पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
स्वर्गवर्ग: १]
व्याख्यासुधाख्यव्याख्यासमेतः ।

प्रयुज्यते । (रू[१]पभेदेनैव क्लीबत्वे लब्धे रूपभेदलब्धलिङ्गविशेष- स्यानित्यत्वज्ञापनार्थं क्लीब इत्युक्तम् । तस्य फलं 'कर्म किया तत्सातत्ये गम्ये स्युरपरस्पराः’ इत्यत्र नपुंसकत्व उक्तेऽपि पुंलिङ्गत्वं सिद्धम् । अतः 'कर्म व्याप्ये क्रियायां च पुंनपुंसक- योर्मतम्' इति रुद्रकोशेन सह न विरोधः शङ्कनीयः ) । केचि - त्तु — 'पिष्टप' इति सूत्रं पठित्वा विशतेरादेः पो निपात्यते - इत्याहुः । अयं पुंस्यपि । तथा चामरमाला - 'पिष्टपो विष्टपोऽ- प्यस्नी भुवनं च नपुंसकम्’ इति । 'नभो विष्टपं वृषो गौर्ना पृश्निश्चापि सुरालयः' इति रत्नमाला । एवं शक्रभवनफलोदया- वरोहोर्ध्वलोकादयोऽप्यूह्याः । नव ’स्वर्गस्य’

अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः ।
सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ ७ ॥
आदितेया दिविषदो लेखा अदितिनन्दनाः ।
आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥८॥
बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः |
वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥९॥

 अमरा इति ॥ न म्रियन्ते ‘मृङ् प्राणत्यागे' ( तु० आ० अ०)। पचाद्यच् (३।१।१३४) । 'अमरस्त्रिदशेऽप्य [२]स्थिसंहारे कुलिशद्रुमे । स्त्री गुडूच्यमरावत्योः स्थूणादूर्वाजरायुषु' ॥ (१) ॥*॥ जराया निष्क्रान्ताः। ‘निर्जरः स्यात्पुमान्देवे जरात्यक्ते च वाच्यवत् । निर्जरा तु गुडूच्यां च तालपर्ण्यामपि ‘स्त्रियाम्’ ॥ (२) ॥*॥ दीव्यन्तीति देवाः | पचादिषु (३|१|- १३४) पाठादच्। ‘देवः सुरे घने राज्ञि देवमाख्यातमि- न्द्रिये । देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि ॥ (३) ॥ * ॥ तृतीया यौवनाख्या दशा सदा येषाम् | त्रिशब्दस्य तृतीया- र्थता त्रिभागवत् । त्रिर्द [३]श वा । 'संख्ययाऽव्यया -' (२।२।२५) इति बहुव्रीहिः । 'बहुव्रीहौ संख्येये -' (५।४।७३) इति डच् । जन्मसत्ताविनाशाख्यास्तिस्रो दशा येषामिति वा । 'त्रीन् तापान् दशन्ति 'दंश दशने' (भ्वा० प० अ० ) पचाद्यचि पृषोदरादित्वात् (६।३।१०९) 'न लोपः' इति राजदेवः । तन्न । उक्तविग्रहे कर्मण्यणः ( ३।२।१ ) प्रसङ्गेनाचोऽप्राप्तेः । मूलवि- भुजादित्वादित्येके ( ३।२।५ वा० ) वा समाधेयम् ॥ ( ४ ) ॥*॥ विशिष्टो बुधो येषाम् । त्रिकालज्ञजीव-शिष्यत्वात् । विशेषेण बुध्यन्ते वा । 'बुध अवगमने' (भ्वा० प० से०, दि० आ०- अ॰)। ‘इगुपध–’ ( ३।१।१३५ ) इति कः । 'विबुधो ज्ञे सुरे’ ॥ (५) ॥*॥ सुरन्तीति सुराः । 'षुर प्रसवैश्वर्ययोः' (तु०- प० से ० ) । 'इगुपध-' (३।१।१३५ ) इति कः । यद्वा समु-


