पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ ‘अन्यतरस्याम्' (५१२१९७) ग्रहणान्मतुप् (५१२१९४) च ॥ (४) ॥ * ॥ चत्वारि 'अश्मप्रायमृद्धिकस्य वालुकायु- तदेशस्य' ॥ अमरकोषः । देश एवादि मौ देशे इति ॥ ( तत्र ) आदौ भवौ | + 'मध्यान्मः' (४ | ३१८) इत्यत्र 'आदेश्व' इति वचनान्मः + ॥ आदिमौ शर्करा- शर्करिलौ देशे एव नान्यत्र | 'शार्करः, शर्करावान्' इतीमौ तु 'देशादेशयोः' ॥ एवमुन्नेयाः सिकतावति ॥ ११ ॥ एवमिति ॥ एवं 'सिकता' 'सिकतिलः' इतीमौ देश एव । 'सैकतः' 'सिकतावान्' इति तु देशादेशयोः । केचित्तु सिकताशर्कराशब्दौ बहुवचनान्तावाहुः ॥ (४) ॥ * ॥ चत्वारि 'वालुकाबहुल देशस्य' || देशो नद्यम्बुवृष्ट्यम्बुसंपन्नवीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥ १२ ॥ देश इति ॥ नद्यम्बुभिर्वृष्टयम्बुभिश्च संपन्नैर्धान्यैः पालितः । नदी मातास्य । 'नघृतश्व (५१४/१५३) इति कप् ॥ (१) ॥ * ॥ देवो मातास्य । 'देवो मेघे सुरे राज्ञि' ॥ (१) ॥॥ क्रमेण एकैकम् 'नद्यम्बुभिर्वृष्ट्यम्बुभिः संपन्नदेशस्य' ॥ सुराशि देशे राजन्वान् स्यात् सुराशीति ॥ शोभनो राजा यत्र । – 'न पूजनात्' (५॥ ४।६९) इति टचोऽभावः- इति मुकुटः | तन्न | बहुव्रीहौ टचोऽ- प्रसङ्गात् । मतुप् (५१२१९४) प्रशंसायाम् (वा० ५१२१९४) 'राजन्वान्सौराज्ये' (८२ | १४) इति साधुः ॥ ( १ ) ॥ * ॥ एकं 'स्वधर्मपरराजयुक्तदेशस्य' ॥ ततोऽन्यत्र राजवान् । तत इति ॥ अन्यत्र राजमात्रयुक्तदेशे ॥ ( १ ) ॥ * ॥ एकम् 'सामान्यराजयुक्तदेशस्य' ॥ गोष्ठं गोस्थानकम् गोष्ठमिति ॥ गावस्तिष्ठन्ति यत्र । 'घञर्थे -' (वा० ३) | ३१५८) इति कः । 'अम्बाम्ब' (८|३|९७) इति षत्वम् । 'गोष्ठं गोस्थानके, गोष्ठी सभासंलापयोः स्त्रियाम् ॥ (१) ॥*॥ गवां स्थानम् । स्वार्थे कः (५॥ ३॥७५) ॥ (२) ॥ ॥ द्वे 'गवां स्थानस्य' | तत्तु गौष्ठीनं भूतपूर्वकम् ॥ १३ ॥ तत्त्विति ॥ पूर्वं भूतं गोष्ठम् । ‘गोष्ठात्खन् भूतपूर्वे' (५) [ द्वितीयं काण्डम् २॥१८) इति खञ् ॥ (१) ॥*॥ एकम् 'भूतपूर्वगोष्ठस्य' ॥ पर्यन्तभूः परिसरः १-- 'चात् मतुप्' इति तु वक्तुं युक्तम् । अत एव 'देशे लुप्' इति सूत्रे 'चादण्मतुप् च' इति सिद्धान्तकौमुद्यामुक्तम् ॥ २- 'मध्यान्मः' इति सूत्रे भाष्ये तु 'आदेश' इति वचनं नोपलभ्यते । तस्मात् 'अप्रादिपश्चाडिमच्' ( ४ | ३ | २३ सूत्रे ) इति वचनादादेर्डि- मच् वक्तव्यः ॥ पर्यन्तेति ॥ पर्यन्ते भूः ॥ (१) ॥ ॥ परितः सरन्त्यत्र । 'पुंसि' (३।३।१८) इति घः । ( 'परिसरः प्रान्तभू- दैवयो- र्मृतौ ) ॥ ( २ ) ॥ * ॥ द्वे 'नद्यादिसमीपभूमेः' ॥ सेतुरालौ स्त्रियां पुमान् । सेतुरिति ॥ स्त्रियां वर्तमानायाम् आलौ सेतुः ( पुमान् ) सिनोति, सीयते वा । 'षिञ् बन्धने' ( स्वा० उ० अ० ) । 'सितनि- ' ( उ० १।६।९ ) इति तुन् ॥ ( १ ) ॥*॥ आ अल- त्यम्भः । 'अल वारणे' (भ्वा० प० से० ) । इन् ( उ० ४ । ११८ ) | यद्वा - अल्यतेऽनया | 'इणजादिभ्यः' ( वा० ३|३| १०८ ) ॥ (२) ॥ ॥ द्वे 'सेतोः' 'पुल' इति ख्यातस्य ॥ वामलूरश्च नाकुश्च वल्मीकं पुंनपुंसकम् ॥ १४ ॥ वामेति ॥ वामैर्वामं वा लूयते । 'लूज् छेदने' ( श्या० उ० से० ) । बाहुलकाद्रक् ॥ (१) ॥ ॥ न अकति | ‘अक कुटिलायां गतौ' ( भ्वा० प० से ० ) बाहुलकादुः । यद्वा नम्यते भूरनेन । 'णम प्रहत्वे शब्दे च' ( भ्वा०प० अ० ) 'फलिपाटिनमिमनिजनां गुपटिनाकिधतश्च' ( उ०१1१८ ) इत्युः, नाकिश्च । इकार उच्चारणार्थ: । ( 'नाकुर्मुन्यन्तरे पृथ्वी- धर-वल्मी कयोः पुमान्' ) ॥ (२) ॥ ॥ बलते प्र नोऽत्र | 'अलीकादयश्च' ( उ० ४।२५ ) इति निपातितः । ('व- ( ब ) ल्मीको नाकुवाल्मीक्यो रोगमेदे' ) ॥ (३) ॥ ॥ त्रीणि 'पिपीलिकादि निष्कासितमृत्पुञ्जस्य' ॥ अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः । सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ १५ ॥ अयनमिति ॥ अयन्ते ईयते वानेन । 'करणा-' (३| ३११७) इति मुकुटः । तन्न । घनो ल्युडपवादत्वात् । आतो युच् (उ० २१७८) कर्मणि वा ल्युट् ( ३ |३|११३) । 'अयनं पथि गेहेऽर्कस्योदग्दक्षिणतो गतौ' इति हैमः ॥ (१) ॥ ॥ वृत्तं तत् | वर्ततेऽत्र वर्तन्तेऽनेन वा । मनिन् ( उ० ४|१४५) ॥ (२) ॥*॥ मृज्यते वितृणीक्रियते पादैः । ‘मृज् शुद्धौ ' ( अ० प० से ० ) । मार्ग्यते । 'मार्ग अन्वेषणे' ( चु० उ० से ० ) वा । यत्तु - मृग्यतेऽनेन इति मुकुटेनोक्तम् । तन्न । अल्लोपस्य स्थानिवत्त्वाल्लक्षणाभावान्नोपधावृद्धिः स्यात् । 'मार्गो मृगमदे मासे सौम्यर्क्षेऽन्वेषणे पथि' इति हैमः ॥ (३) ॥ ॥ अत्ति बलमु (पथिकानाम् ) ‘अद भक्षणे' (अ० प० अ० ) । 'अर्धश्च' ( उ० ४७११६ ) इति क्वनिप्, धश्वा- न्तादेशः । यत्तु - अत्यते सततं गम्यते अनेन-इति मुकुटे-' नोक्तम् | तन्न । उक्तसूत्र विरोधात् । अततेर्धक्कनिपोरविधा- १ - वाल्मीको प्राचेतसे यथा 'पीयूषमेव नालीकं वल्मीकस्य कवेर्गिरि’ इत्यनेकार्थकैरवाकरकौमुदी ॥