तस्य सामञ्जस्यात् ॥ ४ ॥ त्रयाणां लिङ्गानां समाहारस्त्रिलिङ्गी, तत्र 'त्रिषु' इति पदं ज्ञेयम् । इति परिभाष्यते । यथा - ‘त्रिषु स्फुलिङ्गोऽग्निकणः’ । न्यायसिद्धं चैतत् । त्रिलिङ्ग्यतिरि- क्तस्यार्थ[ र्थान्तर ]स्यासंभवात् । अयोगाच्च । स्त्रीपुंसौ मिथु - नम्, तत्र ‘द्वयोः' इति पदं ज्ञेयम् । यथा – 'द्वयोर्ज्वाल कीलौ' । 'द्वयोः' इति द्विशब्दप्रयोगोपलक्षणम् । तेन 'द्विहीनं प्रसवे सर्वम्', 'दूयहीने कुकुन्दरे' इत्याद्युपपद्यते । तथा निषिद्धं लिङ्गं यस्य तन्निषिद्धलिङ्गं पदं, शेषार्थं शेषलिङ्गकं ज्ञेयम् । इदमपि न्यायसिद्धम् । विशेषनिषेधे शेषाभ्यनुज्ञानात् । यथा - 'वज्रमस्त्री' इति । तुरन्ते यस्य तत्त्वन्तम्, अथ आदि- र्यस्य तदथादि, त्वन्तं च अथादि च नामपदं लिङ्गपदं सर्वनाम- पदं अव्ययपदं च पूर्वान्वयि न भवति । किं तूत्तरान्वयि । 'नगरी त्वमरावती' 'जवोऽथ शीघ्रं त्वरितम्' इति च नाम- पदम्। ‘पुंसि त्वन्तर्धिः’ ‘शस्तं चाथ त्रिषु द्रव्ये' इति लिङ्ग- पदम् । ‘तस्य तु प्रिया’ इति सर्वनामपदम् | ‘वा तु पुंसि' इत्यव्ययपदम् । अथशब्दोऽथोशब्दस्याप्युपलक्षणम् । यथा- ‘अनुक्रोशोऽप्यथो हसः' । न्यायसिद्धमिदम् | तुना पूर्वस्मा- द्विशेषद्योतनात् । अथशब्देन चार्थान्तरारम्भात् । भ्रमविषयं चैतत् । 'उदपानं तु पुंसि वा' इत्यादौ तु न दोषः । उत्तर- स्यानामत्वात् । लिङ्गवाचिनाऽन्वयेऽपि दोषाभावात् । वस्तु- तस्तु अत्र पादपूरणाय चकाराद्यैव पठितुं युक्तम् ॥ ५ ॥ स्वरव्ययं स्वर्ग-नाक-त्रिदिव-त्रिदशालयाः । स्वरिति ॥ यद्यपि 'चतुष्टयी शब्दानां प्रवृत्तिः' इति पक्षे संज्ञाशब्देषु व्युत्पत्तिर्नावश्यकी, तथापि शाकटायनाद्यभिम - तत्रयीपक्षे व्युत्पत्तिः प्रदर्श्यते ||*|| स्वर्यते स्तूयते इति स्वः । ‘स्वृ शब्दोपतापयोः’ (भ्वा० प० अ० ) । 'अन्येभ्योऽपि दृश्यन्ते' (३।२।७५ ) इति विच् । बाहुलकात्कर्मणि गुणः ( ७।३।८४) रपरत्वम् ( १।१।५१ ) इत्याहुः | तन्न । निर्बी- जबाहुलकाश्रयणस्यायुक्तत्वात् । 'स्वरति शब्दायते' इति व्युत्पत्तिरप्ययुक्ता । उक्तार्थस्य तत्रासंभवात् । स्वरत्य- प्राप्त्या उपतापयति । 'नैनं कृताकृते तपतः' इति श्रुतेः । स्वरादि (१।१।३७ ) पाठादव्ययत्वम् । 'अव्ययोऽस्त्री शब्दभेदे नाविष्णौ निर्व्यये त्रिषु' । स्वःशब्दस्य मङ्गलार्थमादौ प्रयोगः (‘स्वः प्रेत्य व्योम्नि नाके च’) ॥(१)॥ * ॥ सुष्टु अर्ज्यते स्वर्गः । 'अर्ज अर्जने' (भ्वा० प० से० ) कर्मणि ( ३। ३।१९ ) घञ् । ऋज्यतेऽस्मिन्निति वा । ‘ऋज गतिस्थानार्जनोपार्जनेषु' ( भ्वा० आ० से ० ) 'हलश्च' ( ३।३।१२१ ) इति घञ् । न्यङ्क्वादि- त्वात् (७।३।५३) कुत्वम् | यत्तु मुकुटः-- 'चजोः' - (७।३।५२) इति कुत्वमाह। तन्न । ‘निष्ठायामनिटः कुत्वम् (७।३।५९ ) इति वार्तिकात् ॥(२) ॥*॥ 'कं सुखं तद्विरुद्धम् अकं दुःखम्, नास्त्यकमत्र' इति नाकः । 'नभ्राण्नपात्- ' ( ६।३।७५ ) इति नलोपो न । को ब्रह्मा, तदभावो नात्रेति वा । 'नाकस्तु त्रिदि- |
