पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिवर्ग: १] व्याख्यासुधाख्यव्याख्यासमेतः । ११५ । नात् । ('अध्वा ना पथि संस्थाने सास्रैवस्कन्धकालयोः' ) ॥ (४) ॥ * ॥ पथन्तेऽनेन । ' पथे गतौ ' ( भ्वा०प० से ० ) । ‘पथिमथिभ्यामितिः' ( ) पतम्यनेन इति वा ‘पतेस्थश्च' इतीनिः, थोऽन्तादेशश्च ॥ * ॥ 'पथः' इत्यदन्तोऽपि । 'वाट' पथश्च मार्गश्च' इति त्रिकाण्डशेषः ॥ (५) ॥*॥ पद्यतेऽनया | 'पद्यटिभ्यामविः' ( ) । 'कृदिकारात्-' (ग० ४।१।४५ ) इति ङीष् ॥ (६ ) ॥ ॥ सरन्त्यनया | 'सृ गतौ' (भ्वा० प० अ०) । क्तिन् (३।३।९४ ) - इति मुकुटः । तन्न । 'अजब्भ्याम् -' ( वा० ३।३।१२६ ) इति ल्युट्प्रसङ्गात् । ( अतः ) करणस्यापि कर्तृत्वविवक्षायां 'तिच्क्तौ च' ( ३|३| १७४ ) इति क्तिच् । ‘सृतिर्गतौ पथि' इति हैमः ॥ (७) ॥ * ॥ 'अर्ति - ' ( उ० २।१०२) इत्यनिः । 'सरणिः श्रेणिवर्त्मनोः' इत्यच् ॥ ( १ ) ॥ * ॥ दुष्टोऽध्वा ॥ ( २ ) ॥ ॥ विरुद्धः पन्थाः 'ऋक्पूर्-' (५॥४॥७४ ) इत्यः- इति मुकुटः । तन्न । ( 'पथः संख्याव्ययादेः' ) ( वा० २१४ | ३० ) इति क्लीबताप्रस- ङ्गात् । अतः 'विरुद्धः पथः' इति विग्रहीतव्यम् ॥ ( ३ ) ॥ * ॥ कुत्सितोऽध्वा । 'कुगति - ' ( ३।२।१८ ) इति समासः । 'कोः कत्तत्पुरुषेऽचि' ( ६ | ३ | १०१ ) ॥ ( ४ ) ॥ ॥ 'ईष- दर्थे च' ( ६|३|१०५ ) इति कादेशः । कुमार्गोऽपीष- मार्गो भवति । कुत्सितः पथः । 'वाट: पथश्च मार्गश्च' इति त्रिकाण्डशेषाददन्तः पथशब्दः । पथशब्देन समासेन पुंस्त्वं निर्वाह्यम् | पथिन्शब्देन समासे 'का पथ्यक्षयोः' ( ६ | ३ | २०४ ) इति कादेशे ‘पथः संख्याव्ययादेः' ( वा० २१४ | ३० ) इति क्लीबत्वं भवति । 'सत्पथस्तु सुपन्थाः स्याद् इति दन्त्यादौ रभसः । 'शुभं शुभे प्रदीप्ते च शरणिः पथि | व्यध्वो विपथकापथौ' इति रभसोऽप्येवम् । ( 'कापथः कु. चावलौ' इति तालव्यादावजयात्तालव्यादिरपि । तत्र ' हिंसा- त्सितपथे उशीरे क्लीबमिष्यते' ) ॥ ॥ कुत्सितार्थ शब्दस्य याम्' (ऋया० प० से० ) | बाहुलकादनिः ॥ ( ८ ) ॥ * ॥ पथशब्देन समासे कुपथः, अपि ॥ ( ५ ) ॥*॥ पश्च पादाभ्यां हन्यते । 'हन हिंसागत्यो : ' ( अ० प० अ० ) । 'दुर्मार्गस्य' || क्तिन् ( ३।३।९४)। ‘हिमकाषिहतिषु च ' ( ६ | ३|५४ ) इति अपन्थास्त्वपथं तुल्ये पद्भावः । 'पद्धतिः पथि पौच' इति हैमः ॥ (९) ॥ * ॥ पादाय हिता । 'शरीरावयवाद्यत्' ( ५११६ ) । 'पद्यत्यतदर्थे' ( ६|३|५३) इति पद्भावः | 'पदमस्मिन्दृश्य- म्' ( ४१४१८७) इति वा ॥ ( १० ) ॥ ॥ वर्तन्तेऽनया | 'वृतेश्च' ( उ० २।१०६) इत्यनिः । 'वर्तनी पथि । वर्तने तर्कपिण्डे च' इति हैमः ॥ ॥ 'चात् (२|१०६ उणादि- सूत्रेण ) मुट्' इत्येके । तत्र वर्त्मनि ॥ (११) ॥ * ॥ एकः पादोऽस्याम् । 'कुम्भपदीषु च ( ५१४|१३९ ) इति निपा- तितः । यद्वा 'संख्यासुपूर्वस्य' (५|४|१४० ) इति पादस्या- न्तलोपः । 'पादोऽन्यतरस्याम् (४११८) इति वा ङीप् । ‘पादः पत्’ ( ६।४।१४० ) ॥ ॥ अत्र पक्षे 'एकपाद्' इत्यपि रूपान्तरम् ।'एकंपदं तत्काले नपुंसकं, वर्त्मनि स्त्री स्यात्' ॥ (१२) ॥ ॥ द्वादश 'मार्गस्य' || अतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि । अपन्था इति ॥ पथोऽभावः । 'नञ्' ( १ | २|६ ) इति तत्पुरुषः ॥ (१) ॥ ॥ ‘पथो विभाषा' (५१४/७२) इत्यः । 'अपथं नपुंसकम्' (२।४ | ३० ) ॥ (२) ॥*॥ द्वे मार्गा- भावस्य' । अतीति ॥ स्वती पूजायाम् । 'कुगति-' (२|२|१८ ) इति समासः । ‘न पूजनात्' ( ५१४/६९ ) ॥ (१) ॥ ( २ ) ॥ ॥ संश्चासौ पन्थाश्च । 'सन्महत्- ' ( २१६१ ) इति तत्पु रुषः ‘ऋक्पूर्’ (५॥४।७४ ) इयः ॥ ( ३ ) ॥ * ॥ त्रीणि 'शोभनमार्गस्य' ॥ व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः ॥१६॥ व्यध्व इति ॥ विरुद्धोऽध्वा । 'प्रादयो गतायर्थे ' ( वा० २।२।१८ ) इति समासः । ‘उपसर्गादध्वनः' (५४८८५) १- आस्रवः कर्मबन्धहेतुक्रिया हिंसादिः तेन सह वर्तते यः स्कन्धः शरीरभावापन्नो रूपरसादिसमूहः सः सास्रवस्कन्धः । इत्य नेकार्थकैरवाकरकौमुदी ॥ शृङ्गाटकचतुष्पथे । शृङ्गेति ॥ शृङ्गं प्राधान्यमटति । 'अट गतौ' (भ्वा० प० से ० ) | 'कर्मण्यण' ( ३ | २ | १ ) | ‘संज्ञायां कन्' (५|३| ७५ ) । ( 'शृङ्गाटकं भवेद्वारिकण्टके च चतुष्पथे' ) ॥ (१) ॥*॥ चतुर्णां पथां समाहारः | 'तद्धितार्थो - ' ( २/१५१ ) इति समासः 'ऋक्पूर्-' (५/४/७४) इति समासान्तः । 'इदुदुपधस्य - ' ( ८३ | ४१ ) इति षत्वम् । 'पथः संख्या-'" ( वा० २१४ | ३० ) इति क्लीबत्वम् । ( 'चतुष्पथं चतुर्मांर्गसं- गमे, ब्राह्मणे तु ना' ) ॥ ( २ ) ॥ ॥ द्वे 'चतुष्पथस्य' ॥ प्रान्तरं दूरशून्योऽध्वा प्रान्तरमिति ॥ प्रकृष्टमन्तरमत्र । 'प्रादिभ्यः - ' ( वा० २) २॥२४ ) इति बहुव्रीहिः । ( 'प्रान्तरं कोटरेडरण्ये दूरशून्य- पथेऽपि च ) ॥ ( १ ) ॥ * ॥ दूरश्चासौ शून्यश्च ॥ एकम् 'दूरशून्यच्छायाजलादिवर्जितमार्गस्य ॥

कान्तारं वर्त्म दुर्गमम् ॥ १७ ॥ कान्तारमिति ॥ कस्य जलस्य सुखस्य वान्तः । कान्त- मृच्छति । 'ऋ गतौ' (भ्वा० प ० से ० ) । 'कर्मण्यण' (३॥ २१ ) ॥ (१) ॥ * ॥ एकम् 'चोराद्युपद्रवैर्दुर्गममार्गस्य' || गव्यूतिः स्त्री क्रोशंयुगम् गव्यूतिरिति ॥ 'गोर्यूतौ छन्दस्युपसंख्यानम्’, ‘अध्व- परिमाणे च ( वा० ६।१।७९ ) इत्यवादेशः । 'धन्वन्तरसहस्रं