पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुरवर्ग: २] व्याख्यासुधाख्यव्याख्यासमेतः । उटाज्जायते । 'पेञ्चम्याम्-' ( ३१२९८ ) इति डः ॥ (२) गर्भागारं वासगृहम् ॥ * ॥ द्वे 'मुनीनां गृहस्य' ॥ चैत्यमायतनं तुल्ये चैत्यमिति ॥ चीयते । 'चित्याग्निचित्ये च' (३|१|१३२ ) इति साधुः । चिल्याया इदम् । 'तस्येदम्' ( ४ | ३ | १२० ) इत्यण् । -~-तस्येदम् — इति विग्रहप्रदर्शनं मुकुटस्य प्रमादः । चित्यायाः स्त्रीलिङ्गत्वात् । 'चैत्यमायतने बुद्धबिम्बेऽप्युद्देश्य- पादपे’ इति रुद्रः ॥ (१) ॥ * ॥ आयतन्तेऽत्र | 'यती प्रयत्ले' ( भ्वा० आ० से ० ) । अधिकरणे ल्युट् ( ३|३|११८ ) ॥ (२) ॥ * ॥ द्वे 'यज्ञस्थानस्य' | उद्देश्यवृक्षस्येत्यन्ये || वाजिशाला तु मन्दुरा । वाजीति ॥ वाजिनां शाला ॥ (१) ॥ ॥ मन्दन्तेऽत्र | 'मदि स्तुत्यादौ ' ( भ्वा० आ० से ० । 'मन्दिवाशि - ' ( उ० १|३८ ) | इत्युरच् 'मन्दुरा वाजिशालायां शयनीयार्थव स्तुनि' ॥ (२) ॥ ॥ द्वे 'अश्वशालायाः' || आवेशनं शिल्पिशाला आवेशन मिति ॥ आविशन्त्यत्र | 'विश प्रवेशने' ( तु० प० अ० ) । 'करणा-' (३।३।११८) इति ल्युट् | युच् ( उ० २|७८ ) वा । 'आवेशनं शिल्पिशाले भूतावेशप्रवेशयोः' इति विश्वमेदिन्यौ ॥ (१) ॥ * ॥ शिल्पिनां शौला ॥ ॥ शि- ल्पस्य शाला, इति तु स्वामी ॥ (२) ॥ ॥ द्वे 'स्वर्णकारा दीनां शालायाः' ॥ प्रपा पानीयशालिका ॥ ७ ॥ प्रपेति ॥ प्रपिबन्त्यस्याम् । ‘पा पाने' (भ्व०प० आ० ) । ‘आतश्चोप–’ ( ३।३।१०६ ) इत्यङ् ॥ (१) ॥ ॥ पानीयस्य शाला । स्वार्थे कन् ( ५।३ ) ॥ (२) ॥ ॥ द्वे 'जलशा- लायाः ॥ मठरछात्रादिनिलयः मठ इति ॥ मठन्त्यत्र 'मठ मदनिवासयो: ' ( भ्वा०प० से॰) । ‘हलच’ (३।३।१२१ ) इति घञ् । संज्ञापूर्वकत्वान्न वृद्धिः । यद्वा मठति निवासयति । पचाद्यच् (३|१|१३४) ॥ (१) ॥ ॥ छात्रोऽन्तेवासी आदिर्येषां परिव्राजक - क्षपणका- दीनां तेषां निलयः । बौद्धानां तु विहारोऽस्त्री ॥॥ एकम् 'शिष्याणां गृहस्य = मठस्य' || गञ्ज तु मदिरागृहम् । गञ्जेति ॥ गञ्जन्त्यस्याम् । ‘गजि शब्दार्थः' (भ्वा०प० से॰ ) । ‘गुरोच हलः’ ( ३।३।१०३ ) इत्यः । 'गञ्ज खनौ सुरागृहे । गञ्जः स्यात्पुंसि रीढायां भाण्डागारे तु न स्त्रियाम्' इति विश्वमेदिन्यौ ॥ (१) | || मदिराया गृहम् ॥ (२) ॥ * ॥ द्वे 'मद्यसंधानगृहस्य' || १ - अन्यत्रापि ॥ २ - 'विभाषा सेना' (२२४२५) इति कीबतायां 'शिल्पिशालम्' अपि ॥ ११९ गर्भेति ॥ गर्भ इवागारम् ॥ (१) ॥ ॥ वासस्य गृहम् ॥ (२) ॥ ॥ द्वे 'गृहमध्यभागस्य ॥ अरिष्टं सूतिकागृहम् ॥ ८ ॥ अरिष्टमिति ॥ नास्ति रिटमत्र । न रिष्यते स्म हिंस्रैः इति वा । 'रिष हिंसायाम्' ( भ्वा०प० से ० ) । क्तः ( ३ | २ | १०२ ) । 'अरिष्टो लशुने निम्बे फेनिले काककङ्कयोः । अरिष्टमशुमे तक्रे सूतिकागार आसवे । शुभे मरणचिह्ने च इति विश्वमेदिन्यौ ॥ ( १ ) ॥ * ॥ सूतैव सूतिका । 'सूतकादीनां वा' ( वा० ७७३१४५) सूतिकाया गृहम् ॥ (२) ॥ * ॥ द्वे 'प्रसवस्थानस्य' चत्वारः पर्यायाः, इत्यन्ये ॥ वातायनं गवाक्षः वातेति ॥ ईयतेऽनेन । 'इण् गतौ' (अ० प० अ० ) क- रणे ल्युट् ( ३।३।११८ ) | युच् ( उ० २१७८ ) वा | वातस्याय- नम् ॥ (१) ॥ * ॥ गवामक्षीव । 'अक्षणोऽदर्शनात्' (५॥४॥ ७६ ) इत्यच् । गावो जलानि किरणा वाक्षन्ति व्याप्नुवन्ति एनमनेन वा । 'अक्षू व्याप्तौ ( भ्वा० प० से ० ) | अकर्त घञ् ( ३।३।१९ ) | यत्तु – 'इन्द्राक्षयोः समासे च' इत्यवङ् इति स्वामिनोक्तम् । तन्न | एतद्वचनस्यादर्शनात् । 'गवाक्षी शक्रवारुण्यां गवाक्षो जालके कपौ' ॥ (२) ॥*॥ द्वे 'जालकस्य' ॥ अथ मण्डपोऽस्त्री जनाश्रयः । अथेति ॥ मण्डनं मण्डः । 'मडि भूषायाम्' (भ्वा०प० से० ) । घञ् ( ३।३।१८ ) मण्डं पाति । ‘पा रक्षणे' ( अ० प० अ० ) । 'आतोऽनुप - ' ( ३ | २ | ३ ) इति कः । मण्डं पित वा ॥ (१) ॥ ॥ जनानामाश्रयः ॥ ( २ ) ॥ ॥ द्वे 'स्त्रीवा- सोचितमण्डपस्य' ॥ हर्म्यादि धनिनां वासः अभ्यादित्वात् ( उ० ४१११२) यत् मुटु च ॥ (१) ॥*॥ हर्म्येति ॥ हरति मनः । 'हृञ् हरणे' (भ्वा० उ० अ० ) । आदिना स्वस्तिकादि ॥ एकम् 'धनवतां वासगृहस्य' ॥ प्रासादो देवभूभुजाम् ॥ ९॥ प्रासेति ॥ देवानां भूभुजां च गृहम् । प्रसीदति मनो ऽत्र । ‘हलश्च’ (३।३।१२१ ) इति घञ् । 'उपसर्गस्य घञि' ( ६ | ३ | १२२ ) इति दीर्घः । आङ् वा ॥ ( १ ) ॥ ॥ एकम् 'देवानां राक्षां च गृहस्य' ॥ सौधोऽस्त्री राजसदनम् सौध इति ॥ 'सुधा स्त्री लेपने मूर्व्या स्रुहि गजेष्टिका- मृते । सुधा लेपोऽस्यास्ति । ज्योत्स्नादित्वात् ( वा० ५ ॥२॥ १०३ ) अण् ॥ (१) ॥*|| राज्ञः सदनं योग्यत्वात् । यद्वा १ - भाष्ये तु 'वा सूतिकापुत्रिकावृन्दारकाणाम्' इत्युपलभ्यते ॥