पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शैलवर्ग: ३] । बाहुलकादानच् | पृषोदरादिः ( ६ |३|१०९ ) | मूर्धन्यषः । पषत्यनेन । ‘पत्र बाधे ग्रन्थे च ' ( ) | 'हलच' ( ३ | ३ | १२१) इति घन् । अणति । 'अण शब्दे' (भ्वा०प० से०) अच् (३।१।१३४) पाषश्चासावणश्च । यत्तु — 'पषेर्णित्' इत्यानच्- इति मुकुटः । तन्न । उक्तसूत्रादर्शनात् ॥ (१) ॥*॥ प्रस्तृणाति | 'स्तृञ् आच्छादने' (त्र्या० उ० अ० ) पचाद्यच् (३।१।१३४)। ‘प्रस्तरो प्रावणि मणौ' इति हैमः ॥ (२) ॥ ॥ गिरति, गृणाति, वा । 'गृ निगरणे' ( तु०प० से० ) 'शब्दे' ( या० प० से० ) वा । 'अन्येभ्योऽपि ' (३|२|७५ ) इति वनिप् | पृषोदरादिः (६|३|१०९) । यद्वा गरति । ‘गृ सेके’ ( भ्वा० प० अ० ) । मूलविभुजादिः (वा० ३।२।५ ) | अवति । 'अव रक्षणादौ ' ( भ्वा० प० से ० ) । बाहुलकात्कनिः। ग्रश्चासाववा च । 'ग्रावा तु प्रस्तरे पृथ्वी- धरे पुंसि’ इति मेदिनी ॥ (३) ॥ * ॥ उप लाति | ‘ला दाने' ( अ० प० अ० ) | 'आप' (३।१।१३६) इति कः । यद्वा पलति । 'पल गतौ' ( भ्वा०प० से ० ) अच् (३।१।१३४)। ओः शंभोः पलो बोधकः । 'उपलो ग्रावर लयोः । उपला तु शर्करायाम्' इति हैमः ॥ ( ४ ) ॥*॥ अनुते। ‘अशूङ् ब्याप्तौ संघाते च ' ( स्वा० आ० से ० ) । 'अन्येभ्योऽपि ' ( ३।२१७५ ) इति मनिन् ॥ ( ५ ) ॥ ॥ शि लति । 'शिल उच्छे' ( तु०प० से० ) तालव्यादिः । 'इगु- पध–’ (३।१।१३५) इति कः ॥ (६ ) ॥ ॥ दृणाति ।' विदारणे' ( क्या०प० से ० ) । 'दृणातेः पुग्घ्रस्खश्च' (उ० १। १३१) इत्यदिः । 'टेषत्पाषाणमात्रके | निष्पेषणार्थपट्टेऽपि । ('कषायः कूष्माण्डो महिष) वृषभव्योषदृषदः' इत्यूष्मभेदान्मू- र्धन्यमध्यः ॥ (७) ॥*॥ सप्त 'पाषाणस्य' ॥ । व्याख्यासुधीख्यव्याख्यासमेतः । २२५ खरं पुलंकाप्रयोः । पक्कदाडिमबीजाभमाणिक्यशकलेऽपि च । गिरिवृक्षाकेक्षासु' इति हैमः । 'अस्त्री' इति पूर्वोत्तराभ्यां संबध्यते ॥ (२) ॥ ॥ शृणाति | 'शू हिंसायाम्' ( क्या ० प० से० ) 'शृणातेर्हस्वश्च' ( उ० १११२६) इति गन्नुड्हस्वाः । 'शृङ्गं प्रभुत्वे शिखरे चित्रे क्रीडाम्बुयन्त्रके | विषाणोत्कर्ष- योश्चाथ शृङ्गः कूर्चकशीर्षके । स्त्री विषायां स्वर्णमीनभेदयो- ऋषभौषधौ' इति मेदिनी ॥ ( ३ ) ॥ ॥ त्रीणि 'पर्व' ताग्रस्य' || . १–‘सं इर्षपाषाणपुरीषदूषिकानिषेधदुःषेधमृषानुषङ्गिणः' इत्यूष्मवि- वेकात् — इति मुकुटः ॥ २ - मेदिनीस्थोऽयं पाठः । हैमे तु 'प्रस्तारे' इत्यधिकः पाठः ॥ ३ - दृषदः शिलासाहचर्यात्स्त्रीत्वम् - इति मुकुटः ॥ ४~यत्रे मृगादिबन्धनार्थे । छले यथा 'छित्वा पाशमपास्य कूटरचनां भक्त्वा बलाद्वागुराम्' इत्यनेकार्थकैरवाकरकौमुदी || प्रपातस्त्वतंटो भृगुः ॥ ४ ॥ प्रपात इति ॥ प्रपतन्त्यस्मात् । 