सामग्री पर जाएँ

पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ प्रथम काण्डम् बर्हिरग्निर्मुखं येषां ते ॥ (२०) ॥ ॥ ऋतून् ऋतुषु वा भुञ्जते । 'भुज पालनाभ्यवहारयोः' (रु० आ० अ०) किप् (३।२।७६ ) ॥ (२१) ॥ ॥ गीरेव निग्रहानुग्रहसमर्था बाणोऽस्त्रं येषाम् ॥ * ॥ दन्तोष्ठ्यपाठे गिरं वन्वते स्तुति प्रियत्वात् । 'वनु याचने' ४११८६) इति बाहुलकात् कितच् । यद्वा-तोषणं तुट् | संपदादिः ( वा० ३।३।१०८ ) | ततः 'तारकादित्वादितच्' (५१२१३६ ) ॥ ( ४ ) ॥ ॥ आ समन्ताद्भासनशीलाः । 'भास दीप्तौ ' ( भ्वा० आ० से ० ) । 'स्थेशभासपिसकसो वरच्' (३।२।१७५) ॥ (५) (त० आ० से०) 'कर्मण्यण्' (३|२|१) | 'पूर्वपदात्' (८1 - | ॥ ॥ अनन्त्यनेन । 'अन प्राणने' (आ० प ० से ० ) 'सलिक- ४ | ३ ) इति णत्वम् ॥ (२२) | || दानवानामरयः ॥ (२३) ॥*॥ प्रशस्तं वृन्दं येषाम् । 'शृङ्गवृन्दाभ्यामारकन्' (५१२/- १२० वा० ) । ( 'वृन्दारकः सुरे पुंसि मनोज्ञ श्रेष्ठयोत्रिषु ) ॥ (२४) ॥ * ॥ देवशब्दात्स्वार्थे तल् (५४१२७) । ततः स्वार्थे प्रज्ञायण् (५|४|३८ ) । विशेषविधेः पुंस्त्वम् । रूपभेदात्क्लीब- त्वम् ॥ (२५) ॥ * ॥ देवताः ॥ (२६) ॥ स्त्रियाम् । रूपभे दादेव स्त्रीत्वे सिद्धे बहुवचनान्त पुंलिङ्गशङ्कावारणार्थं 'स्त्रियाम्' इति-मुकुटः । तन्न । रूपभेदेनैव वारणाद्विसर्ग विना पुंलिङ्गको- टेरनुत्थानात् । अन्यथा 'पद्मा गदा' इत्यादौ तस्या अनिवा- रणात् । अतो 'देवपर्यायाः पुंसि' इति वक्ष्यति । तद्बाधनार्थ- मिदम् । षड्विंशतिः 'देवानाम्' || आदित्य- विश्व - वसवस्तुषिताभास्वरानिलाः । महाराजिक-साध्याश्च रुदाश्च गणदेवताः ॥ १० ॥ आदित्यादयः प्रत्येकं गणदेवता: समुदायचारिण्यो देवताः । एकत्वं तु समुदायवृत्तानामवयववृत्तेरप्यभ्युपगमात् । 'आदित्या द्वादश प्रोक्ता विश्वेदेवा दश स्मृताः । वसवश्वाष्ट संख्याताः षट्त्रिंशत्तुषिता मताः । आभास्वराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः । महाराजिकनामानो द्वे शते विंशतिस्तथा । साध्या द्वादश विख्याता रुद्राश्चैकादश स्मृताः ॥ ॥१॥ ॥ विशन्ति कर्मस्विति विश्वे । ‘विश प्रवेशने' (तु०प०अ०) । ‘अशू प्रुषि-लटि-कणि-कटि-विशिभ्यः क्वन्' ( उ० १1१५१ ) । सर्वनामसंज्ञोऽयम् । आधुनिकसंज्ञाखेव सर्वनामत्वपर्युदासात् । मुकुटस्तु—सर्वेषां विश्वे(षां) देवानां नाम इति कृत्वा सर्व- नामसंज्ञः— इत्याह । तन्न । एकशब्दस्य बहुषु संकेतितस्य संज्ञात्वौचित्यात् । यथा प्राचीनबर्हिषः पुत्रेषु संकेतितस्य प्रचेतःशब्दस्य । 'यथा पूर्वजवृत्तिः पूर्वशन्दः' इति तदीय- दृष्टान्तोऽपि चिन्त्यः । पूर्वजवृत्तेः पूर्वशब्दस्य व्यवस्थायां सत्त्वात्संज्ञात्वोक्तिसंभवाभावात् ( 'विश्वा त्वतिविषायां स्त्री जगति स्यान्नपुंसकम् । न ना झुण्ठ्यां पुंसि देवप्रमेदेष्वखिले त्रिषु' ) ॥ (२) ॥*॥ वसन्तीति वसवः । 