पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः इति साधुः । 'शङ्कः पत्रशिराजाले संख्याकीलकशंभुषु । यादोऽस्त्रभेदयोर्मेढे’ इति हैमः ॥ (३) ॥॥ त्रीणि 'शाखा पत्ररहिततरोः' ॥ हस्वशाखाशिफः क्षुपः ॥ ८ ॥ • ह्रस्वेति ॥ शाखा च शिफा=मूलं च ते । हस्ते शाखा - शिफे यस्य ॥ ॥ क्षौति । 'टु क्षु शब्दे' ( अ० प० से ० ) । बाहुलकात्पोऽगुणश्च ॥ (१) ॥ ॥ एक 'सूक्ष्मशाखामूल- स्य शाखोटकादेः' ॥ अप्रकाण्डे स्तम्बगुल्मौ 1 • अप्रकाण्ड इति ॥ न प्रकाण्डोऽस्य ॥ * ॥ तिष्ठति । ‘ष्ठा गतिनिवृत्तौ’ (भ्वा० प॰ से ० ) । 'स्थः स्तोऽम्बजबकौ' (उ० ४१९६ ) । 'स्तम्बो गुल्मे तृणादी नामकाण्डद्रुमगुच्छयोः ॥ (१) ॥ ॥ गुडति । ‘गुड रक्षायाम्' ( तु॰ प० से॰) । बाहुल- कान्मन् । डलयोरैक्यम् । 'गुल्मः सेनाघट्टभिदोः सैन्यरक्षण- रुग्भिदोः । स्तम्बे, स्त्रियामामलैक्येलावनी वनवेश्मसु' ॥ (२) ॥ * ॥ द्वे 'स्कन्धरहितस्य' || वल्ली तु व्रततिलेता । वल्लीति ॥ वल्लते । 'वल वल संवरणे' (भ्वा० आ० से० ) । ‘सर्वधातुभ्य इन्’ ( उ० ४|११८ ) | ( कृदिकारात्- ' (ग० ४॥१॥४५) इति वा ङीष् ) - पचायच् (३|२|१३४) गौरादित्वात् (४|१|४१ ) । ङीष् - इति मुकुटोक्तिश्चिन्त्या । 'वल्ली स्यादजमोदायां लतायां कुसुमान्तरे' इति हैमः ॥ ॥ ( वेल्ल ( भ्वा० प० से० ) धातोरिनि 'वेल्लिः' इत्यपि । अत एव ) । 'वल्ली तु वेलिः सरणौ' इति वाचस्पतिः ॥ ( १ ) ॥॥ प्रतनोवि।...'तनु विस्तारे' ( त० उ० से० ) । ‘क्तिच्क्तौ च संज्ञायाम्’ ( ३|३|१७४ ) | पृषोदरादित्वात् ( ६।३।१०९ ) पस्य वो वा । 'प्रततिव्रततिस्तथा' इति हुलायुधः ॥ ॥ यद्वा व्रतमिव करोति । व्रतशब्दात् 'तत्क- रोति-' (वा० ३।१।२६) इति ण्यन्तावाहुलकादतिः । 'व्रत- 'तिस्तु प्रतानिन्यां विस्तारेऽपि' इति हैमः ॥ (२) ॥ * ॥ लतति । ‘लतिः’ सौत्रो धातुर्वेष्टनार्थः । पचायच् ( ३॥ १॥१३४ ) । 'लता ज्योतिष्मती दूर्वा शाखावल्लीप्रियङ्गुषु । स्पृक्कामाधव्योः कस्तूर्याम्' इति हैमः ॥ (३) ॥ ॥ त्रीणि 'लतामात्रस्य' || [द्वितीयं काण्डम् । । 'अत- सा प्रतानिनी । ईदृशी लतावीरुदादिशब्दत्रयवाच्या ॥॥ विरुणद्धि । 'रुधिर् आवरणे ( रु० उ० अ० ) । क्विप् (३।२।१७८) । 'अन्येषामपि -' (६|३|१३७) इति दीर्घः । - 'नहिवृति - ' ( ६।३।११६ ) इति दीर्घः | न्यङ्क्रादि- त्वात् (७७३१५३ ) । कुत्वम् इति स्वाम्युक्तिश्चिन्त्या ।. रुधेस्तत्रादर्शनात् कुत्वादर्शनाच । 'वीरुल्लताविटपयोः स्त्रि- यामू' ॥ (१) ॥ ॥ गुल्मः प्रतानोऽस्त्यस्याः इनि-’ (५।१।११५) वा ॥ (२) ॥ ॥ वलति । 