पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुरवर्गः २ ] विपणिः पण्यवीथिका ॥ २ ॥ • विपणिरिति ॥ विपणन्तेऽत्र 'पण व्यवहारे' (भ्वा० आ॰ से० ) । ‘इक् कृष्यादिभ्यः' ( वा० ३|३|१०८) 'कृदिका - रात्' (ग० ४।१ ) इति ङीष् ॥ (१) ॥॥ पण्यानां वीथी स्वार्थे कन् (५॥३॥७५) ॥ ( २ ) | || द्वे हैशून्यविक्रय - स्थानस्य । मार्गस्य स्वामी । 'आपणः पण्यवीथी च द्वयं वीथीति संज्ञितम्' इति शाश्वतः । 'आपणः पण्यवीथ्यां च पण्ये च विपणिः स्त्रियाम्' इति रभसः ॥ 'द्वयं ऋय्यव- स्तुशालापतेः' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । रथ्या प्रतोली विशिखा रथ्येति ॥ रथं वहति । 'तद्वहति रथयुग' (४१४७६) इति यत् । 'रथ्या तु रथसंघाते प्रतोल्यां पथि चत्वरे' इति हैमः ॥ (१) ॥*॥ प्रतोलयति 'तुल उन्माने' चुरादिः । पचायच् (३।१।१३४) । गौरादिङीष् (४४१४१) । यत्तु – ‘एरच्’ (३।३।५६ ) इति मुकुटेनोक्तम् । तन्न । ‘प्रतोयति' इति विग्रहप्रदर्शनात् । अकर्तरि कारके भावे च एरचो विधानात् ॥ (२) ॥ ॥ विशेते 'शीङ : किस्खश्च ( उ० ५।२४ ) इति खः । 'विशिखाः खनित्रिकायां रथ्यायां विशिखः शरे’ इति हैमः ॥ (३) ॥ * ॥ त्रीणि 'ग्राममध्य- मार्गस्य ॥ स्याच्चयो वप्रमस्त्रियाम् । स्यादिति ॥ चीयते । 'चिञ् चयने' ( स्वा० उ० अ० ) । कर्मणि ‘एरच्’ (३।३।५६) ॥ ( १ ) ॥ ॥ उप्यतेऽत्र | 'डुवप् बीजतन्तुसंताने' (भ्वा० उ० अ०) । ‘वपिवृधिभ्यां रन' ( उ० २।२७) । 'वैप्रश्वावरणे वृन्दे प्राकारे मूलबन्धने' इति धरणिः । 'वप्रस्ताते पुमान्, अस्त्री रेणौ क्षेत्रे चये तटे' इति मेदिनी (२) ॥ * ॥ द्वे प्रकाराधारस्य', 'परिखोद्धृतमृत्तिका- ! कूटस्य' ॥ प्राकारो वरणः साल: प्राकार इति ॥ प्रक्रियते । 'डुकृञ् करणे' ( त० उ० अ० ) । कर्मणि घञ् (३|३|१९) । 'उपसर्गस्य घञि' (६|३|१२३) इति दीर्घः | आङ् वा 'सादकारयोः कृत्रिमे' १ - मुकुटस्तु – 'चत्वार्येव इट्टस्य' इत्यन्ये । 'पर्यापतत्क्रयिक- लोकमगण्यपण्यपूर्णापणं विपणनो विपणि विमेजुः' इति माघे । 'विपणिईट्टः" इति वलमेन व्याख्यातम् । अत एव प्रयोगादविपणेः पुंस्त्वमपि — इति सर्वधर : - इत्यप्याह ॥ अत एव हैममेदिन्योः 'विपणिः पण्यवीथ्यां च भवेदापणपण्ययोः' इत्युपलभ्यते ॥ २ – केन्चित्त 'विपण्यादीन्पञ्चैकार्थानाडुः । तथा च कौटिल्य: 'विशि- खायां सौवर्णिप्रचारः' इति तु भट्टक्षीरस्वामी - इति मुकुटः ॥ ३- मुकुटपुस्तकयोस्तु 'चयः' इत्युपलभ्यते ॥ ११७ इति दीर्घः - इति खामिमुकुटौ | तन्न । अस्यादर्शनात् ॥ (१) ॥ ॥ वृणोति । 'वृञ् वरणे' ( स्वा० उ० से० ) कर्तरि ल्युट् (३|३|११३) | करणे (३।३।११७) वा । 'चरणो वरणद्रुमे । प्राकारे, वरणं वृत्याम्' इति हैमः ॥ ( २ ) ॥*॥ सल्यते । ‘षल गतौ' ( भ्वा०प० से ० ) | कर्मणि घञ् (३।३।१९) । 'सालो वरणसर्जयोः' इति रभसः ॥ * ॥ 'तालव्यो नृपझषयोः शालो, वृक्षे वृतौ दुभेदे च । तालव्यदन्त्य उक्तस्तथा स्त्रियां वृक्षशाखायाम्' इत्यूष्मविवेकः । तत्र 'शल गतौ' ( भ्वा० प० से ० ) धातुर्बोध्यः ॥ (३) ॥ * ॥ त्रीणि 'यष्टिकाकण्ट कादिरचितवेष्टनस्य' ॥ प्राचीनं प्रान्ततो वृतिः ॥ ३ ॥ प्राचीनमिति ॥ प्रागेव । 'विभाषाञ्चरदिक् स्त्रियाम् (५१४१८) इति खः ॥ ॥ 'प्राचीरम्' इति पाठे तु प्राची - यते । प्राङ्पूर्वः । 'चिन् चयने' ( स्वा० उ० अ० ) । 'शुसिचिमीनां दीर्घश्च' ( उ० २१२५ ) इति कन्दीर्घौ ॥ वृतिः । ‘वृञ् वरणे' ( स्वा० उ० अ० ) । क्तिन् (३॥३॥ ) । वर ( १ ) ॥ ॥ प्रान्ततः, सप्तम्यास्तसिः ( ९४) ।—व्रियतेऽनया, इति ‘वृतिः' इत्यपि नाम, इति स्वामी - इति मुकुटः । तन्न । करणे ल्युट्प्रसङ्गात् ॥*॥ एकं 'ग्रामादेरन्ते कण्टकादिवेष्टनस्य ॥ भित्तिः स्त्री कुंड्यम् भित्तिरिति ॥ भिद्यते । 'भिदिर् विदारणे' ( रु० उ० अ० ) | तिन् ( ३ ३ (९४ ) | 'भित्तिः कुड्ये प्रमेदे च' इति हैमः ॥ ( १ ) ॥ ॥ कुट्यां साधु । 'तत्र साधुः ' (४४९८) इति यत् । पृषोदरादिः (६|३|१०९)। कु- ड्यते वा । 'कुडि कार्कश्ये' ( ) । ण्यत् (३१॥ १२४) । ( 'कुड्यं भित्तौ विलेपने' इति मेदिनी ) ॥ ( २ ) ॥ ॥ द्वे 'भित्तेः' ॥ एड्कं यदन्तर्न्यस्तकीकसम् । एड्कमिति ॥ यत् कुड्यं मध्यन्यस्तास्थि तत् ईज्यते । 'ईड स्तुतौ' ( अ० आ० से ० ) 'उलूकादयश्च' ( उ० ४१४१ ) इति साधु । 'भवेदेडो कमेडूकमेडुकं च' इति द्विरूपकोशः ॥ (१) ॥ ॥ एकम् 'अस्थ्यादिमयकुड्यस्य' ॥ गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥ ४॥ निशान्तवस्त्यसदनं भवनागारमन्दिरम् । गृहाः पुंसि च भूइयेव निकाथ्यनिलयालयाः ॥ ५ ॥ गृहमिति ॥ गृह्णाति | 'ग्रह उपादाने' ( क्या० उ० से ० ) १ ~~ अस्य वार्तिकस्य, उदाहरण प्रत्युदाहरणयोश्च (६।३।१२२) सूत्रे भाष्ये उपलब्धेरकिंचित्करमेतत् ॥ २ कौ धोतते इति डप्रकरणे 'अन्यत्रापि' इति डः इति सोमनन्दी । एतेन दकारोऽत्र, न डकारः इति स्वामी – इति मुकुटः ॥