'वस निवासे ‘श-स्त्र-स्त्रिहि-त्रप्यसि-वसि-हनि - क्लिदि-बन्धि-मनिभ्यश्च' ( उ० १।१० ) इति उः । ‘विश्वस्य वसुराटोः' ( ६ | ३ | १२८ ) इति दीर्घो न। असंज्ञात्वात्। ( 'वसुस्त्वमौ देवमेदे नृपे रुचौ । यो शुष्के वसु खादौ रत्ने वृद्ध्यौषधे धने' ) ॥ (३) ॥ * ॥ तुष्यन्ति । ‘तुष तुष्टौ’। ‘रुंचिकुटिरुषिभ्यः कितच' ( उ०) ल्यनिमहिभण्डिमण्डिशण्डिपिण्डितु ण्डिकुकिभूभ्य इलच्' ( उ० १९५४) 'अनिलो वसुवातयोः ॥ ( ६ ) ॥ ॥ महती राजिः पङ्क्तिर्येषाम् । 'शेषाद्विभाषा (५/४/१५४) इति कप् ॥ ॥ 'माहाराजिक' इति पाठे महाराजो देवता येषाम् । 'महा- राजप्रोष्ठपदाद्वञ् (४१२३५ ) इति ठञ् । यद्यपि --सूक्तह- विर्भागिन एव देवतात्वम्, तथापि 'आग्नेयो वै ब्राह्मण: ' इतिवदुपचारो बोध्यः ॥ (७) ॥ * ॥ साध्यं सिद्धिः । 'साध संसिद्धौ' ( खा०प० अ० । 'ऋहलोर्ण्यत्' (३|१|१२४ ) इति भावे ण्यत् । साऽस्त्येषाम् । अर्शआद्यच् (५।२।१२७)। 'सांध्यो योगान्तरे सुरे | गणदेवविशेषे च साधनीये च वाच्यवत्' ॥ (८) ॥*॥ रोदयन्त्यसुरान् । 'रुदिर् अश्रुविमो- चने' ( अ० प० से ० ) ॥ 'रोदेर्णिलक् च ' ( उ० २१ २२ ) इति रक् णेच लुक् ॥ (९) ॥ नव 'गणदेवानाम् ॥ विद्याधरोऽप्सरो-यक्ष-रक्षो-गन्धर्व- किंनराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ११॥ विद्येति ॥ 'विद्याधरोऽप्सरो -' इति पाठः । भिन्नलिङ्ग- त्वादप्रेऽनभिधानादसमासः । विद्याया गुटिकाञ्जनादिविष- यिण्या धरो धारकः । यत्तु – 'विद्यां धरति' इति मुक् आह । तन्न | पचायचः ( ३|१|१३४) अपवादत्वाद (३।२।१ ) प्रसङ्गात् ॥ (१) ॥ ॥ अद्भ्यः सरन्ति। ‘सरतेर- सुन्' ( उ० ४१२३७ ) ॥ (२) ॥ ॥ यक्ष्यते पूज्यते ‘यक्ष पूजायाम्' (चु० अ० से ० ) । ' अकर्तरि च कारके संज्ञायाम् ( ३१३ | १९ ) इति कर्मणि घञ् । 'यक्षो गुह्यकमात्रे च गुह्य- काधीश्वरेऽपि च' । इः कामः, तस्येवाक्षिणी अस्येति वा, इर- क्षिषु यस्येति वा । 'बहुव्रीहौ सक्थ्यक्ष्णो:-' (५२४१४३) इति षच् ॥ (३) |॥ * ॥ रक्ष्यन्त्येभ्यो रक्षांसि । 'रक्ष पालने' ( भ्वा०प० से ० ) । 'सर्वधातुभ्योऽसुन्' ( उ० ४|१८९ ) ॥ (४) ॥ ॥ गन्धं सौरभमर्वति गन्धर्वः । 'अर्व गतौ' (भ्वा० प० से ० ) । 'कर्मण्यण' ( ३३२|१ ) शकन्ध्वादिः ( चा० ६ ॥१॥९४ ) ॥ ( ५ ) ॥ * ॥ अश्वमुखत्वात्कुत्सिता नराः । 'किं क्षेपे' (२११९६४) इति समासः ॥ ( ६ ) ॥ ॥ पिशितम- नाति । 'अश भोजने' ( क्या ० प ० से ) | 'कर्मण्यण्’ ( ३१२११ ) (पृषोदरादिः' (६|३|१०९ ) | मध्यतालव्यः ॥ (७) ॥ ॥ गूहति निधि रक्षति । 'गुहूं संवरणे' ( भ्वा० उ० से० ) | ‘ण्वुल्' (३।१।१३३ ) | पृषोदरादित्वाद्यैगागमः। | तथा च व्याडि:- 'निधिं रक्षन्ति ये यक्षास्ते स्युर्गाक ज्ञकाः' इति । यद्वा गुह्यं कुत्सितं कायति । 'कै शब्दे' ( स्वा० प० अ० ) 'आतोऽनुपसर्गे कः' ( ३१२१३ ) गुह्यं गोपनीयं } १-~सूत्रं 'रुचिवचिकुचिकुटिभ्मः कितच्' इत्येवमुणादिषूप लभ्यते ।