'वल संव- रणे' ( भ्वा० आ० से० ) । 'विटपविष्टपविशिपोलपाः' ( उ० ३।१४५ ) इति 'वले: संप्रसारणं कपश्च' ॥–उल्यते । उलः सौत्र आवरणार्थो दाहार्थो वा । ‘कपश्चाक्रवर्मणस्य 'विटपादयः' इत्यपः इति खामिमु· भेदयोः' इति हैमः ॥ (३) ॥ ॥ इति त्रीणि 'शाखादिभि- कुटौ | तन्न | तादृशसूत्राभावात् । 'उलपस्तु गुल्मिनीतृण- र्विस्तृतवल्याः' ॥ इति कपो वा । नगाधारोह उच्छ्राय उत्सेधश्वोच्छ्रयश्च सः । नगेति ॥ नगस्य तरोः ॥ ॥ आरोहणम् । भावे घञ् (३२३११८ ) दैर्घ्यम् । 'आरोहो दैर्ध्य उच्छ्रये । आरोहणे गजारोहे स्त्रीकव्यां मानभिद्यपि” इति हैमः ॥ आदिना- गिरिदेवालयादिग्रहः ॥ ॥ उच्छ्रयणम् | ‘श्रिज् सेवायाम् ( भ्वा० उ० से ० ) 'उदि यति - ' ( ३ |३|४९) इति घञ् ॥ (१) ॥ * ॥ उत्सेधनम् ‘षिध गत्याम्' (भ्वा०प० से० ) । 'भारे' ( ३ | ३|१८ ) इति घन् । 'उत्सेधस्तूच्छ्रये न स्त्री क्लीबं संनहनेऽपि च ॥ ( २ ) ॥॥ श्रियो बाहु- लकात् ‘एरच्' ( ३।३।५६ ) अपि ॥ (३) ॥ ॥ त्रीणि 'वृ क्षादिदैर्ध्यस्य' ॥ लता प्रतानिनी वीरुहुल्मिन्युलप इत्यपि ॥ ९ ॥ लतेति ॥ शाखापत्रसंचयः प्रतानः । सोऽस्त्यस्याः । १ - आमलकी एला च वृक्षौ । वनी हस्वं वनम् - इत्यनेका- कैरवाकरकौमुदी ॥ अत्र तु 'वल्ली' इति पाठ आसीत् ॥ २- 'बल्लिस्वान्ता च 'हिरण्मयो वरुहवल्लितन्तुभिः' इति माघः - इति मुकुटः ॥ 'वल्लीवल्कपिनद्धधूसरशिराः” इति दमयन्त्यां दी घन्ता ॥ ३ – 'कृदिकारात्' इति ङीषि दीर्घान्तापि ‘धराधरेन्द्रं व्रततीततीरिव' इति माघः - इति मुकुटः ॥ 1 अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधि- स्तरोः ॥ १० ॥ अस्त्रीति ॥ प्रकाण्ड्यते । 'कड भेदने' चुरादिः 'एरच्' (३१३१५६ ) | पृषोदरादिः (६|३|१०९) काम्यते । ‘कमुं कान्तौ' (भ्वा० आर० से ० ) । णिङ् ( ३|१|३० ) ‘वरण्डाद्- यश्च' ( ) इति डो वा । 'प्रकाण्डो विटपे रास्ते मूलस्कन्धान्तरे तरोः' इति विश्वः ॥ ( १ ) ॥*॥ स्कन्द्यते । 'स्कन्दिर् गतिशोषणयोः' ( भ्वा०प० अ० ) । कर्मणि घञ् ( ३।३।१९) पृषोदरादिः (६।३।१०९) यत्तु मुकु- टेन- उणादौ स्कन्दिर् धातौ 'कन्देरच् स्खाङ्गे' ( उ० ४ २०७) इत्यच् प्रत्ययो धश्चान्तादेशः इत्युक्तम् 1 तन्न । त १ - 'विरोचते वीरुत् । इति पाठस्य स्वामिग्रन्थे उपलम्भा दीर्घोपपत्तेः ॥ न्यकादिगणे 'वीरुत्' इति पाठस्योपलम्मेन स्वा- मिग्रन्थे च न्यङ्क्रादित्वाद्धत्वम्' इति पाठस्यैवोपलम्भेन 'चकारस्य धत्वं निपात्यते' इत्यर्थस्य स्फुटं प्रतीयमानत्वेपि खण्डनोक्तिः प्रता- रणपरैव ॥२- 'आरोहणे गजारोहे' इति हैमे ॥ :