'पत्ऌ गतौ' ( भ्वा० प० से० ) । 'अकर्तरि - ' (३।३।१४) इति घञ् । 'प्रपातों निर्झरे भृगौ | अवटे पतने कच्छे' इति हैमैंः ॥ (१) ॥*॥ न तटमत्र ॥ (२) ॥ ॥ भृज्जति भृज्यते वा 'भ्रस्ज पाके ( तु० उ० अ० ) । 'प्रथिदिभ्रां प्रसारण सलोपश्च ( उ० १॥२८ ) | न्यङ्का दित्वात् 'कुत्वं (७|३|५३) । 'भृगुः सानौ जमदग्निप्रपातयोः । शुक्रे रुद्रे च' इति हैमः। ‘प्रपा- तस्तु तटो भृगुः' इति पाठे प्रपत्यते यतस्तटात्स भृगुः ॥ (३) ॥ * ॥ त्रीणि 'पर्वतात्पतनस्थानस्य' || कटकोऽस्त्री नितम्बोऽद्वेः कटक इति ॥ कटति, कय्यते, वा । 'कटे वर्षावरणयोः 'कटकस्त्वद्रिनितम्बे बाहुभूषणे । (सेनायां राजधान्यां च ) ( भ्वा० प० से ० ) । 'कुन् शिल्पिसंज्ञयोः' ( उ० २१३२ ) । इति हैमः ॥ (१) ॥॥ एकं 'पर्वतमध्यभागस्य मेखला- ख्यस्य' || स्नुः प्रस्थः सानुरस्त्रियौ । सुरिति ॥ स्नौति जलम्, स्नाति वा । 'ष्णु प्रस्रवणे' कूटोऽस्त्री शिखरं शृङ्गम् कूट इति ॥ कूटयति । 'कूट दाहे' ( चु० उ० से ० ) । पचायच् (३।१।१३४)। यत्तु – 'इगुपध' (३|१|१३५ ) | १ - रोमाब्याग्रमात्रयोर्यथा 'रुचिरै: शिखरैः काम्या गृहस्त्री च मृगेक्षणा' । पक्कदाडिमबीजाभमाणिक्यखण्डे यथा - तन्त्री श्यामा शिखरदशना' इत्यनेकार्थकैरवाकरकौमुदी ॥२- हैमे तु 'वृक्षाभे पर्व- इति कः - इति मुकुटः । तन्न । कूटेश्वरादित्वेन णिजन्तत्वादि ताये च' इति पाठ उपलभ्यते ॥ ३ – शृङ्गशब्दः पुंस्यपीति स्वामी गुपधत्वासंभवात् । णिजभावे वा । कूट्यते वा घञ् (३|३|| १४) 'कूटं पूरैंयन्त्रयोः । मायादम्भाद्रिशृङ्गेषु सीराङ्गेऽनृत- तुच्छयोः। निश्चलेऽयोघने राशौ' इति हैमः ॥ ( १ ) ॥॥ शिखाऽस्यास्ति । 'शिखाया हस्खश्च' (५१२) इति रः । शिखां राति, इति वा । ‘ढयापोः’ (६|३|६३) इति हवः । 'शि- पञ्जिका च । तथाच 'जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशङ्गस्य तदा तदासनम् इति माघः - इति मुकुटः ॥ ४ – हैमेतु ‘प्रपातः सौप्तिके भृगौ' इत्येतावदेव पाठ उपलभ्यते । व्याख्यातं च 'सौप्तिको रात्रिधावी' इति । तत्र यथा 'यस्य प्रपातभयतो निशि न प्रसुप्ताः' इत्यनेकार्थकैरवाकरकौमुद्याम् ॥ ५ – अनयोः स्तुनितम्बयोः साई- चर्यादस्त्रीत्वम् । 'पुमानेव स्नुः' इति सर्वधरः इति मुकुटः ॥ 'हैमाभिधाननाममालाव्याख्यायामपि स्नुः पुंलिङ्गः' इत्युक्तम् ॥ अत्रेदं प्रतिभाति । सामुशब्दस्यास्त्रीस्नु शब्दस्याप्यस्त्रीत्वमेव । 'पइनो' (६१) इति सूत्रे स्तुमादेशं विधाय तस्य स्थानितायाः सानुशब्दस्यैव भाष्यकृता दर्शितत्वात् । स्थान्यादेशयोभिन्न लिङ्गत्वे 'स्थान्यर्थाभि: धानसमर्थस्यैवादेशता' इति सिद्धान्तभङ्गापत्तेः । पञ्चकपक्षे लिङ्गस्यापि · प्रातिपदिकार्थत्वादिति ॥