वेऽम्बरे' ॥ ( ३ ) ॥*॥ तिसृष्वप्यवस्थासु त्रयो ब्रह्मविष्णुरुद्रा वा दीव्यन्त्यत्रेति त्रिदिवः ।– 'घञर्थे कविधानम्' (वां० ३।- ३।८ ) इति कः - इत्याहुः । तन्न । 'स्थास्नापाव्यघिहनियुध्य- र्थम्' ( उक्तवार्तिकशेषे ) इति परिगणनात् । उदाहरणत्वेन व्याख्यानस्य निर्मूलत्वात् । यदपि - मूलविभुजादित्वात् ( वा० ३।२।५ ) कप्रत्ययः-इति । तदपि न । अधिकरणव्युत्पत्तिप्र- दर्शनस्यासंगतत्वात् । तत्र 'कर्तरि कृत्' ( ३।४।६७ ) इति वाक्यशेषात् । तस्मात् - 'हलश्च' (३।३।१२१ ) इति घञ्। संज्ञापूर्वकत्वात् न गुणः- इति व्याख्येयम् । यद्वा – ब्राह्मवैष्ण- वरौद्रभेदेन सात्त्विकराजसतामसभेदेन वा त्रिविधो दीव्यति व्यवहरति प्रकाशते वा ('दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तु- तिमोदमदस्वप्नकान्तिगतिषु' । ( दि० प ० से ० ) 'इगुपधत्वात् ' ( ३।१।१३५ ) कः । 'त्रिदिवं तु खे । स्वर्गे च त्रिदिवा नद्याम्' इति मेदिनी[१]दर्शनात् क्लीबेऽपि ॥ (४) ॥ *॥ त्रिदशा- नामालयः ॥ (५) ॥ स्वर्गसुरादयः शब्दाः स्वरूपपराः। लक्ष- णया त्वर्थपराः । अतः समानार्थत्वाभावादेकशेषो न ॥*॥ सुराणां लोकः ॥ ( ६ ) ॥ सुरसद्मादीनामप्युपलक्षकमेतत् । एवं यौगिकेषु सर्वत्रोन्नेयम् ॥ * ॥ द्योतन्तेऽस्यां द्यौः गोवत् । बाहु- लकात् ( ३।३।१) द्युतेः ('द्युत दीप्तौ’ ) (भ्वा० आ० से ० ) डोः । द्यौति ‘द्यु अभिगमने' (आ० प० अ०)। विच् ( ३।२।७५) वा । ('द्यौस्तु स्वर्गविहायसोः ) ॥ (७) ॥*॥ दीव्यन्त्यस्या- मिति बाहुलकात् (३|३|१) दिवेः (दिवु क्रीडादिषु। दि० प ० से० ) दिविः | द्यौः, दिवौ, दिवः, द्युभ्याम् । (‘द्यौः स्वर्गन- भसोः ) ॥ (८) ॥ यत्तु - 'दिवेर्ङ्योः' इति ङ्योप्रत्ययः - इत्याह मुकुटः | तन्न । उक्तसूत्रस्या२दर्शनात् । स्वामी तु —द्योशब्दोऽ- प्योकारान्तोऽस्ति । भाष्ये (६।१।९३) 'गोतो णित्' (७।१।- ९० ) इत्यत्र ‘ओतो णित्' इति पाठान्तराम्नानात्' इत्याह | तदपि न । स्मृत उर्येन स स्मृतौरित्यत्र वृद्धिविधानेन पाठ- स्योपक्षीणत्वात् । यदपि - दिवेः क्विप् ( ३।२।७६ ) इत्यु- क्तम् । तदपि न । दिवौ दिव इत्यादौ ' च्छ्वोः शूड्-' (६।४।- १९ ) इत्यूठः प्रसङ्गात् । सुभूतिस्तु – 'द्यु अभिगमने' द्यूयते अभिगम्यते बाहुलकात्कर्मणि डोप्रत्ययः - इत्याह । 'द्यौः स्त्री स्वर्गे च गगने दिवं क्लीबं तयोः स्मृतम्' । यत्तु --स्वामिना 'दिवशब्दो वृत्तिविषयः' इत्युक्तम् । तदेतेन परास्तम् । उक्त- मेदिन्यां वृत्तिविषयत्वानभिधानात् । 'मन्दरः सैरिभः शक्र- भव(सद ) नं खं दिवं नभः' इति त्रिकाण्डशेषाच्च ॥*॥ विश- न्त्यस्मिन् सुकृतिन इति विशेः ( 'विश प्रवेशने' तु० प० अ० ) कप्रत्ययः, तस्य च तुट् | 'व्रश्च – ' ( ८।२।३६ ) इति षत्वम् । 'यत्र ब्रध्नस्य विष्टपम्' इति वैदिकः प्रयोगः । तृतीयं विष्टपं त्रिविष्टपम् ॥ ( ९ ) ॥ पूरणप्रत्ययस्तु वृत्तौ गतार्थत्वान्न |
- ↑ अयं पाठस्तु हैम उपलभ्यते ।