ द्वे 'पुष्पादिमूला- धारवृन्तस्य' ॥ आमे फले शलाटुः स्यात् आम इति ॥ शलति 'शल चलनसंवरणयोः' (भ्वा० प० से० ) | पन्चायच् (३|१|१३४) अति | 'अट गतौ' ( भ्वा०प० से० ) मृगवादित्वात् (उ० ११३७) कुः | शलश्चासावञ्च । तालव्यादिः । 'शटीशटितं शलाङः' इत्यूष्म- मेदात् ॥ (१) ॥ ॥ एकम् 'अपक्कफलस्य' ॥ शुष्के वानम् शुष्क इति ॥ 'फले' इत्येव ॥ वायति स्म । 'पै ओवै शोषणे' (भ्वा० प० अ० ) । 'गत्यर्थाकर्मक- (३१४१७२) इति कर्तरि क्तः । 'ओदितश्च' (८/२४५) इति त्वम् । वन्यते । 'वनु याचने ' ( त० आ० से ० ) घञ् (३।३।१८) वा 'वानं शुष्कफले शुष्के सीवने गमने कठे | अलसंतवां- तोर्मिंसुरङ्गासौरभेषु च ' इति हैमः ॥ ( १ ) ॥ * ॥ एकमं 'शुष्कफलस्य' ॥ उमे त्रिषु ॥ १५ ॥ उभे इति ॥ उमेशलाढुवाने त्रिषु ॥ स्त्रियां 'वा ना' ॥॥ क्षारको जालकं क्लीचे क्षारक इति ॥ क्षरति । 'क्षर संचलने' ( भ्वा० प० से० ) ण्वुल् (३|१|१३३ ) । 'क्षारको रसे। कोरके पक्ष्या- दिपाशे' इति हैमः । 'क्षारकः पक्षिमत्स्यादिपिटके जालके- ऽपि च ॥ ( १ ) ॥ ॥ जालमिव | 'इवे प्रति - ' (५|३| ९६ ) इति कन् । 'जालकं कोरके दम्भे कुलायानाययोरपि । न पुंसि मोचनफले स्त्रियां तु वसनान्तरे । गिरिसारजलौ- कायामपि स्याद्विधवास्त्रियाम् । भटानामश्मरचिताङ्गरक्षिण्यां च जालिका' ॥ (२) ॥ * ॥ द्वे 'नवकलिकावृन्दस्य' ॥ कलिका कोरकः पुमान् । कलिकेति ॥ कलयति 'कल गतौ संख्याने च' (चुरादिः) । 'अच इ: ' ( उ० ४।१३९ ) | स्वार्थे कन् (५१३१७५ ) ॥ (१) ॥ * ॥ कुर्यते | 'कुर शब्दे' ( तु०प० से० ) 'कृषादिभ्यः संज्ञायाम् ' ( उ० ५/३५ ) इति बुन् । 'कोरकोऽस्त्री कुमले स्यात्कक्कोलकमृणालयोः’ | (२) ॥ ॥ द्वे 'अविकसित- कलिकायाः ॥ स्याहुत्सकस्तु स्तबकः स्यादिति ॥ गुध्यते 'गुध परिवेष्टने ' ( दि०प० से ० ) । 'उन्दिगुधिषिभ्यश्च' (उ० ३१६८ ) इति सः कित् । 'स्तबके १ - पुंसि प्रचुरप्रयोगदर्शनादुक्तम् । न तु नियमार्थम् । क्की लिङ्गो ऽपि । 'कोरकोऽस्त्री कुमलेऽपि' इत्यादिमेदिन्यादिदर्शनात् । अत एव 'समुपहरन् विचकार कोरकाणि' इति माघः इति मुकुटः ।