द्रोत्था सुरास्त्येषाम् । अर्शआद्यच् (५।२।१२७) । यद्वा शोभनं राजते । 'राजू दीप्तौ ' ( भ्वा० उ० से ० ) 'अन्येभ्योऽपि ’ ( ३।२।१०१ वा० ) इति डः । 'सुरा चषकमद्ययोः | पुंलिङ्ग- स्त्रिदिवेशे स्यात्’ ॥ (६) ॥ ॥ सुष्ठु पर्व अमावास्यादिचरितम्, अङ्गुल्यादिग्रन्थिः, उत्सवो वा येषां सुपर्वाण: । 'सुपर्वा ना शरे वंशे पर्वधूमसुरेषु च ॥ ' (७) ॥*॥ शोभनं मनो येषां ते सुमनसः । 'सुमनाः पुष्पमालत्योः स्त्रियां, ना धीरदेवयोः ॥’ (८) || त्रिदिवस्येशाः ॥ (९) ॥*॥ दिवमोको येषां ते दिवौकसः । दिवशब्दोऽदन्तः । 'मन्दरः सैरिभः शक्रभव (सदनं ) खं दिवं नभः' इति त्रिकाण्डशेषात् । द्यौरोको येषामिति विग्रहे 'दिवोकसः' अपि । 'स्याद्दिवौका दिवोकाश्च देवे चापीह पक्षिणि' इति रन्तिदेवः । 'दिवोकाश्च दिवौकाश्च पुंसि देवे च चातके' । श[४]ब्दपरविप्रतिषेधात्परस्य यणादेशः । स्थानिवत्त्वेन पूर्वस्य न यण् । 'सकृद्गतौ' (१।४।२ प०) इति न्यायात् ॥ (१०) ॥*॥ 'नञो दाञो डितिः' इति शाकटा- यनः । यद्वा द्यति । 'दो अवखण्डने' ( दि० प० अ० ) । ‘क्तिच् क्तौ च -' (३।३।१७४) इति क्तिच् । ‘द्यतिस्यति–’ (७।४।४०) इति इत्त्वम् । दितिभिन्ना अदितिः। अदित्या अपत्यानि । 'कृदिकारादक्तिनः' (४।१।४५ ग०) इति ङीषन्तात् 'स्त्रीभ्यो ढक्' (४।१।१२०) ॥ (११)॥*॥ दिवि सीदन्ति वर्तन्ते 'षद विशरणगत्यवसादनेषु' (भ्वा० प० अ०, तु०- प० अ०)। 'सत्सूद्विष- (३।२।६१) इति क्विप् । 'हृद्द्युभ्यां च' (६।३।९ वा० ) इति लक् । ‘सुषामादिषु च’ (८।३।- ९८) इति षत्वम् ॥ * ॥ 'तत्पुरुषे कृति बहुलम्’ (६।३।१४) इति डेर्लुकि 'द्युसदः' अपि । 'मनःसु येन दुसदां न्यधीयत’ इति माघः ॥ (१२) ॥*॥ चित्रादौ लिख्यते । 'लिख अक्ष- रविन्यासे' ( तु० प० से ० ) | ‘अकर्तरि - ' ( ३।३।१९) इति कर्मणि घञ् । ग्रीवाहस्तपादेषु तिस्रो लेखाः सन्त्येषामिति वा । ’अर्श आद्यच्' (५।२।१२७) । 'लेखो लेख्ये सुरे लेखा लिपिराजिकयोर्मता' ॥ (१३) ॥*॥ अदितेर्नन्दनाः ॥(१४)॥*॥ अदितेरपत्यानि । 'दित्यदित्या-' (४।१।८५) इति ण्यः । लिङ्गविशिष्ट (४।१।१) परिभाषाया अनित्यत्वान्ङ्यन्ताण्ण्यो न । 'आदित्यो भास्करे देवे' ॥ (१५) ॥*॥ ऋशब्दवाच्यः स्वर्गः, अदितिर्वा । स्वरादि (१।१।३७) पाठादव्ययत्वम् । तत्र ततो वा भवन्ति । 'मितद्वादित्वात् ' ( वा० ३।२।१८० ) डुः ॥ * ॥ क्विपि (३।२।७६) 'ऋभुवः’ अपि-इत्यन्ये ॥ (१६) ॥*॥ अविद्यमानः स्वप्नो येषाम् ॥ (१७)॥*॥ म्रियन्तेऽ- स्मिन्निति मर्तो भूलोकः । 'हसिमृग्रिण्वामिदमिलूपूर्विभ्य- स्तन्' (उ० ३।८६) । तत्र भवा अप्युपचारान्मर्ताः । ततश्च ‘नवसूरमर्तयविष्ठेभ्यो यत्' (वा० ५।४।३६) इति स्वार्थे यत् । तद्भिन्नाः ॥ (१८)॥*॥ अमृतमन्धोऽन्नं येषां ते ॥ (१९)॥*॥


  1. अयं पाठो बहुत्र नोपलब्धः ।
  2. अस्थिसंहारे गङ्गादि- प्रक्षेप्याणामस्थ्न्यामेकत्र मीलने–इत्यनेकार्धकैरवाकरकौमुदी ।
  3. दश दशद्वर्गाः। ‘श्रियं विन्दति सौमित्रे पञ्चविंशति वर्षवत्' इति रामायणवाक्येन सदा देवानां पञ्चविंशवर्षात्मकत्वेन तृतीये दशे- त्येव वर्तमानत्वमिति भावः ।
  4. इदं च 'दिव उत्' ( ६।१।१३१) इति बकारस्योत्वे कृते बोध्यम् ।